________________ उरख्भ ८८०-अभिधानराजेन्द्रः - भाग 2 उरब्भ अम्मो एस णं दियगो सव्वेहिं एएहिं अम्ह सामिसालेहि इटेहिं जव-- जोगासणेहिं तदुवओगेहिं अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिज्जइ अहं तुमंदभग्गो सुक्काणि तणाणि कोहे विलभामि ताणि वि नपज्जत्तिगाणि एवं पाणियं पिण य मे को वि भालेति। ताए भण्णत्ति पुत्त आतुरचिण्णाइं" गाहा / जहा आतुरो मरिउं कामो जमगातिपच्छं वा अपच्छंवा तं दिखतिते स एवं नंदिओ मारिजिहित्ति जहा तदा पेच्छेहिसि इति सूत्रार्थः // 26 // ततः कीदृशो जातः किञ्च कुरुते इत्याह!। तओ स पुढे परिवूढे,जायमेए महोदरे। पाणिए विउले देहे, आएसं परिकंखए॥ तत इत्योदनादिदानाद्धेतौ पञ्चमीस इत्युरभ्रः पुष्ट उपचितमांस-तया / पुष्टिभाक् परिदृढः प्रभूः समर्थ इति यावत् / जातमेद उपचितचतुर्थधातुरत एव महोदरो वृहज्जठरः प्राणितस्तप्पितो यथासमयमुपढौकिताहारत्वादेभिरेव हेतुभिर्विपुले विशाले देहे शरीरे सति यस्य च भावेन भावलक्षणमिति सप्तमी किमित्याह / आदेशं प्रति-काङ्केति पाठान्तरतः परिकाङ्क्षति वेच्छति नचास्य तत्वतः प्रतिपालनमिच्छा च संभवत्यतः प्रतिकाङ्क्षतीव प्रतिकातीत्युपमार्थो ऽवगन्तव्यः एवं परिकाङ्गतीत्यत्रापीति सूत्रार्थः / / 32 / / स कि मेव चिरस्थायी स्यादित्याह // जाव न एइ आएसे, ताव जीवइसे दुही। अहपत्तम्मि आएसे, सीसं छित्तूण भुंजइ।। यावदिति कालावधारणं नैति नायाति कोऽसावादेशस्तावन्नोत्त-रकालं जीवति प्राणान् धारयति (सेदुहित्ति) आकारप्रश्लेषात्स इत्युरभ्रो दुःखी सन्नथवा वध्यमण्डनमिवास्यौदनदानानीति तत्वतो दुःखितैवास्येति दुःखी (अहपत्तम्मि आएसे) अथानन्तरं प्राप्ते आगते आदेशे श्रिता अस्मिन्प्राणा इति शिरस्तच्छित्वा द्विधा विधायभुज्यते तेनैव स्वामिना पाहुणसहितेनेति शेषः। संप्रति संप्रदायशेषमनुश्रियते ततोऽसौ "वच्छगो ततो नंदियंग पाहुणगेसु आगएसु च हिज्जमाणं दटुं तिसितो वि भएण माऊए थणं णाभिल-सति। ताए भण्णति किं पुत्त भयभीतोसि हेण पएहुयं पि मे ण पिवसि तेण भण्णति अम्म कओ से थणभिलासो णणु सोवराओ णंदिओ अज्ज केहिं वि पाहुणएहि आगएहिं मम अग्गतो वि गयजीहो वि लोलनयणो विस्सरं रसंतो अत्तणो असरणो मारिओ तब्भयाओ मे कओ पाउमिच्छा तओ ताए भणति पुत्त ! णणु तदा चेव कहियं जहा आउरचिणाई एयाइं एस संविवागो अणुपत्तो एस दिटुंतो" इति सूत्रार्थः / इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दार्शन्तिकमाह। जहा खलु से उरब्भे, आएसाए समीहिए। एवं वाले अहम्मिटे, इहई नरयाउयं // यथा येन प्रकारेण खलु निश्चये स इति प्रामुक्तरूप उरभ्र आदे-शाय आदेशार्थं समीहितः कल्पितः सन् यथा यस्मै भविष्यत्या देशं परिकासतीत्यनुवर्तते एवमनुनैव न्यायेन बालोऽज्ञोऽधर्मो धर्मविपक्षः पापमिति यावत् इष्टोऽभिलषितोऽस्येत्यधम्मिष्टः आहितादेराकृतिगणत्वादिष्टशब्दस्य परनिपातः / यद्वाऽधर्मगुणयागादधर्मोतिशयेनाधमाधर्मिष्ठ इह ईहते वाञ्छतीव तदनुकुला चारतया किं नरकायुष्कं नरकजीवितमिति सूत्रार्थः। उक्तमेवार्थ प्रपञ्चयितुमाह। हिंसे वाले मुसावाई, अद्धणम्मि विलोवए। अण्णदत्तहरे तेणे, माई कन्नु हरे सढे / इत्थीविसयगिद्धे य, महारंभपरिग्गहे। भुजमाणे सुरं मंसं, परिवूढे परंदमे / / अयकक्करभोई य, तुंदिल्ले चिय लोहिए। आउयं नरए कंखे, जहाएसंच एलए। हिनस्तीत्येवं शीलो हिंस्रः स्वभावतः प्राणव्यपरोपणकृद्वालोऽज्ञः पाठान्तरतश्च क्रुध्यति हेतुमन्तरेणापि कुप्पतीत्येवंधक्रिोधी मृषाऽलीक वदति प्रतिपादयतीत्येवं शीलो मृषावादी अध्वनि मार्गे विलुम्पति मुष्णातीति विलोपकः। यः पथि गच्छतोजनान् सर्वस्वहरणतो लुण्ठति (अन्नदत्तहरेति) अन्येभ्यो दत्तं राजादीनां विस्तीर्ण हरत्यापान्तराल एवाच्छिनत्यन्यदत्तहरः। अन्यैर्वा अदत्तमनिसृष्टं हरत्यादत्ते अन्यादत्तहरो ग्रामनगरादिषु चौर्यकृत् अत एव बालोऽज्ञो विस्मरणशीलः स्मारणार्थमेतदिति न पौनरुक्तयं सर्वावस्थासु वा बालत्वख्यापनार्थ पाठान्तरतश्चस्तैन्येनैवोपकल्पितात्मवृत्तिः। यद्वा अन्य दत्तहरोऽन्यादत्तं ग्रनिच्छेदादिनोपायेन अपहरति स्तेनः क्षेत्रादिखननेनेति विशेषो मायी वञ्चनैकचित्तः। कण्णुहरः कण्हुकस्यार्थ हरिष्यामीत्येवमध्यवसायी शठो वक्राचारः तथा स्त्रियश्च विषयाश्च स्त्रीविषयास्तेषु गृद्धोऽभिकाक्षावान् स्त्रीविषयगृद्धश्च प्राग्वन्महानपरिमितः आरम्भोऽनेकजन्मूपघातकृव्यापारः परिग्रहश्च धान्यादिसंचयो यस्य स तथोक्तो भुञ्जानोऽभ्यवहरन् सुरां मांसं पिशितं (परिबूढोत्ति) परिवृढः प्रभुरुपचितमांसशोणिततया तत्तक्रियासमर्थ इति यावत्। अत एव परानन्यान् दमयति न्यत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परंदमः / किञ्च अजश्छागस्तस्य कर्कर ययणकवद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदो दन्तुरमतिपक्वं वा मांसं तद्भोजी वाऽतएव तुन्दिलो जातवृहज्जठरश्चितमुपचयप्राप्त लोहितं शोणितमस्येति चितलोहितः। शेषधातूपलक्षणमेतत् आयुर्जीवितं नरके सीमन्तकादौ कातीव काङ्कति तद्योगकरिम्भितया कमिव क इवेत्याह (जहाएसच एडएत्ति) आदेशमिव यथैडक उक्तरूप इह च हिंसे इत्यादिनासा-र्द्धश्लोकेनारम्भ उक्तो भुंजमाणे सुरमित्यादिना चार्द्धद्वयेन रसगृद्धिः आयुषमित्यादिनाचार्द्धन दुर्गतिगमनं तत्प्रतिपादनाचार्थतः प्रत्यु-पायाभिधानमिति सूत्रार्थः / इदानीं यदुक्तमायुनरके कासातीति तदनन्तरमसौ किं कुरुते इत्याह। यद्वा साक्षादैहिकापाय दर्शनायाह|| आसणं सयणं जाण, वित्तं कामे य भुंजिया। दुस्साहडं धणं हिया, बहु संचिणिया रयं / / तओ कम्मगुरुजंतू, पचुप्पण्णपरायणे। अयव्वआगयाएसे, मरणं तम्मि सीयए। आसनं शयनं यानमिति प्राग्वन्नवरं भुक्त्वेति संबन्धनीयं वित्तं द्रव्यं कामान्मनोज्ञशब्दादीन् भुक्तवोपभुज्य (दुस्साहडंति) दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ट्वादरातिशयेनाहृतमुपार्जितं दुःस्वाहृतम् / यदि वा प्राकृतचात् दुःखेन संहियते मील्यतेस्मेति दुस्संहृतं धनं द्रव्यं हित्वा आसनाधुपभोगेनछूताद्यसद्व्येनच त्यक्त्वातथाच मिथ्यात्वादिकर्मबन्धहेतुसंभवादहु प्रभूतं संचि-त्योपाय॑ रजोऽष्टप्रकारं कर्म / ततः किमित्याह। (ततोत्ति) ततो रजः संचयात् कोवा संचितरजाः कर्मणा गुरुरिव गुरुरधो नरक-गामितया कर्मगुरुर्जन्तुः प्राणी प्रत्युत्पन्नं वर्तमान तस्मिन्परायणस्तन्निष्ठः "एतावानेव लोकोऽयं, यावानिन्द्रियगोचर'' इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इति यावत्। (आएवत्ति)