________________ उवओग 193- अभिधानराजेन्द्रः - भाग 2 उवओग भणिओ वियडत्थो विय,छठुद्देसे विसेसे उ॥ एवं फुडवियडम्मि वि, सुत्ते सव्वनुभासिए सिद्धे। कह तीरइ परतित्थिय-वत्तव्वमिणंति वोत्तुं ते॥ एवमुक्तप्रकारेण विशेषितेऽपिव्यक्तेऽपिक्रमोपयोगसाधके सिद्धान्ते सूत्रे सति योऽयमेकान्तरोपयोगः स परमतं युगपदुभयोपयोगसूत्रंतुयदसदपि भवता किमपि कल्पते तत्र परतीर्थिकवक्तव्यतेति स्वतरसि पक्षपातं परित्यज्य चिन्त्यतां केयं विपर्यासबुद्धिरिति / किंच भगवत्यां पञ्चविंशतितमे शते षष्ठोद्देशके "सिणाएणं भंते! किं सागारोवउत्ते होज्जा अणगारोवउत्ते होजा गोयमा ! सागारोव-उत्तेवि होज्जा अणगारोवउत्तेवि होज्जा"।। इत्यनेन सूत्रेण विशेष्य नामग्राहं स्नातकस्य केवलिनो विकटार्थः प्रकटार्थ एव भणितः प्रतिपादितः। एकस्मिन्समयः एकतरः साकारो नाकारोवा उपयोग इति। एवं स्फुटे सूत्रतो विकटे प्रकटेवाऽर्थतः सर्वज्ञभाषिते सूत्रे सिद्ध कथं सकर्णविज्ञानैः परतीर्थिकवक्तव्यतेयमिति तीर्थते शक्यते वक्तुम् / (जे) इति वाक्यालंकारार्थ इति // अपिचसव्वत्थसुत्तमत्थिय-फुडएगपरोवओगजुत्ताणं। उभओवउत्तसत्ता, सुतिवुत्तान कत्थइ वि।। कस्सइ वि नाम कत्थइ, काले जइ होज दोवि उवओगा। उभओवउत्तसत्ता,ण सुत्तमेगं पितो होना। एकतरोपयोगोपयुक्तानां सत्वानां प्रतिपादकं सूत्रं सर्वत्र सिद्धान्ते स्फुटमस्ति / तच किञ्चिद्दर्शितं दर्शयिष्यते च युगपदुभयोपयोगो युक्तसत्वास्तु सूत्रं क्वचिदप्युक्ताः प्रतिपादिता दृश्यन्त इति / यदि नाम कस्यापि भवस्थकेवलिनः सिद्धकेवलिनो वा क्वचिदपि कालं युगपद् द्वावुपयोगौ भवेतां ततस्तर्हि युगपदुभयोपयोगोपयुक्तसत्वा-ना प्रतिपादकमेकमपि सूत्रे क्वचिदपि भवेन्नतु क्वापि तत्पश्याम इत्यतो निरालम्बनाग्राहमात्रभ्रमित एव भ्राम्यति भवानिति / / अपिचदुविहाणं पिय जीवाण भणियमप्पाबहुंच समयम्मि। सागारणगाराण य,न भणियमुभओवउत्ताणं / / जइ केवलीण जुगवं, उवओगो होज तो एवं / सागारणगाराण य, मीसाण य तिण्हमप्पवहुं॥ साकारोपयोगवतामनाकारोपयोगवतां च द्विविधानामेव जीवानामल्पबहुत्यं समये सिद्धान्ते प्रज्ञापनाल्पबहुत्वपदे भणितम् / तद्यथा "एएसि णं भंते ! जीवाणं सागारोवउत्ताणं अणगारोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला विसेसाहिया वा।। गोयमा सव्वत्थो वा जीवा अणगारोवउत्ता सागारोवउत्ता संखेजगुणा" युगपदुभयोपयोगोपयुक्तानां तु मिश्राणां तृतीयानामिहाल्पबहुत्वं न भणितं यदि पुनः के वलिना युगपदुपयोगद्वयं भवेत्तदैवं सति साकारानाकारमिश्रोपयोगवतां त्रयाणामेवपदानामल्पबहुत्वं भवेन्नद्वयोरिति। अत्र परशङ्का - परिहारं चाहअह व मई छउमत्थे, पडुच मुत्तमिणमो न केवलिणो। तं पि न जुज्जइ जं सव्व सत्तसंखाहिगारो यं // सुगमा नवरं व्याप्त्या सर्वजीवसंख्याधिकारे निर्दिष्टत्वान्नेदं सूत्रं छदास्थविषयं प्रवक्तुं युज्यत इति / / अथ सर्वजीवाधिकारोडयं न भवतीत्यत्राह काउंसिद्धग्गहाणं, बहुवत्तव्वयपदेसु सव्वेसु। इह केवलमग्गहणं, जइ तो तं कारणं वचं / / यदि सर्वजीवाधिकारोऽयं न भवति तर्हि "गइ इंदियवेए काए जोए कसायलेसास्वित्यादिष्वन्येषु अल्पबहुत्ववक्तव्यताविचारविषयभूतेषु पदेषु सिद्धिगतिकानीन्द्रियकाययोग्यकषायलेश्या नोसंयतनोपरीत्तादिपदैः पृथक् सिद्धग्रहणं कृत्वा केवलमिहैवोपयोगपदे पृथक्त्वग्रहणं करोति / ततस्तत्र कारणं वाच्यं यदि हि छद्मस्थाधिकारत्त्वादिह तदग्रहणमित्युच्यते तर्हि शेषपदेषु सिद्धकेवलिग्रहणमयुक्तं स्यात्तस्मात्सर्वजीवाधिकार एवायं केवलमाहारकानाहारकभाषकादिपदद्वयेनैवानेन साकारानाकारोपयोगपदद्वयेन सिद्धके वलिना गृहीतत्वादिह पृथक्त्वादग्रहणमिति / आगमान्तरतोऽप्यत्र छद्मस्थाधिकारशङ्का निवर्तयन्नाह॥ अहवा विसेसियं चिय,जीवाभिगमम्मि एयमप्पबहु। दुविहत्ति सव्वजीवा, सिद्धासिद्धाइया जत्थ॥ अथवा छद्मस्थाधिकारशङ्कानिवर्तकत्वाद्विशेषितमिवैतत्साकारानाकारोपयोगयोः पदद्वयस्याल्पबहुत्वं जीवाभिगमे प्रोक्तमिति शेषः॥ क्व सूत्रे इत्याह / सिद्धासिद्धादिभेदेन द्विविधा एव सर्वे जीवा यत्र सूत्रे प्रतिपाद्यन्त इति तदेव सूत्रं गाथयोपनिबध्य दर्शयन्नाह / / सिद्धसइंदियकाए, जोए वेए कसायलेसा य। नाणुवओगाहारय, नासयसरीरचरमे य।। सिद्धा असिद्धाश्च सेन्द्रिया अनिन्द्रियाश्च सकाया अकायाश्चेत्यादि भेदेन सर्वे जीवाः संगृह्यात्रसूत्रे जीवाभिगमे प्रतिपाद्यन्ते तत्र सूत्रविशेषितमे वेदमल्पबहुत्वप्रतिपादितमिति युगपदुपयोगद्वयपक्ष निराचिकीर्षुराह॥ अंतोमुहुत्तमेवे य, कालो मणिओ न होवओगस्स। साइअपज्जवसिओत्ति, नत्थि कत्थइ वि निद्दिट्ठो / / तथा ज्ञानाज्ञानदर्शनानामुपयोगस्यागमे सर्वत्र अन्तर्मुहूर्तमेव कालो भणितःसाद्यपर्यवसितस्तुउपयोगकालः क्वापि नास्ति विनिर्दिष्टः यदिह साकारानाकारोपयोगरूपो मिश्रः सिद्धानामुपयोगः स्यात्तदा तेषामिव तस्यापि साद्यपर्यवसितत्वं स्यान्नचैतत्सिद्धान्ते क्वापि भणितं दृश्यते तस्मान्नास्ति युगपदुपयोगद्वयमिति॥ एतदेवाहजह सिद्धाईयाणं, भणियं साईअपञ्जवसियत्तं। तह जइ उवओगाणं, भणियं हवेज तो जुगवं // यथा सिद्धादीनामादिशब्दादनिन्द्रियकादीनां साद्यपर्यवसितत्वं भणितं तथा यधुपयोगानामपि तद्भणितं भवेत्ततस्तौ साकारानाकारोपयोगी युगपद्भवेतां न चैवं तस्मान्न युगपदुपयोगद्वयमिति तदेव सूरिःपरस्याभिनिवेशं निराकृत्यात्मनि तदाशङ्का निराकर्तुमाहकस्स व नाणुमयमिणं, जिणस्स जइ होज दो वि उवओगा। नूणं न होत्ति जुगवं, जओ निसिद्धा सुए बहुसो।। नवि अभिनिवेसबुद्धी, अम्हं एगंतरोवओगम्मि। तदवि मणिमो न तारइ, जं जिणमयमन्नहा काउं॥ पाठसिद्धे एव / अथ परपृच्छामुत्तरं चाह / / "जइ तन्नोन्नावणत्तमे वमित्त्यादि' गाथायां यन्मया 'इयरे यरावरणया अहवा निक्कारणाचरणमित्यादि" दूषणमुक्तं तद्यदि प्रागुक्ते नैव प्रकारेण त्वया नेष्यते तर्हि कथ जिनस्य केवलिन एकान्तरोपयोगेऽभ्युपग