________________ आगम 64 अमिधानराजेन्द्रः भाग 2 आगम चनस्य नित्यतया कर्तुमशक्यत्वात्, अथ मा भूद् वचनविशेषयोर्जन्यजनकभाव:, 'आधाराऽऽधेयभावो' भविष्यति, तद्प्यसमीचीनम्, आधाराऽऽधेयभावस्यापि परस्परोपकार्योपकारकभावापेक्षत्वात्, तथाहि बदरं पतनधर्मकं सत्कुण्डेन स्वानन्तरदेशस्थायितया परिणामि जन्यते, ततस्तयोराधाराधेयभाव उपपद्यते; वचनेन तु विशेषो जन्यते, तस्यान्यतो भावात्, तत: कथमनयोराधाराधेयभाव:? अथ तेन विशेषेण वचनस्योपकार: कश्चित् क्रियते तत: स तस्य संबन्धी, न तु स उपकारस्ततो भिन्नः, अभिन्नो वेत्यादि तदेवावर्तते इत्यनवस्था। अपि च- कुत: प्रमाणाद्वचनस्यापौरुषयत्वाभ्युपगम:, कर्तुरस्मरणादितिचेत्, न, तस्याप्यसिद्धत्वात्, तथाहिस्मरन्ति-जिनप्रणीतागम-तत्त्ववेदिनो वेदस्य कर्तृन पिप्पलादप्रभृतीन् सकर्तस्मरण- वादस्तेषां मिथ्यारूप इति चेत्, क इदानीमेवं सतिपौरुषेय: सर्वस्याप्यपौरुषयत्त्वप्रसक्ते. तथाहि कालिदासादयोऽपि कुमारसंभवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेतुं शक्यन्ते मिथ्यात्वमात्मानमन्यं वा कुमारसंभवादिषु प्रणेतारेमुपदिशन्तीति। तत: कुमारसंभवादयोऽपि ग्रन्थाः सर्वेऽप्यपौरुषेया भवेयुः तथा च-क: प्रतिविशेषो वेदे ? येन स एव प्रमाणतयाभ्युपगम्यते; न शेषाऽऽगमाः। अपि चयौष्मा-कीणैरपि पूर्वमहर्षिभि: सकर्तृकत्वं वेदस्याभ्युपगतमेव, तथा च-तदग्रन्थ:-"ऋगिरावृचश्चक्रुः सामानि सामगिराविति' अथ तत्र करोति: स्मरणे वर्तते, न निष्पादने, दृष्टश्च करोतिर- र्थान्तरेऽपि वर्तमानो, यथा संस्कारे तथा च लोके वक्तार:- 'पृष्ठं मे कुरु पादौ मे कुर्विति' अत्र हि संस्कारे एव करोतिर्वर्तते, नापूर्वनिवर्त्तने संभवति अशक्यक्रियत्वात्, ततोऽन्यथानुपपत्त्या संस्कारे एव करोतिर्वर्त्तते, वेदविषये तु नान्यथानुपपन्नत्वं किमपि निबन्धनमस्ति। तत: कथं तत्र स्मरणे वर्तयितुं शक्यते? स्यादेतत् यदि वेदविषये करोति: स्मरणेन वर्तेत तर्हि वेदस्यं प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्येत, तथा-पौरुषेयत्वादेव, अन्यथा सर्वांगमानामपि प्रामाण्यप्रसक्तेः। ततोऽत्रापि करोति: प्रामाण्यान्यथानुपपत्त्या स्मरणे वर्त्य इति, तदेतदसत् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोते: स्मरणे वर्त्तनं, करोते: स्मरणे वृत्तौ चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकाऽसिद्धावन्यतरा- ऽसिद्धिः, अनैकान्तिकं च कर्तुरस्मरणं, 'वटे वटे वैश्रवणः' इत्यादिशब्दानां पौरुषेयाणामपि कर्तुरस्मृते: यत्नवान् तत्करिमुपलभत एवेति चेत्, नावश्यं तदुपलम्भसंभवः, नियमाभावात्, किं च-पौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रमणा इत्यादिरस्तीति न प्रमाणात् कुतश्चिद्विनिश्चयः, किंतु परोप-देशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, तत: कर्तृभावसदेह इति संदिग्धासिद्धोऽप्ययं हेतु:, एतेन यदन्यदपि साधनमवादीत् वेदवादी- 'वेदाध्ययनं सर्व गुर्वध्ययनपूर्वकं वेदाध्ययनत्वाद, अधुनातनवेदाध्ययनवदिति। तदपि निरस्तमवसेयमा एवम-पौरुषेयत्वसाधनेसर्व्वस्याप्यपौरुषेयत्वप्रसक्त.. | तथाहि कुमारसंभवाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, कुमारसंभवाध्ययनत्वात्, इदानींतनकुमारसंभवाध्ययनवादिति कुमारसंभवा दीनामध्ययनाऽमादितासिद्धेरपौरुषेयत्वंदुर्निवारम् , न च तेषामपौरुषेयत्वं स्वयं करणपूर्वकत्वेनापितदध्ययनस्य भावाद् एवं वेदाध्ययनमपि किंचित् स्वयं करणापूर्वकमपि भविष्यतीति वेदाध्ययनत्यादिति व्यभिचारी हेतु:, स्यादेतत् , वेदाऽध्ययनम् स्वयं करणापूर्वकं न भवति, वेदानां स्वयं कर्तुमशक्तेः। तथा चात्र प्रयोग:- पूर्वेषां वेदरचनायामशक्ति:, पुरुषत्वाद, इदानींतन-पुरुषवदिति, तदप्ययुक्तम् अत्रापि हेतोय॑भिचारात् , तथाहि-भारतादिष्विदानींतनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि, संप्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिभविष्यतीति। अपि च यथाग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वंच परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोध: अग्निश्च स्यात् कदाचिदरणिनिर्मथनपूर्वक: कदाचित् ज्वालान्तरपूर्वकश्च। ततो यथाऽऽद्योऽपि पथिककृतोऽग्निालान्तरपूर्वको नारणिनिर्मथनपूर्वक: पथिकाऽग्नित्वाद् आधानन्तराग्निवदित्ययं हेतुर्व्यभिचारी, विपक्षे वृत्तिसंभवात्तथा वेदाध्ययनमपि विपक्षे वृत्तिसंभवात् व्यभिचार्येव, तथाहि-वेदाध्ययने स्वयंकरणपूर्वकत्वमध्ययनान्तरपूर्वकत्वं, च परस्परमबाध्यबाधकत्वादविरुद्धं, ततश्च वेदाध्ययनमपि स्यात्किंचित् स्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यतेयस्तु तथाविध: स्वयं कृत्वा अध्येतुमसमर्थः तस्य वेदाध्ययनमध्ययनान्तरपूर्वक मिति तदा न कश्चिद्दोषः, यथा यादशोऽग्निर्वालाप्रभवो दृष्ट: तादृश: सर्वोऽपिज्वालाप्रभव इति, अस्तु वा सर्व वेदाऽध्ययनमध्ययनान्तरपूर्वकं तथा-ऽप्येवमनादिता सिद्धेद्वेदस्य; नापौरुषेयत्वम्, अथाऽत एवानादितामात्रादपौरुषेयत्वसिद्धिरिष्यते तर्हि डिम्भकपां-शुक्रीडादेरपि पुरुषव्यवहारस्याऽपौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनाऽनादित्वात्। अपि च-स्युरपौरुषेया वेदा यदि पुरुषाणामादि: स्याद्वेदाध्ययन चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्ध्यति, अध्यापयितुरभावात्, न च पुरुषस्य ताल्वादिकरण- ग्रामव्यापाराभावात् स्वयं शब्दाध्वनन्तिततो वेदस्य प्रथमोऽध्येता कर्तव वेदितव्य:, अपि चयवस्तु यद्धेतुकमन्वय- व्यतिरेकाभ्यां प्रसिद्धं तज्जातीयमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति संप्रतीयते, यथेन्धनादेको बह्निदृष्टस्ततस्तसमान- स्वभावोऽपरोऽप्यदृष्टहेतुक: तत्समानहेतुक: संप्रतीयते, लौकिकेन च शब्देन समानधर्मा सर्वोऽपि वैदिक: शब्दराशि:, ततोलौकिकवद्वैदिकोऽपिशब्दराशि: पौरुषेय:सम्प्रतीयतामा स्यादेतद्वैदिकेषु शब्देषु यद्यपि न पुरुषो हेतु:, तथापि पौरुषेयाभिमतशब्दसमानाsवशिष्टपदवाक्यरचना भविष्यति तत: कथं तत्समानधर्मातामवलोक्य पुरुषहेतुकता तेषामनुमीयते, तदेतद्द्वालिशजल्पितं पदवाक्यरचना हि यदि हेतु-मन्तरेणापीष्यतेतत आकस्मिकी साभवेत्ततश्चाकाशादावपि सा सर्वत्र संभवेत, अहेतुकस्य देशादिनियमायोगात, न च