________________ उवक्कम 866 - अभिधानराजेन्द्रः - भाग 2 उवक्कम णभावे सतीति अथवा उपक्रम्यतेऽस्माद्विनीतविनयविनयादित्युपक्रमः विनेयेनाराधितो हि गुरुरुपक्रम्य निक्षेपयोग्यं शास्त्रं करोतीत्यभिप्रायः। तदेवं करणाधिकरणापादानकारकैर्गुरुवाग्योगा-दयोऽर्था विवक्षाभेदतो भेदेनोक्ताः / यदि तु विवक्षया सर्वेऽप्येकैककरणादिकारणवाच्यत्वेनोच्यन्ते / तथापि न दोषः / (सत्थस-तीवीकरणमिति) शास्त्रस्य समीपीकरणं शास्त्रस्यन्यासदेशानयनं निक्षेपयोग्यताकरणमुपक्रम इति सर्वत्र संबध्यत इति / विशे०६ द्वा०। अनु० / उपक्रमणमुपक्रम इति भावसाधनः / शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः उपक्रम्यते वाग्योगेनेत्युपक्रम इति करणसाधनः / उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः / उपक्रम्यते अस्मादिति वा विनयविनयादित्युपक्रम इत्यपादानसाधन इति।स्था०१ ठा०ा व्य० / आ०म० प्र० / सूत्र० ज०। उपक्रमो द्विधा / शास्त्रीय इतरश्च / शास्त्रानुगतः शास्त्रीयः (आचा०) इतरश्च लोकप्रसिद्धः / तत्रेतरजिज्ञासयाह से किं तं उवक्कमेइछविहे पण्णत्ते तं जहाणामोवक्कमे ठवणोवक्कमे दव्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे नामठवणाओ गयाओ॥ अत्र क्वचिदेवं दृश्यते उवक्कमे दुविहे पण्णत्ते इत्यादि" अयं च पाठः आधुनिको युक्तश्च आह वा उवक्कमे छविहे पण्णत्ते इत्यादि वक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात् / यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्ततः वक्ष्यमाणसूत्रमेवं स्यात् "से किं तं सत्थोवक्कमे 2 छविहे पण्णत्ते इत्यादि' नचैवं तस्मान्नेह सूत्रद्वैविध्यप्रतिज्ञा किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथा निर्दिष्टमेव सूत्रमित्त्यलं विस्तारेण / प्रकृतं प्रस्तुतं सूत्रम् / नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यक व्याख्यानुसारेण कर्तव्या। अनु०। विशे०॥ द्रव्योपक्रमः। से किं तं दव्वोवक्कमे 2 दुविहे पण्णत्ते तं जहा आगमतो अ नोआगमतो आजाणयसरीरभविअसरीरवइरित्तेदव्वोवक्कमे 2 तिविहे पण्णत्ते तं जहा सचित्ते अचित्ते मीसए। से किं तं सचित्ते दव्वोवक्कमे २तिविहे पण्णत्ते तं जहादुपएचउप्पए अपए एक्किक्के पुण दुविहे पण्णत्ते तं जहा परिकम्मे अवत्थुवि-णासे अ॥ द्रव्योपक्रमव्याख्यापि द्रव्यावश्यकवदेव यावत्दव्योपक्कमे इत्या-दि। तत्र द्रव्यस्य नटादेरुपक्र मणं कालान्तरभविनाऽपि पर्यायेण सहेदानीमेवोपायविशेषतः सयोजनं द्रव्योपक्रमः / अथवा द्रव्येण घृतादिना भूमादौ द्रव्यतः घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादि / कारकयोजना विवक्षया कर्त्तव्येति / स च त्रिविधः प्रज्ञप्तस्तथा सचित्तद्रव्यविषयः सचित्तः / अचित्तद्रव्यविषयोऽचित्तः / मिश्रद्रव्यविषयस्तु मिश्रः / द्रव्योपक्रमस्त्रिविधः प्रज्ञप्तस्तद्यथा द्विपदानां नटनर्तकादीनां चतुष्पदानामश्वहस्त्यादीनामपदानामाम्नादीनाम्। तत्रैककः पुनरपि द्विधा परिकर्मणि वस्तुनाशे च। तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म। तत्रपरिकर्मणिपरिकर्मविषयो द्रव्योपक्रमः। यदा तु वस्तुनो विनाश एवोपायविशेषैरुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योपक्रमः / सूत्रं द्विपदानां नटनर्तकादीनां घृताधुपयोगेन बलवर्णादिकरणं वर्णस्कन्धवर्द्धनादिक्रिया वा परिकर्मणि सचित्तद्रव्योपक्रमः॥ द्विविधमप्येतदुपक्रमं विभणिषुराहसे किं तं दुपए उवक्कमे नडाणं नट्ठाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंवगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंववीणियाणं कायाणं मागहाणं सेत्तं दुपए उवकमे॥ अत्र निर्वचनं (दुपयाणं नडाणमित्यादि) तत्र नाटकानां नाटयि--तारो नटास्तेषां (नट्टाणंति) नृत्सविधायिनो नर्तकास्तेषां (जल्लाणंति) जल्ला वरत्राः खेलकास्तेषां राजस्तोत्रपाठकानामित्यन्ये (मल्लाणंति) मल्लाः प्रतीतास्तेषां (मुट्ठियाणंति) मोष्टिका ये मुष्टिभिः प्रहरन्ति मल्लविशेषा एव तेषां (वेडं वगाणं ति) विटम्बका विदूषका नानावेषादिकारिण इत्यर्थः। तेषां (कहगाणंति) कथकानां प्रतीतानाम् (पवगाणंति) प्लवका ये उत्प्लवन्ति गर्तादिकं क्रपाभिर्लङ यन्ति नद्यादिकं वा तरन्ति तेषां (लासगाणंति) लासका ये रासकान् गायन्ति तेषां जय शब्दप्रयोक्तृणां वा भण्डानामित्यर्थः / (आयखगाणंति) ये शुभाशुभमाख्यायन्ति ते आख्यायकास्तेषां (लंखाणंति) ये महावंशाग्रमारोहन्ति तेलंखास्तेषाम् (मंखाणंति) ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मंखास्तेषाम् (तूणाभिधानवाद्यविशेषवताम् (तुंबबीणियाणंति) वीणावादकानां (कायाणंति) कावडिवाहकानाम् (मागहाणंति) मङ्गलापाठकानामेषं सर्वेषामपि यद्धाधुपयोगेन वलवर्णादिकरण वर्णस्कन्धवर्द्धनादिक्रियावा स परिकर्मणि सचित्तद्रव्योपक्रमः / यस्तु खङ्गादिभिरेषांनाशएवोपक्रम्यतेसम्पाद्यतेसवस्तुनाशे सचित्तद्रव्योपक्रम इति वाक्यशेषः / अन्ये तु शास्त्रं गन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्योपक्रम इति व्याचक्षते एतचायुक्तं विज्ञानविशेषात्मकत्वाच्छास्त्रादिपरिज्ञानस्य च भावत्वादिति। अथवा यद्यात्मकद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते तद्येतदप्यदुष्टमेवेति। सेत्तमित्यादि-निगमनम्। अथ चतुष्पादानां द्विविधमप्युपक्रमं विभणिषुराहसे किं तं चउप्पए उवक्कमे, चउप्पयाणं आसाणं हत्थीणं / इचादि सेत्तं चउप्पयउवक्कमे, से किं तं अप्पए उवक्कमे / / अप्पयाणं अंबाणं अंबाडगाणं इचाइ सेत्तं अप्पयउवक्कमे। सेत्तं सचित्ते दव्वोवक्कमे॥ से किं तमित्यादि / अत्र निर्वचनं "चउप्पयाणं आसाणं हत्थीणमित्यादिअश्वादयः प्रतीता एव एतेषां शिक्षा गुणविशेषकरणं परिकर्मणि खङ्गादिस्त्वेषां नाशोपक्रमणं वस्तुनाशे सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः सेत्तमित्यादिनिगमनम् / अथापदानां द्विविधमप्युपक्रम विभणिषुराह / अत्र निर्वचनम्। "अपयाणं अंबाणं चारगाणमित्यादि" इहाम्रादयो देशप्रतीता एव नवरं (चाराणंति) येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः आम्रादिशब्दाच वृक्षास्तत्फलानि वा गृह्यन्ते तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणानन्तनां तु गर्तप्रक्षेपकोद्रवपलालस्वगनादिलाआश्वेव पाकादिकरणं परिकर्मणि शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे सचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः सेत्तमित्यादि निगमनद्वयम्। अथाचित्तद्रव्योपक्रम विवक्षुराहसे किं तं अचित्ते दव्वोवक्कमे खंडाईणं गुडाईणं मच्छंडीणं सेत्तं अचित्ते दव्वोवक्कमे॥