________________ उवओग 892 - अभिधानराजेन्द्रः - भाग 2 उवओग भणियंपिय पन्नत्ती, पन्नवणाईस जह जिणो समयं / जंजाणइन विपासइ, तं अणुपणप्पभाईणि / / ननु प्रज्ञप्त्यां भगवत्यां प्राज्ञपनायां स्फुट भणितमेवोक्तमेव। यथा जिनः केवली परमाणुरत्नप्रभादीनि वस्तून (समयं जंजाणयत्ति) यस्मिन्समये जानाति (न विपासइत्ति) तस्मिन् समये नैव पश्यति किंत्वन्यस्मिन्समये जानाति अन्यस्मिस्तु पश्यति / इयमत्र भावना / इह भगवत्यां तावदष्टादशशतस्याष्टमोद्देशके स्फुटमेवोक्तम्॥ तद्यथा।। "छउमत्थेणं भंते ! मणुस्से परमाणुपोग्गलं जाणइन पासइ उदाहुन जाणइन पासइ। गोयमा! अत्थेगइए जाणइन पासइ / अत्थेगइएन जाणइन पासइ। एवं जाव असंखेजपएसिए खंधे" इह छद्मस्थो निरतिशयो गृह्यते / तत्र श्रुतज्ञानी उपयुक्तः श्रुतज्ञानेन परमाणु जानाति न तु पश्यति दर्शनाभावादपरस्तुजानाति न पश्यति "एवं ओहीएवि परमा ओहीएणं भंते मणुस्से पर माणुपोग्गलं जं समयं जाणइ तं समयं पासइ जं समयं पासइ तं समयं जाणइ णो इणढे समढे से केण?णं भंते ! एवं धुचई? गोयमा ! सागारे से नाणे भवइ अणागारे से दंसणे भवइ सेकेणटेणं पासइ? तेणटेणं एवं वुच्चइ इत्यादि" "केवलीणं भंते! मणुस्से परमाणु-पोग्गलं जंसमयं जाणइतं समयं पासइजं समयं पासइ तं समयं जाणइनो इणढे समढे / से केण₹णं भंते ! एवं वुबई गोयमा ! सागारे से नाणे भवइ। अणागारे से दंसणे भवइसे केणद्वेणं एवं वुचईत्यादि'' एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् / तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं तदभिमानमृत्सृज्य क्रमोपयोगोननिष्पद्यत इति / तदेवं बुभुक्षिता जरगवा जवबुसगृहे प्रविशन्तीति निबिडयुक्तिलगुडादिभिर्धातैर्निवार्यमाणा अपि परस्य दुराग्रहबुद्धिर्न निवर्तते ततश्चक्षुषी निमील्य धृष्टतया पुनरप्याहइव सहमनुप्पटवय, लोवा तं केइ बिंति छउमत्थो। अन्नपुणपरतित्थि, पवत्तव्वमिणंति जंपंति॥ यस्य केवलिनो भगवत्यां युगपदुपयोगो निषिद्धस्तं केचिच्छद्मस्थोऽसाविति ब्रुवते कथं पुनः केवली छद्मस्थो भण्यत इत्याह। कवेलीति वाक्ये इव शब्दलोपादथवा केवली शासिताऽस्येति केवलिमान इति वाक्ये मतुत्प्रत्ययस्य लोपाच्छद्मस्थोऽसौ केवली तस्य च युगपदुपयोगनिषेधो मयापीष्यत एवेति परस्याभिप्रायः। पर एवाह अन्ये तु केचित्तु परतीर्थिकवक्तव्यताविषयमिदं केवलिनोयुगपदुपयोगनिषेधसूत्रं भगवत्यां केनापि प्रसङ्गेन लिखितमिति जल्पन्त्यतो न केवलिनः क्रमोपयोगनिषेधसूत्रमिति। अथ परस्य विभ्रमापहरणार्थ समस्तभूतग्रामानुग्रहशीलः पुनरपि सूरिराहजं छउमत्थो होहि य, परताबहिणो विसेसि कमसो। निहिसइ केवलिं तेण, तस्स छउमस्थया नत्थि।। यस्माद्भगवत्यामष्टादशशताष्टमोद्देशके छद्मस्थमधोऽधिकं परमावधिकं चेत्येतांस्त्रीनपि क्रमशः प्रथमं विशेष्य विशेषतो निर्दिश्य ततः पर्यन्ते केवलिनं निर्दिशति। तेन तस्मात्तस्य केवलिनः स्वजल्पितबद्धमिथ्यावष्टम्भेन युक्तिविकलधार्श्वसामादिवमतुप्प्रत्ययलोपात्त्वयोपनीयमाना छद्मस्थता नास्ति किंतु निरुपचरितकेवल्येवासौ / यदि पुनरयं छास्थोऽभिप्रेतः स्यात्तदा किमनेन व्याजनिर्देशेन यत्किमपि छद्मस्थस्य भणनीयं तत्प्रथमं छद्मस्थोपन्यासकाल एव सर्वमुक्तं स्यादिति। किंच- नय पासइ अणुमन्नो, छउमत्थोकेवली कोसो। जो पासइ परमाणु, गहपामिणं जस्स होजाहि / / "केवली णं भंते ! परमाणुपोग्गलंजस जाणईत्यादि" भगवत्या मुक्तं तं च परमाणुमवधिज्ञानिनं मुक्त्वा अन्यश्छद्मस्थो न पश्यति तत्रापि सर्वेऽप्यवधिज्ञानिनस्तं पश्यन्ति किं तु यः परमावधिज्ञानी तस्माच परमावधेर्यः किञ्चिन्नयूनावधिरधोवलिकः स एव तं पश्यति तौ चाधोवधिकपरमावधिज्ञानिनौ द्वावपि केवलिनः प्रथममेव निर्दिष्टौ ततस्तयोर्द्वयोरपि विशेषतो निर्धार्य निर्दिष्टत्वात्कोऽन्यो हन्त छद्मस्थकेवली योऽसौ परमाणुपुद्गलं पश्यति यस्य छद्मस्थकेवलिन इदं त्वत्कल्पनया भगवत्यां ग्रहणं भवेदिति / अपिचागमे स्थानान्तरेऽपि छद्मस्थादिभ्य उपरिछद्मातीत एव केवली निर्दिष्टो नत्विवादिलोपकल्पनया छद्मस्थ इतिदर्शयन्नाहतेसिं चिय छउमत्था, इयाण मग्गिज्जए जहिं सुत्ते / केवलसंवरसंज-माईएहिं वि निव्वाणं। तिनिवि पडिसेहेउं, तीसुवि कालेसु केवली तत्थ। सिज्झइ सिम्झिसि सिज्झिस्सइवावि विनिद्दिहो। तेषामेव छद्मस्थादीनामादिशब्दादधोवधिकपरमावधिकेवलज्ञा-निना यत्र यत्र भगवतिप्रथमशतकचतुर्थोद्देशकसूत्रे के वलसंवरसंयमब्रह्मचर्यादिभिनिर्वाणं मोक्षो मृग्यते चिन्त्यते तत्रापि सूत्रेत्रीनपि छद्मस्थाधोवधिकपरमावधिज्ञानिनः प्रतिषेध्य तदुपरि के वली भूतभवद्भविष्यल्लक्षणेषु त्रिष्वपि कालेषु सिध्यति असेधीत् सेत्स्यतीति निर्दिष्टो यदि पुनरयमपि त्वत्कल्पनया छद्मस्थो भवति तदा अस्यापि प्रथमनिर्दिष्टछदास्थस्यैव केवलसंवरादिभिः सिद्धिर्न भवेदिति किं पुनस्तत्सूत्रमुच्यते। "छउमत्थे णं भंते मणूसे तीयमणंतं सासयं समय केवलेणं संवरेणं / केवलेणं संजमेणं केवलादिपवयणमायाहिं सिम्झिसु बुझिसु जाव सव्वदुक्खाणमंतं करिंसु ! गोयमा ! नो इण? समट्टे से केणद्वेणं भंते ! एवं वुचइ ! तं चेव जाव अंतं करिंसु गोयमा ! जे केवि अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणं अंतं करेंसु वा करेंति वा करेस्संति वा सव्वे ते उप्पन्ना नाणदंसणधरा अरहा जिणा केवली भवित्ता तओ पच्छा सिज्झति बुज्झंति मुचंति परिनिव्वायंति सव्वदुक्खाणं अंतं करिसुवा करेंति वा करेस्संति वा से तेणट्टेणं गोयमा! जाव सव्वदुक्खाणं अंतं करिसुपडुप्पन्नेवि एव चेव नवरं सिज्झंतिभाणियव्व। अणागएवि एवं चेव / नवरं सिज्झिस्संति भाणियव्वं जहा छउमत्थों तहा अहोहिउ परमाहोविउवि तिन्निर आलावगा भाणियव्वा / केवलीणं भंते ! मणूसे तीतमणतं सासयं समयं जाव अंतं करिंसुहंता सिज्झिंतु वा जाव अंतं करेंसु। एए तिन्नि आलावगा भाणियव्वा छउमत्थे जहा नवरं सिज्झिंसु सिज्झंति सिज्झिस्संति" तस्मादियमेवरीतिः। सिद्धान्ते छद्मस्थादिभ्य उपरियः केवली भण्यते स निरुपचरितएव न पुनरिवादिलोपकल्पनया छदास्थोऽसौ अन्यथा अनन्तर-सूत्रोक्तसिद्धिगमनानुपपत्तेरिति / अथ यदुक्तं "अन्ने पुण परतित्त्थिय वत्तव्व'' मित्यादि तेनासमञ्जस भाषितेनोद्वेजितः परानुकम्पया सखेदं सूरिराह। एवं विसेसियम्मि, परमयमेगंतरो चउग्गेत्ति / न पुणरुभआवेओगो, परवत्तव्वंति का बुद्धी उवओगो एगयरो, पणुवीसइमे सए सणायस्स।