________________ आगम 65 अभिधानराजेन्द्रः भाग 2 आगम सा सर्वत्राऽपि संभवति, तस्मात् पुरुष एव तस्या हेतुरित्यवश्यं प्रतिपत्तव्यम्, अन्यच्च पुरुषस्य रागादिपरीतत्वेन यथावद् वस्तुपरिज्ञानाऽभावात् तत्प्रणीतं वाक्यमयथार्थमपि संभाव्यते इति संशयहेतु: पुरुषोऽपकीर्ण:, स च संशयोऽपौरुषेयत्वा- भ्युपगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि-स्वयं तावत्पुरुषो वेदस्यार्थ नाऽवबुध्यते, रागादिपरीतत्वात्, नाऽप्यन्यत: पुरुषान्तरात् , तस्यापि रागादिपरीतत्वेन यथा तत्त्वमपरिज्ञानाद , अथ जैमि (म) निश्चिरतरपूर्वकालभावी पटुप्रज्ञः सम्यग्वेदार्थस्य परिज्ञातासीत् तत: परिज्ञानमभूदिति, न हि सर्वेऽपि पुरुषाः समाना: प्रज्ञामेधादिगुणैरिति वतुंशक्यं, संप्रत्यपि प्रतिपुरुष प्रज्ञादेस्तारतम्यस्य दर्शनात्, ननु स जैमि (म)नि: पुरुषो वेदस्यार्थ यथावस्थितमवगच्छति स्मेति कुतो निश्चय:? प्रमाणेन संवादादिति चेत् नन्वतीन्द्रियेष्वर्थेषु न प्रमाणस्यावतारो यथाग्निहोत्रवचनस्य स्वर्गसाधनत्वे, बहवश्वातीन्द्रियार्था वेदेव्यावर्ण्यन्ते, तत्कथंतत्र संवाद:? अथ येष्वर्थेष्वस्मादृशां प्रमाणसंभव: तद्विषये प्रमाणसंवाददर्शनादतीन्द्रियाणामप्यर्थानां स सम्यक् परिज्ञातभ्युपगम्यते तदप्ययुक्तम, रागादिकलुषिततया तस्याऽतीन्द्रियार्थपरिज्ञानाऽसंभवाद, अन्यथा सर्वेषामप्यती- न्द्रियार्थदर्शित्वप्रसक्ति: ततस्तत्कृतातीन्द्रियार्थव्याख्या मिथ्यैव। अपिच आगमोऽर्थत: परिज्ञात: सन् प्रेक्षावतामुपयोगविषयो भवति, नापरिज्ञातार्थ शब्दगडुमात्र, ततोऽर्थः प्रधानः, सचेत्पुरुषप्रणीत: किं शब्द- मात्रस्याऽपौरुषेयत्वपरिकल्पनेन निरर्थकत्वात्, तन्नाऽन्यतोऽपि वेदार्थस्य सम्यगवग्रम:। नाऽपि वेदः स्वकीयमर्थमुपदेशमन्तरेण स्वयमेव साक्षादुपदर्शयति, ततो वेदस्येष्टार्थप्रतिपत्त्युपाया-ऽभावाद् 'अग्रिहोत्रं जुयात् स्वर्गकामः' इत्यत्र श्रुतौ यथा वेदप्रामाणिकैरयमर्थः परिकल्प्यते घृताऽऽद्याहुतिं प्रक्षिपेत् स्वर्गकाम इति। तथाऽयमप्यर्थः तै: किंन कल्प्यते-स्वादेत् स्वमांसं स्वर्गकाम: इति, नियामकाऽभावात्, उक्तंच"स्वयं रागाऽऽदिमान्नाऽर्थ, वेत्ति वेदस्य नाऽन्यत:। नवेदयति वेदोऽपि, वेदार्थस्य कुतो गति: // 1 // तेनाऽग्निहोत्रं जुहुयात् , स्वर्गकाम इति श्रुतौ॥ खादेत्स्वमांसमित्येष, नाऽर्थ इत्यत्र का प्रमा / / 2 / / " अथ य एव शाब्दा व्यवहारो लोके प्रसिद्धः स एव वेदवाक्यार्थनिश्चयनिबन्धनं, न च लोकेऽग्रिहोत्रशब्दस्य स्वमांसं वाच्यम्, नाऽपि जुहुयादित्यस्य भक्षणं, तत्कथमयमर्थ: परिकल्प्यते? तदयुक्त, नानाऽर्था हि लोकेशब्दा रूढ़ा यथा गोशब्द: / अपि च सर्वे शब्दा: प्रायः सर्वार्थानां वाचका देशादिभेदतो द्रुतविलम्बितादिभेदेन, तथाप्रतिदर्शनात्, तथाहि द्रविडस्यार्यदेशमुपागतस्य मारिशब्दात्-जगि(टि) तिवर्षविषया प्रतीतिरूपजायते विलम्बिता चोपसर्गविषया, यद्वाआर्यदेशो- त्पन्नस्य द्रविडदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीति-विलम्बिता च वर्षविषया एवमनया दिशा सर्वेषामपि शब्दानां स-वार्थवाचकत्वं परिभावनीयम्। नच वाच्यम्एवं सति घटशब्दमात्रश्रवणादखिलार्थ- प्रतीतिप्रसङ्गगो, यथा क्षयोपशममवबोधप्रवृत्ते, क्षयोपशम-श्वसंकेताद्यपेक्ष इति तदभावे न भवति, ततोऽग्रिहोत्रादिशब्दस्य स्वमांसादिवाचकत्वेऽप्यवरोध इति लौकिकशाब्दव्यवहारानु- सरणेऽपि न वैदिकवाक्यानामभिलषितनियतार्थप्रतिपत्तिः। किं च-लोकप्रसिद्धेनैव शाब्देन व्यवहारेण वयं वेदवाक्यानां प्रतिनियतमर्थ निश्चेतुमुधुक्ताः, लौकिकश्च शाब्दो व्यवहारोऽनेकधा परितवमानो दृष्ट संकेतवशतः प्राय: सर्वेषामपि शब्दानां सर्वाथप्रतिपादनशक्तिसंभवात्, ततो लौकि केनैव शाब्देन व्यवहारेणास्माकमाशङ्कोदपादिकोऽत्रार्थ स्यात्? किं घृताद्याहुति प्रक्षिपेत् स्वर्गकाम इति उताहो स्वमांसं खादेदिति? तत्कथं तत एव निश्चयः कर्तुं बुध्यते? न हि योऽत्र संशयहेतु: स तत्र निश्चयमुत्पादयितुं शक्त इति। अपि च नै कान्तेन वेदे लौकिकशब्दव्यवहारानुसरणं स्वर्गोवश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात्, यथा स्वर्ग: सुखविशेष:, उर्वशी तु अणिरितिा तथा शब्दान्तरेष्वा-रूढार्थकल्पना किं न संभविनी? उक्त च- "स्वर्गोश्या-दिशब्दस्य, दृष्टो रूढार्थवाचकः। शब्दाऽन्तरेषु तादृक्षु, तादृश्येवाऽस्तु कल्पना |||" स्यादेतत् अग्निहोत्रादेवाक्यस्य स्वमांसभक्षणप्रसङ्गो न युक्तो, वेदे नैवान्यत्र तस्यान्यथा व्याख्यानात् तदयुक्तम, तत्राऽपि वाक्यार्थस्य निर्णयाभावा-द्यथोक्तं प्राक्-न हि अप्रसिद्धार्थस्य वाक्यस्याऽप्रसिद्धार्थमेव वाक्यान्तरं नियतार्थप्रसाधनायालं, तुल्यदोषत्वात्। अथेत्थमाचक्षीथाः यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्रिहोत्रादिवाक्यस्य घृताऽऽद्याहुतिप्रक्षेपरूपेऽर्थे प्रमाणबाधामुत्पश्यामः, तत्कथं तमर्थन गृणीम:। तदेतत्स्व-मांसभक्षणलक्षणेऽप्यर्थे समानं न हि तत्रापि काश्चित् प्रमाणबाधामीक्षामहे / अपि च-यदि प्रमाणवलात्प्रवृत्तिमीहसे तर्हि पौरुषेयमेव वचस्त्वयोपादेयं तस्य लोकप्रतीत्यनुसारितया संप्रदायतोऽधिगतार्थतया च प्रायो युक्तिविषयत्वात्, नाऽपौरुषेयम, विपरीततया तत्र युक्तरसंभवात्, तथाहि काऽत्र युक्ति:? यथा स्वमांसभक्षणात्स्वर्गप्राप्तिबर्बाध्यते, न घृताद्याहुतिप्रक्षेपादिति? घृताऽऽद्याहुतिप्रक्षेपादीनां स्वर्गप्रापणादिशक्तेरतीन्द्रियत्वेन प्रत्यक्षाद्यगोचरत्वात् संप्रदायस्य चार्थनैयत्यकारिणोऽसंभवात, एतचानन्तरमेव वक्ष्यामः। अथाऽऽगमार्थाऽऽश्रया युक्ति: स्वमांसभक्षणत: स्वर्गप्राप्ते-बर्बाधिका भविष्यति, तदयुक्तम, आगमार्थस्याऽद्याप्यनिश्चयात् / अनिश्चितार्थस्य च बाधकत्वाऽयोगात् , अथ संप्रदायादर्थनिश्चयो भविष्यति, तथा हि "प्रथमतो वेदेन जैमिनये स्वार्थ उपदर्शित: पश्चात्तेनास्मभ्यमुपदिष्ट" इति, तदप्यसत्, वेदस्य हि यदि स्वार्थोपदर्शनशक्तिस्ततोऽस्मभ्यमपि स्वार्थ किं नोपदर्शयति? तस्माज्जैमिनयेऽपि न तेन स्वार्थो दर्शित:, किन्तु-स वेदमुखेनात्मानमेवार्थनियमस्रष्टरमुपदर्शितवान, यथा कश्चित्के नचित्पृष्टः- 'को मार्ग: पाटलिपुत्रस्य?' स प्राह-एष स्थाणुर्दृश्यमानो वक्ति- 'अयं मार्गः पाटलिपुत्रस्य,' तत्र न स्थाणार्वचनशक्तिः, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं कथयति एवं वेदस्यापि न स्वाऽर्थोपदर्शनशक्ति: ततस्तन्मुखेन जैमि (म) निरात्मानमेवार्थनियमस्रष्टारमुपदर्शितवान, तन्नलौकिकशब्दव्यवहारानु