________________ आगम ६३अभिधानराजेन्द्रः भाग 2 आगम णीतस्तदुत्पादक: शब्दोऽभ्युपगन्तव्यः, अथ तत्प्रणीतत्वं नाऽभ्युपगम्यते | तदा तत्समुत्पन्नज्ञानस्य प्रामाण्यमपि न स्यादित्यभिप्रायवानाचार्य: प्राह-जिनानां रागद्वेषमोहलक्षणान् शत्रून् जितवन्त इति जिनास्तेषां शासनं तदभ्युपगन्तव्यमिति प्रसङ्कसाधनम् / नचाऽत्रेदं प्रेर्य-यदि जिनशासनं जिनप्रतीतत्वेन सिद्धं निश्चितप्रामाण्यमभ्युपगमनीयम्; अन्यथा प्रमाण्यस्या- प्यनभ्युपगमनीयत्वादिति प्रसङ्गसाधनमत्र प्रतिपाद्यत्वेनाभिप्रेतं तत्किमिति बौद्धयुक्तयाहत्तेन त्वया स्वत: प्रामाण्यनिरासोऽभिहित:? यतः सर्वसमयसमूहात्मकत्वमेवाऽऽचार्येण प्रतिपादयितुमभिप्रेतम्। यद्वक्ष्यत्यस्यैव प्रकरणस्य परिसमाप्तौ, यथा"भई मिच्छदसणसमूहमहयस्स अमयसारस्स! जिणवय- णस्स भगवओ, संविग्गसुहाहिगम्मस्स" | 7011 (अस्यैव ग्रन्थस्य तृतीय काण्डगाथेयम्) इत्यादि। अयमेवार्थो बौद्धयुक्त्युपन्यासेन समर्थित:, अन्यत्राप्यन्यमतोऽपक्षेपेणान्यमतनिरासेऽयमेवाभि-प्रायोद्रष्टव्यः, सर्वनयानां परस्परसापेक्षाणां सम्यगमतत्वेन, विपरीतानां विपर्ययत्वेनाचार्यस्येष्टत्वात्, अतएवोक्तमनेनैव (चतुर्थ) द्वात्रिंशिकायाम्- "उदधाविव सर्वसिन्धवः, समुदी-रणास्त्वयि नाथ! दृष्टयः / नचतासुभवान्प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः // 11 // " सम्म०१ काण्ड 1 गाथाटी। (3) आगमस्य पौरुषेयत्त्वम् -- स हि पौरुषेयो वा स्यादपौरुषेयो वा ? पौरुषेयश्चेत्सर्वज्ञकृत:, तदितरकृतो वा ? आद्यपक्षे-युष्मन्मतव्याहति: / तथा च भवसिद्धान्त:-"अतीन्द्रियाणामर्थानां, साक्षाद्रष्टा न विद्यते। नि-त्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिश्चयः ||1||" द्वितीयपक्षे तु- तत्र दोषवत्कर्तृकत्वेनाऽनाश्वासप्रसङ्गः1 अपौरुषेयेयश्चेन्न सम्भव- त्येव स्वरूपनिराकरणात् ; तुरङ्गशृङ्गवत्। तथाहि-"उक्ति-वचनमुच्यते" इति चेतिपुरुषक्रियानुगत रूपमस्या एतत्क्रि-याभार्व कथं भवितुमर्हति। नचैतत्केवलं क्वचिदध्वनदुपलभ्यते उपलब्धावप्यदृश्यवक्त्राशङ्कासम्भवात् तस्माद्यद्वचनं तत्पौरु- षेयमेव, वर्णात्मकत्वात् कुमारसम्भवादिवचनवत्। वचना- त्मकश्च वेदः, तथाचाहुः - "ताल्वादिजत्मा न तु वर्णवर्गो, वर्णात्मको वेद इति स्फुटञ्च / पुंसश्चताल्वादि तत:कथं स्या दपौरुषेयोऽयमिति प्रतीति:"||१|| इति। श्रुतेरपौरुषेयत्वमुररी- कृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषयमेवाङ्गीक्रियते। अन्यथा-" अग्निहोत्रं जुहुयात्स्वर्गकामः" इत्यस्य स्वमांस भक्ष- येदिति किं नार्थो नियामकाभावात्, ततोऽवरं सूत्रमपि पौरुषेय- भ्युपगतम् / अस्तु वा अपौरुषेयस्तथाऽपि तस्य न प्रामाण्यम् आप्तपुरुषाधीना हि वाचां प्रमाणतेति। स्या० 11 श्लोक। जयइ सुयाणं पभवो, (2+ गाथा) श्रुतानां-स्वदर्शन-परदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राणि अस्मादिति प्रभव:-प्रथममुत्पत्तिकारणं, तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्तनात्, परदर्शन- शास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासारतास्वर्गापर्गा- दिहेतु: प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्भुतो वेदितव्यो, न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमा- णाबाधितोऽर्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वात्। नच-अतीन्द्रियार्थपरिज्ञानं परतीर्थिकानामस्तीत्येतदने वक्ष्यामः / ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौसमीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशत; स्वस्वमत्युनुसारेण तास्ता: स्वप्रक्रिया: प्रपञ्चितवन्त:। उक्तं च स्तुतिकारणं- "सुनिश्चितं न: परतन्त्रयुक्तिषु, स्फुरन्ति या: काश्चन सूक्तिसम्पदः। तवैव ता: पूर्वमहार्णवोत्थिताः, जगत्प्रमाणं जिनवाक्यविप्लु (पु) षः // 1 // " शाकटायनोऽपि यापनीययतिग्रामाग्रणी: स्वोपज्ञशब्दा-नुशासनवृत्तावादौ भगवत: स्तुतिमेवामाह- "श्रीवीरममृत्तं ज्योति-नत्वादि सर्ववेदसाम्" अत्रचन्यासकृतोव्याख्या-'सर्ववेदसा' सर्वज्ञानानांस्वपरदर्शनसंबंन्धिसकलशास्त्रानुगत- परिज्ञानानाम् 'आदिं' प्रभवं प्रथममुत्त्पत्तिकारणमिति। अत एव चेह श्रुतानामित्यत्र बहुवचनम्, अन्यथैकवचनमेव प्रयुज्यते प्राय: श्रुतशब्दस्य केवलद्वादशाङ्कमात्रवाचिन: सर्वत्रापि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात्, सर्वश्रुतकारणत्वेनच भगवत:स्तुतिप्रतिपादनेइदमप्यावेदितं द्रष्टव्यम्सर्वाण्यपि श्रुतानि पौरुषेयाण्येव, न किमप्यपोरुषेयमस्ति, असंभवात्। तथाहि-शास्त्र वचनात्मकम्। वचनंचताल्वोष्ठपुटपरिस्पन्दादिरूपपुरुषव्यापारान्चयव्यतिरेकानुविधायि, ततस्तदभावे कथं भवति? न खलु पुरुषव्यापारमन्तरेण वचनमाकाशं ध्वनदुपलभ्यते। अपिच-तदपौरुषेयं वचनमकारणत्वान्नित्यभ्युपगम्यते, 'सदकारण- वन्नित्य' मिति वचनप्रामाण्यात्। ततश्च-अत्र विकल्पयुग- लमवतेतीयते, तदपौरुषयं वच: किमुपलभ्यस्वभावम्: उताऽनुपलभ्यस्वभावं वा ? तत्र यद्यनुपलभ्यस्वभावं तर्हि तस्य नित्यत्त्वेनाभ्युपगमात्कदाचिदपि स्वभावाऽप्रच्युते: 'सर्वदैवोप- लम्भाभावप्रसङ्गः, अथोपलम्भस्वभावं तर्हि सर्वदानुपरमेणोपलभ्येत, अन्यथा-तत्स्वभावताहानिप्रसङ्कात, अथोपलभ्यस्वभावमपि सहकारिप्रत्ययमपेक्ष्योपलम्भमुप-जनयति तेन नसर्वदोपलम्भप्रसङ्ग। तदयुक्तम्, एकान्तनित्यस्य सहकार्यपेक्षया अयोगात्। ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्तिः- 'अपेक्षाया विशेषप्रतिलम्भ- लक्षणत्वात्' इति। न च नित्यस्य विशेषप्रतिलम्भोऽस्ति, अनित्यत्वापत्तेः। तथाहि- स विशेषप्रतिलम्भ: तस्यात्त्मभूतः, ततो विशेष जायमाने स एव पदार्थस्तेन रूपेण जातो भवति, प्राक्तनं च विशिष्टावस्थालक्षणं रूपं विनष्टमित्य-नित्यत्वापत्तिः। अथोच्येत-स विशेषप्रतिलम्भो न तस्यात्मभूत: किंतुव्यतिरिक्तः कथमनित्यत्वापत्ति:? यद्येवंतर्हि कथं स तस्य सहकारी न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात्, अथ भिन्नोऽपि विशेषतस्तस्य संबंधी तेन तत्संबन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः संबंधो न तावत् 'तादात्म्य' भिन्नत्वेनाभ्युपगमात, नापितदुत्पत्ति:, विकल्पद्वयानतिक्रमात, तथाहि-किं वचनेन विशेषो जन्यते? उत विशेषेण वचनं? तत्र न तावदाद्य: पक्षः; विशेषस्य सहकारिणोऽभावात्, नापि द्वितीयः- च