________________ आगम 62 अभिधानराजेन्द्रः भाग 2 आगम (4) विषयसूचनार्थमधिकाराङ्का:आगमभेदा:। आगमस्य स्वत: प्रामाण्यम्। आगमस्य पौरुषेयत्वम्। आगमश्चाऽऽप्तप्रणीत एवं प्रमाणम्। सम्भवद्रूपस्यैवाऽऽगमस्य प्रामाण्यं, न वेदस्यैव। मूलाऽऽगमप्रामाण्यम्, नेतराऽऽगमप्रामाण्यम् / प्रमाणान्तराविषय एवाऽऽगमविषयः। आगमप्रमाणस्यानुमानप्रमाणेऽन्तर्भावः / आगमप्रामाण्ये संवादित्वम्। (10) शब्दस्य बाह्यार्थप्रामाण्यम्। (11) अपोह: शब्दार्थ इति बौद्धाः। (12) अर्थ: किंस्वरूपः। (13) वाच्यवाचकभावः / वाचकरूपस्य शब्दस्य विचारः। (15) स्फोट: शब्द:। (इति'फोड' शब्दे 5 भागे वक्ष्यते) जैनानां वाचक: शब्दः। शब्दनित्त्यत्त्वविचार / (18) शब्दार्थयो: सम्बन्धः। (19) शब्दार्थयोर्वाच्यवाचकभावः सम्बन्धः। (20) आगमद्वैविध्यम् हेतुवादाऽहेतुवादभेदात्। (21) आगमस्य सर्वव्यवहारनियामकत्वम्। आगमस्यैव प्रामाण्यम् धर्ममार्गे, मोक्षमार्गे च / जिनाऽऽगमस्यैव सत्यत्वम्। (24) जिनाऽऽगमपूजासत्कारः / (25) आगमशब्दस्य अर्थान्तराणि। (1) आगमभेदा:से किं तं आगमे ? आगमे दुविहे पण्णत्ते,तं जहा-लोइए अ, लोउत्तरिए आ से किं तं लोइए? लोइए जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमइविगप्पियं। तं जहा-भारहं, रामायणं जाव चत्तारि वेआ संगोवंगा। से तं लोइए आगमे। से किं तं लोउत्तरिए ? लोउत्तरिए जण्णं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयप- चुप्पण्णमणागयजाणएहिं तिलुक्कवहिअमहिअपूइएहिं सव्वण्णूर्हि सव्वदरसीहिं पणीअं दुबालसंगं गणिपिडगं, तं जहा- आयारो जाव दिद्विवाओ। (सूत्र 1474) / 'से किं तं आगमे' इत्यादि, गुरुपारंपर्येणागच्छतील्यागमः, आसमन्तादम्यन्ते ज्ञायन्ते जीवादय: पदार्था अनेनेति वा आगमः, अर्थ च द्विधा प्रज्ञप्त:। अनु. भ.। ज्ञा०। अहवा आगमे तिविहे पण्णत्ते, तं जहा-सुत्ताऽऽगमे, अत्थाऽऽगमे, तदुभयाऽऽगमे। (सूत्र 147+) 'अहवा आगमे तिविहे' इत्यादि, तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्च अर्थ एवाऽर्थागमः, सूत्रार्थोभयरूपस्तुतदुभयागमः। अहवा-आगमे तिविहे पण्णत्ते, तं जहा-अत्थाऽऽगमे 1, अणंतराऽऽगमे 2, परंपराऽऽगमे तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे, अत्थस्स अणंतरागमे। गणहरसीसाणं सुत्तस्स अणंतरागमे, अत्थस्स परंपरागमे। तेणं परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अंतरागमे, परंपरागमे। (सूत्र 147+) अथवा-अनेन प्रकारेणागमस्त्रिविध: प्रज्ञप्त: तद्यथा- 'आत्मागम' इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन, एव आगम आत्मगमो-यथा, तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः, गणधराणां तु सूत्रस्यात्मागम: स्वयमेव ग्रथितत्वात्, अर्थस्यानन्तरागमोऽनन्तरमेव तीर्थकरादाग-तत्त्वात्, उक्तंच'अत्थं भासइ अ (रि) रहा, सुत्तं गंथंति गणहरा निउणमि' त्यादि। गणधरशिष्याणां जम्बूस्वामिप्रभृतीना सूत्रस्याऽनन्तरागम: अव्यवधानेन गणधरादेव श्रुते:, अर्थस्य परंपरागम:गणधरेणैव व्यवधानात्। तत ऊर्ध्व प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमस्तल्लक्षणायोगात; अपि तु परंपरागम एवा अनेन आगमस्य तीर्थकरादिप्रभवत्व-भणनेनैकान्ताऽपौरुषेयत्त्वं निवारयति। पौरुषताल्वादिव्या-पारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेस्ताल्वादि-भिरभिव्यज्यत एव शब्दोन तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्त्वप्रसङ्गस्तेषां भाषापुद्गलनिष्पन्नत्वाद् भाषापुद्रलानां च लोके सर्वदैवावस्थानतो पविक्रियमाणाता अयोगेन ताल्वादिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्। न च वक्तव्यं वचनस्य पौद्गलिकत्वमसिद्ध महाध्वनिपटलपूरितश्रवणावा-धिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः, तस्मान्नकान्तेनाऽपौरुषयमागमवचस्ताल्वादिव्यापाराभिव्यङ्गयत्वाइववत्तादिवाक्य-वदित्याद्यन्यत्र बहुवक्तव्यं, तत्तु नोच्यते स्थानान्तरनिर्णीत-त्वादिति। 'सेत्तं लोगुत्तरिए' इत्यादि निगमनत्रयम् / अनु०। भर अङ्गा नि. चू। सूत्र। "आगमो दुविहो लोइतो, लोउत्तरिओ य / लोइतो चोद्दसविज्जाष्ट्ठाणाणि'' "अङ्गानि चतुरो वेदा, मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्याश्चैताश्चतुर्दश शा" (अस्य श्लोकस्य व्याख्या) तत्राऽङ्गानि षट् 6, तद्यथाशिक्षा १कल्पो 2, व्याकरणं 3, छन्दो 4, निरुक्तं 5, ज्योतिष 6, चेति।"लोउत्तरोदुवालस 12, अंगा, चोद्दस 14, पुव्वाणि य"|आ चू.१ अा आ०म०। ('सुय' शब्दे सप्तमे भागे प्रकारान्तरेण निक्षेप:) (2) आगमस्य च स्वत: प्रामाण्यम् - सिद्धं सिद्धट्ठाणं ठाणामणोवमसुहमुवगयाणं / कुसमयविसासणं सा-सणं जिणाणं भवजिणाणं ||1|| अस्याश्च समुदायार्थ एतत्पातनिकयैव प्रकाशित:, अवयवार्थस्तु प्रकाश्यते शास्यन्ते जीवादय: पदार्था यथावस्थितत्वेनानेनेति शासन द्वादशाङ्गम् ,तच सिद्धं प्रतिष्ठितं निश्चितप्रामाण्यमिति यावत् स्वमहिनेय नाऽत: प्रकरणात्प्रतिष्ठाप्यम् / सम्म०१ काण्ड। शब्दसमुत्थस्य त्वभिधे यविषयज्ञानस्य यदि प्रामाण्यमभ्युपगम्यते तदा-अपौरुषेयत्वस्यासंभवाद् गुणवत्पुरुषप्र