________________ उरपरिसप्प० 576 - अभिधानराजेन्द्रः - भाग 2 उरब्भ चरपञ्चेन्द्रियतिर्यग्योनिक उरसा वक्षसा परिसर्पन्ति संचरन्तीति उरःपरिसास्ते च ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्च उरः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्यो निकाः / उरः परिसर्पस्थ लचरपश्चेन्द्रियतिर्यग्योनिकभेदे, तद्भेदा यथा। से किं तं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियार चउव्विहा पण्णत्तातं जहा अही अयगरा आसालिया महोरगा। अथ केते उरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः / सूरिराह उरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्तास्तद्यथा। अहयोऽजगरा आसालिगा महोरगाः प्रज्ञा०१ पद / अनु० / स्था० / जी०। एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राणि तानि च अह्यादिशब्देषु द्रष्टव्यानि "तिविहा उरपरिसप्पा पण्णत्ता तंजहा इत्थी पुरिसा णपुंसगा" उरःपरिसर्पमात्रेणापि-बोधः। सं०। उरपरिसप्पिणी स्त्री०(उरःपरिसर्पिणी) उरः परिसर्पस्त्रियाम्, ततद्देदा यथा “से किंतं उरगपरिसप्पिणी ओ 2 तिविधाओ तंजहा अहीओ अयगरीओ महोरगीओ सेत्तं उरपरिसप्पिणी" जी०२ प्रति०। उरब्भ पुं०स्त्री०(उरभ्र) उरु उत्कट भ्रमति भ्रम्० ड० पृषो० डलोपः। मेषे, प्रश्न०१ द्वा० सूत्र०। ऊरणे, रा०। उपा०। अस्य निक्षेपः। णिक्खेवे उ उरभे, चउदिवहो दुविहहोइ दवम्मि। आगमणोआगमतो, णो आगमतो य सो तिविहो। निक्षेपो न्यासस्तुः पूरणे उरभ्रे उरभ्रविषये चतुर्विधश्चतुःप्रकारो नामस्थापनाद्रव्यभावभेदात् / तत्र नामस्थापने क्षुण्णे एवेति / द्रव्योर भ्रमाह-द्विविधो भवति द्रव्य इति द्रव्यविषये आगमतो नो आगमतश्च तत्रागमत उरभ्रशब्दार्थज्ञस्तत्र चानुपयुक्तो नो आगमतः पुनश्चस्य पुनरर्थत्वात् स इति द्रव्योरभ्रस्विविधस्त्रिभेदः। तत्रैविध्यमाहजाणगसरीरभविए, तव्वइरित्ते य सो पुणो तिविहो। एगभवियबद्धाउ य, अभिमुहतो णामगोत्ते य॥ शरीरमुरभ्रशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते भव्यशरीरोरभ्रस्तु यस्तावदुरभ्रशब्दार्थं न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं तद्व्यतिरिक्तश्च ताभ्यां ज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तो भिन्नस्तद्व्यतिरिक्तः / चः समुचये स तद्-- व्यतिरिक्तः पुनस्त्रिविधस्त्रिभेदस्वैविध्यमेवाह / एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको योऽनन्तर एव भवे उरभ्रत-योत्पत्स्यते तथा स एवोरभ्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुक उच्यते। तृतीयमाह(अभिमुहओ नामगोत्तेयत्ति)आर्षत्वादभिमुखनामगोत्रश्च तत्राभिमुखे संमुखेऽन्तरर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसंबन्धिनी यस्य स तथोक्तान्तरमुहूर्तानन्तर मेवोरभ्रभवभावीतिगाथार्थः। भावोरभ्रमध्ययननामनिबन्धः उरभाउण मेगोयं, वेदेतो भावतो उरभो उ। तत्तो समुद्धियमेणं, उरमिज्जति अज्झयणं / / उरम्भे य कागणीअं, पएयववहारसागरे चेव। पंचेवेते दिटुंता उरमिजम्मि अज्णयणे / / उरभ्रः ऊरणकस्तस्यायुश्च नाम च गोत्रं च उरभ्रायुर्नामगोत्रं यदुदयादुरभ्रो भवति वेदयन्ननुभवन् भावतो भावमाश्रित्योरभ्रस्तुशब्दः / पर्यायास्तिकमतमेतदिति विशेषणार्थस्ततो भावोरभ्रदृष्टान्ततयेहाभिधेयात्समुत्थितमुत्पन्नमिदमिति प्रस्तुतं यस्मादिति गम्यते (उरभिज्जति) उरभ्रीयं गहादित्वाच्छैषिकछप्रत्यये इति तस्माद-ध्ययनं प्रागुक्तमुच्यते इतिशेष इतिगाथार्थः॥ उरभ्रस्यैवचेहप्रथममुच्यमानत्वात् बहुवक्तव्यत्वाचेत्थमुक्तामन्यथा हि काक-ण्यादयोऽपि दृष्टान्ता इहाऽभिधीयन्तएव तथा चाह नियुक्तिकृत् (उरख्भे गाहा) उरभ्र उक्तरुपः काकणिविंशतिः कपर्दिका (उर-उभेयत्ति) चशब्दस्य भिन्नक्रमत्वातकाकणिश्च (अंबएयत्ति) आम्रकमामफलं व्यवहारश्च क्रयविक्रयरूपो वणिग्धर्मश्चस्य गम्यमानत्वात् सागरश्च समुद्रः / चः सर्वत्र समुच्चये एवावधारणे भिन्नक्रमश्चैवं योज्यते पञ्चैवैते न तु न्यूनाधिका दृष्टान्ता उदाहरणानि उरभ्रीये उरभ्रनाम्न्यध्ययने इतिगाथार्थः / / संप्रति यदर्थसाधादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह।। आरंभो रसगेही, दुग्गमरणं च पव्ववातो य। उवमा कया उरन्मे, उरमिजस्स णिज्जुत्ती।। आउरविणाई एयाई, जाइं वरइणंदितो। सुजताणेहिं लाढाइ,एयदीहाउ लक्खणं॥ आरम्भणमारम्भः पृथिव्याद्युपमर्दो रसेषु मधुरादिषु गृद्धिरभिकाङ्क्षा रसेगृद्धि गतिगमनंचनरकतिर्यगादिषु पर्यटनं प्रत्यपायश्चैहैव शिर छेदादि वक्ष्यति हि "शिरच्छेत्तूणभुज्जत' इति शिरश्छेदाचार्तरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा सा दृश्यतो / दर्शनरूपा प्रक्रमादेभिरेवारम्भादिभिरथैः कृता विहिता उरभ्रे उरभ्रविषया। इदमुक्त भवति / सांप्रतेक्षिणो हि विषयामिषगृध्नवः तांस्तानारम्भानारम्भन्ते आरभ्य चोपचितकर्मभिः कालसौकरिकादिवदिहैव दुःखमुपलभ्ये नरकादिकां कुगतिमाप्नुवन्तीत्युरभ्रोदाहरणत इहोपदर्श्यते। काकण्यादि साधर्म्यदृष्टान्तोपलक्षणं चैतदुरभ्रीयस्य नियुक्तिरिति निगमनमेतदिति गाथार्थः / / 20 / / उरभ्रदृष्टान्तश्चैवम्॥ इत्यवसितो नामनिष्पन्ननिक्षेपः / संप्रति सूत्रालापकनिक्षेपस्यावसरः स च सूत्रे सति भवती त्यतः सूत्रानुगमे सूत्रमुच्चारणीयम्॥ जहा एसं समुद्दिस्सं, कोइ पोसेज एलयं / ओयणं जवसंदिजा, पोसेन्जावि सयं गणे / / यथेत्युदाहरणोपन्यासे आदिश्यते आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायात इत्यादेशोऽभ्यर्हितः प्राहुणकस्तं समुद्दिश्याश्रित्य यथासौ समेष्यति समागतश्चैनं भोक्ष्यत इति कश्चित्परलोकापायनिरपेक्षः पोषयेत्पुष्टं कुर्यादेलकमूरणकं कथमित्याह ओदनं भक्तं तजोग्यशेषानोपलक्षणमेतत्यवसमुद्माषादि दद्यात्तदग्रतो ढौकयेत्तत एव पोषयेत् पुनर्वचनमादरख्यापनाय अपिः संभावने संभाव्यत एवं एवं विधःकोऽपि गुरुकर्मेति स्वकाङ्गणे स्वकीयगृहप्राङ्गणे अन्यत्र नियुर्तिकः कदाचिन्नोदनादि दास्यतीति स्वकाङ्गण इत्युक्तः / यदि वा (पोसिञ्जाविसयंगणेत्ति) विशन्त्यस्मिन्निति विषयो गृहं तस्यांङ्गणं विषयाङ्गण तस्मिन्नथवा विषयं रसलक्षणं वचनव्यत्ययाद्विविषयान्वा गणयन् संप्रधारयन् धर्मनिरपेक्ष इति भावः / इहोदाहरणं संप्रदायादवसेयम् "जहेगो ऊरणगो पाहुणयनिमित्तं पोसिजति सो पीणियसरीरो सुण्हातो हालिहादिकयंगरागो कयकण्णचूलओ कु मारगायणं णाणाविहेहिं कीडाविसे से हिं कीडाति तं च वच्छगो एवं लालिज्जमाणं दटूण माऊए णेहेण गोचियं दोहएण य तयणुकंपाए मुक्कमवि खीरं न पिवति / रोसेण ताए पुच्छिओ भणइ