SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ उवओग 865 - अमिधानराजेन्द्रः - भाग 2 उवओग वेइंदिया सागारोवउत्ताजेणं वेइंदिय अचक्खुदंसणोवउत्ता तेणं वेइंदिया अणागारोवउत्ता से तेणढेणं गोयमा ! एवं वुचइ? एवं जाव चउरिदिया णवरं चक्खुदंसणं अब्भहियं चउरिदियाणंति पंचें दियतिरिक्खजोणिया जहा णेरइया मणूसा जहा जीवा वाणमंतरजोइसियवेमाणिया जहा णेरइया इति।। जीवाणंभन्ते इत्यादि सुगमम् / प्रज्ञा०२६ पद० / भ० / जी० (जीवेषूपयोगाः जीवट्ठाणशब्दे) गतीन्द्रियादिषु मार्गणास्थानेषु उपयोगाः मणुयगईए वारस, मणकेवलवज्जियाउ नव मीसे। इगिथावरेसुतिविओ, चउविगले वारसे सगले।। मनुजगतौ द्वादशाप्युपयोगाः अन्यासु च नारकामरतिर्यग्गतिषु प्रत्येक मनःपर्यायकेवलद्विकवय॑चक्षुरचक्षरवधिदर्शनाख्यास्त्रय उपयोगा: भवन्ति / तुशब्दस्याधिकार्थसंसूचनान्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः षट् उपयोगा दृश्यन्ते अज्ञानत्रिकदर्शनविकरूपाः षट्। मिश्रे आद्यज्ञानत्रिकाज्ञानत्रिकदर्शनविकरूपा नव प्ररूप्यन्ते / तथा चत्वारो विकलेष्वन्येषामसंभवाचतुरिन्द्रियेषूपयोगास्तत्र त्रयः पूर्वोक्ता एय / चतुर्थस्तु चक्षुर्दर्शनम् / उपलक्षणं चैतत्तेनैत एव चत्वारोऽसंज्ञिनि वेदितव्याः। तथा उसेषु (सगलित्ति) पञ्चेन्द्रियेषु द्वादश / / जोए वेए सण्णी, आहारगभव्वसुक्कलेसासु। वारस संजमसम्मे, नव दस लेसा कसाएसु / / योगे मनोवाक्कायरूपे वेदे स्त्रीपुंनपुंसकलक्षणे, संज्ञिनि आहारक-भव्येषु | शुक्ललेश्यायां च द्वादशाप्युपयोगाः। वेदश्चेह द्रव्यरूपः आकारभावो गृह्यते तेन तत्र केवलज्ञानाद्यविरोधः। तथा संयमे यथाख्यातरूपे सम्यक्त्वे। क्षायिकलक्षणे नवोपयोगास्तत्राज्ञानत्रिकाभावात् / तथा लेश्यासु कृष्णनीलकापोततेजः पद्माख्यासु कषायेषु च चतुर्षु केवलज्ञानकेवलदर्शनहीनाः शेषा दशोपयोगा कृष्णादिलेश्याभावे केवलद्विकानुत्पादात्। इह ये उपयोगायैरुपयोगैः सह न भवन्ति यैश्च सह भवन्ति तान तथोपदर्शयन्नाह। सम्मत्तकारणेहिं, मिच्छत्तनिमित्तानहाति उवओगा। केवलदुगेण सेसा, संतेव अचक्खुचक्खुस्सु॥ सम्यक्त्वं कारणं येषान्तेसम्यक्त्वकारणास्तैर्मतिज्ञानादिभि-रुपयोगैः सह मिथ्यात्वनिमित्ता मिथ्यात्वनिबन्धना मत्यज्ञानादयः उपयोगान भवन्ति / तथा केवलद्विके न केवलज्ञान केवलदर्शनरूपेण सह शेषान्छादास्थिका मतिज्ञानादय उपयोगा न भवन्ति देशज्ञानदर्शनव्यवच्छेदेनैव केवलज्ञानदर्शनप्राप्तुर्भावात्। “उप्पत्तंसि अणंते | नहमियच्छाउमत्थिए नाणे" इति वचनप्रामाण्यात् / आह ननु यदि मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति तर्हि सकलस्वस्वावरणक्षये सुतरां भवेयुश्चारित्रपरिणामवत् तत्कथं केवलज्ञालदर्शनभावे मतिज्ञानाद्यभाव आदरः "आवरणदेसविगमे, जाईविजति मई सुयाईणि / आवरणसव्वविगमे, कह ताइ न होति जीवस्स" उच्यते इह यथा सहस्रभानोरुपचितघनपटलान्तरितस्यापान्तरालावस्त्रितकटकुड्याद्यावरणविवरप्रविष्टः प्रकाशो ऽस्पष्टरूपो घटपटादीन् प्रकाशयति तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्यापान्तरालमतिज्ञानाद्यावरणक्षयोपशमरूपविवरविनिर्गतः प्रकाशो जीवादीन् पदार्थान् प्रकाशयति / स च तथा प्रकाशयंस्तत्तत्क्षयोपशमानुरूपं मतिज्ञानं श्रुतज्ञानमित्यादिरूपमभिधानमुदहति। ततो यथा सकलघनपटलकटकुड्याद्यावरणापगमे स तथाविधप्रकाशसहस्रधाकारास्पष्टरूपो न भवति किं तु सर्वात्मना स्फुटरूपोऽन्य एवच तथेहापि सकलकेवलज्ञानावरणमतिज्ञानाद्यावरणविलयेन तथाविधोऽस्पष्ट रूपो मतिज्ञानादिसंजिनः केवलज्ञानस्य प्रकाशो भवति सर्वात्मना यथावस्थितं वस्तुपरिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः। उक्तं च / कडविवरागव्यकिरणा, मेहंतरियस्स जह दिणेसस्स / उक्कडमेहावरणे, न हो ति जह तह इमाइंपि"। अन्ये पुनराहुः। सत्येव सयोगिकेवल्यादावपि मतिज्ञानादीनि केवलमफलत्वात्सन्त्यपि तदानींतनानि न विकसन्ति सूर्योदये नक्षत्रानीनि / उक्तं च / "अत्ते आभिणिबोहियनाणाईणि वि जिणस्स विजंति / अफलाणि य सूरुदए, जहेव नक्खत्तमाईणि" तथा (संतेवअचक्खुचक्खुस्सुत्ति) सन्त्येव भवन्त्येदा अचक्षुर्दर्शनचक्षुर्दर्शनाभ्यां बहुवचनात् अवधिदर्शनेन च सह सम्यक्त्वनिमित्ता मिथ्यात्वनिमित्ताश्चोपयोगास्तेन मतिश्रुतावधिज्ञानमनः पर्यायज्ञानसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपरायक्षायो-पशमिकौपशमिकसम्यक्त्वेषु केवलद्विकाज्ञानत्रिकहीनाः शेषाः सप्तोपयोगाः। अज्ञानत्रिकावरणसास्वादनमिथ्यात्वेषु केवलद्विकमतिज्ञानादिचतुष्टयरहिताः शेषाः षट् केवलद्विके केवलज्ञानकेवलदर्शन चक्षुरचक्षुरवधिदर्शनेषु केवलद्विकहीनाः शेषा दश / मनः पर्यायज्ञानचक्षुर्दर्शनरहिताश्च शेषा दशानाहारके सूत्रे च। अचक्खुचखुस्सुत्ति)सप्तमी तृतीयार्थे वेदितव्या भवति // यदाह पाणिनिः प्राकृतलक्षणे तृतीयार्थे सप्तमी यथा तिसु तेसु अलंकियापुहई इति" तदेवं कृता मार्गणास्थानेषु योगोपयोगमार्गणा।। पं० सं०१ द्वा० / गुणस्थानेषूपयोगाः। अधुनैतेष्वेवोपयोगानभिधातुकाम आह / / तिअनाणदुदंसाइम-दुगे अतियदेसिनाणदंसतिगं। ते मीसे मीससमणा, जयाइकेवलिदुयंतदुगे॥४८|| आदिमद्विके मिथ्यादृष्टिसास्वादनलक्षणे प्रथमद्वितीयगुणस्थानकद्वये इत्यर्थः (तियनाणदुदंसत्ति) त्रयाणामज्ञानानां समाहारस्यज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपं दर्शनं दर्शः। द्वयोर्दर्शयोः समाहारो द्विदर्शम् / चक्षुर्दर्शनाचक्षुर्दर्शनरूपमित्येते पञ्चोपयोगा मिथ्यादृष्टिसास्वादनयोर्भवन्ति न शेषाः सम्यक्त्वविरत्यभावात् / तथा अयतेऽविरतसम्यग् दृष्टौ देशे देशविरते षडुपयोगा भवन्ति तथा हि (नाणदंसतिगति) त्रिकशब्दस्य प्रत्येकमभिसंबन्धात् ज्ञानत्रिक मतिज्ञानश्रुतज्ञानावधिज्ञानरूपं दर्शत्रिकं चक्षुरचक्षुर्दर्शनावधिदर्शनलक्षणमिति न शेषाः सर्वविरत्यभावात्। ते पूर्वोक्ता ज्ञानत्रिकदर्शनत्रिकरूपाः षडुपयोगा मिश्रे सम्यग्मिथ्यादृष्टि गुणस्थानके मिश्रा अज्ञानसहिता दृष्टव्याः तस्योभयदृष्टिपातित्वात् केवलं कदाचित्सम्यक्तवबाहुल्यं कदाचिच मिथ्यात्वबाहुल्यम्। ततोऽज्ञानबाहुल्यसमकक्षतायां तूभयांशसमतेति / अस्मिश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षया दृष्टव्यमित्युक्तं प्राक् / (समणाजयाइत्ति) यमस्तृपरमेयमनं यतम् / यतं विद्यते यस्य स यतः अभ्रादिभ्य इत्यप्रत्ययः प्रमत्तगुणस्थानकवर्ती साधुर्यत आदिर्येषां गुणस्थानकानां तानि यतादीनि प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिवादरसूक्ष्मसंपरायोपशान्तमो हक्षीणमो हलक्षणानि सप्तगुणस्थानकानि तेषु पूर्वोक्तज्ञानत्रिकदर्शनत्रिकाख्याः यदुपयोगाः (समणत्ति) मनः
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy