________________ उरख्म 581 - अभिधानराजेन्द्रः - भाग 2 उरब्भ अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् (आगयाएसत्ति) प्राकृतत्यादागते प्राप्ते आदेशे प्राहुणके एतेन प्रपञ्चितज्ञविनेयानुग्रहायोक्तमेवोरभ्रदृष्टान्तं स्मारयति। किमित्याह। मरणान्ते प्राणपरित्यागात्मन्यवसाने शोचति। किमुक्तं भवति यथादेश आगत उरभ्र उक्त नीत्या शोचति तथाऽयमपि धिग्मां विषयव्यामोहत उपार्जितगुरुकमणिं हा केदानीं मया गन्तव्यमित्यादिप्रलापतः खिद्यतेऽत्यन्तनास्तिकस्यापि प्रायस्तदा शोकसंभवादिति सूत्रद्वयार्थः / अनेनैहिकोपाय उक्तः। संप्रतिपारभविकमाह / / तओ आउपरिक्खीणे, चुया देहविहिंसगा। आसुरीयं दिसं वाला, गच्छंति अवसातमं / ततः शोचनानन्तरं को वा उपार्जितगुरुकर्मा आयुषि तद्भवसंभविनि जीविते परिक्षीणे सर्वथा क्षयं गते कथंचिदायुः क्षयस्यावीचीमरणेन प्रागपि संभवादेवमुच्यते। च्युतो भ्रष्टो देहाच्छरीरात्पाठान्तरस्तुच्युतदेहोपगते हन्त्यशरीरो विहिंसको विविधप्रकारैः प्राणिघातकः (आसुरीयंति) अविद्यमानसूर्यामुपलक्षणत्वात् ग्रहनक्षत्रादिविरहितां च दिश्यते नारकादित्वेनास्यां संसारीति दिक्तामर्थाद्भवदिवामथवा रौद्रकर्माकारी सोप्यसुर उच्यते। ततश्चा-सुराणामियमासुरीया सामासुरीयां दिशं नरकगतिमित्यर्थो बालोऽज्ञो गच्छति यात्यवशः कर्मपरवशो वचनव्यत्ययाच सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थो वा यथा नैक एवैवंविधः किंतु बहव इति (तयंति) तमोयुक्तत्वात्तमो देवगतेरप्यसूर्यत्वसंभवात्तव्यवच्छेदाय दिशो विशेषणम् / ततोऽर्थान्नरकगतिम् / उक्तंहि "निबंधयारतमसा , ववगयगहचंदसूरनक्खत्ता'' इत्यादिस्वरूपख्यापकं वा द्वितीयं व्याख्यानमिति सूत्रार्थः / संप्रति काकण्यान्नदृष्टान्तद्वयमाह जहा कागणीए हेलं, राहस्सं हारए नरो। अपच्छं अंबगं भुच्चा, राया रज्जं तु हारए / / 11 / / एवं माणुस्सगा कामा, देवकामा य अंतिए। सहस्सगुणिया भुजो, आउं कामाय दिब्विया॥१२॥ अणेगवासाणउया, जा सा पण्णट्ठउहई।। जाणि जीयंति दुम्मेहां, ऊणे वाससयाउए।१३।। (जहासूत्रम्)यथेत्युदाहरणोपन्यासार्थः / काकन्या उक्तरुयायाः (हेउंति) हेतोः कारणात्सहस्रं दशशतात्मक कार्षापणानामिति गम्यते | हारयेन्नाशयेन्नरः पुरुषोऽत्रोदाहरणं संप्रदायादवसेयः "एगोदसगो तेण वित्तिं करितेण सहस्सं काहावणाण अज्जियं सो तंगहाय सत्थेण सम सगिहिं पत्थितो / तेण भत्तनिमित्तं रूवगो कागिणीहिं भिन्नं ततो दिणे दिणे कागणिए भुजति तस्स व अवसेसा एका कागिणी सा विस्सारिया सत्थे पहाविए सो चिंतेइ मा मे रूवगो भिंदिजव्वो होहेतित्ति नउलगं अन्नत्थं गोवेउं कागिणीनिमित्तं नियतो सावि कागिणी अण्णेण हडा सो विनउलओ अन्नेण दिट्ठो ठविजंतो सोतं घेत्तूण नट्ठो पच्छा सो दारंगतो सोयइ एस दिलुतो" तथाऽपथ्यमहितमानकमानफलं भुक्त्वावहत्य राजेति नृपती राज्यं पृथिवीपतित्वं तुरवधारणे भिन्नक्रमश्च तेन हारयेदेव संभव-त्येव। अस्यापथ्यभोजिनो हारणमित्यक्षरार्थः। भावार्थस्तुवृद्धसंप्रदायादवसेयः। स चायम्। "जहा कस्सइरण्णो अंबाजिण्णेण विसूइगा जाया सातस्स वेज्जेहि महाजन्नेण चिगिच्छिया भणितो जदिपुणो अंबाणि खाइसि तो विणस्ससि। तस्स य अतीव पियणि अंबाणि तेण सदेसे सव्वे अंबाउ उत्थाविया / अण्णया अस्स वाहणिए निग्गतो सह अम्मचेण अस्सेण अवहरिओ अस्सो दूरं गंतूण परिस्संतो छितो एगम्मि वणसंडे चूयच्छायाए अमचेण वारिज्जमाणो वि णिव्यिहो। तस्स य हेटे अबाणि पडियाणि सो ताणि परामस्सति / पच्छा अग्धाति पच्छा चक्खिउं निटुभति। अमच्चो वारेति पच्छा भक्खेउं मतो" इति सूत्रार्थः / इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह / (एवं गाहा) एवमिति काकिन्यामकसदशानां मनुष्याणाममी मानुष्यका गोत्रप्रत्ययान्तत्वात्। गोत्रचरणाविति वुन कामा विषया देवकामानां देवसंबन्धिनां विषयाणामन्तिके समीपे अन्तिकोपादानं च दूरे अनवधारणमपि स्यादिति / किमित्येवमत आह / सहस्रगुणिताः सहस्रेस्ताडिताः भूयोऽतिशयेन बहु बहून्वारा नित्यर्थः मनुष्यायुः कामापेक्षयेति प्रक्रमोऽनेनैषामतिभूयस्त्वं सूचयन्कार्षापणसहस्रराज्यतुल्यतामाह / आयुर्जीवितं कामाश्च शब्दादयो (दिव्वियत्ति) दिवि भवा दिव्याः धुपागुदक्प्रतीचो यदिति यत्त एव दिव्यकाः इहचादौ (देवकामाणअंतिएत्ति) काममात्रोपादानेऽपि अयुष्कामाय (दिटिवयति) आयुषोऽप्युपादानम्। तत्र प्रभावयितुमाह (अणेगसूत्र) अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणि वत्सराणि तेषां न युतानि संख्याविशेषा वर्षनुतान्यऽनेकानि च तानि वर्षनयुतानि स्वरोऽन्योन्यस्येति प्राकृतलक्षणात्सकाराकारदीर्घत्वमेवमन्यत्रापि स्वरान्यत्वं भावनीयम्। यदिवा अनेकानिवर्षनयुतानि येषु तान्यनेकवर्षनयुतान्युभयत्रार्थापल्योपमसागराणीति यावत् / नयुतानयनोपायस्त्व यं चतुरशीतिवर्षलक्षाः पूर्वाङ्ग तच पूङ्गिन गुणितं पूर्वंचतुरशीतिलक्षाहतंनयुताङ्ग नयुताङ्गमपि चतुरशीतिलक्षाभिताडितं नयुताद्देवमुच्यत इत्याह / या सेति प्रज्ञापकः शिष्यान् प्रत्येवमाह।यासा भवतामस्माकं च प्रतीता। प्रकर्षण ज्ञायते वस्तुतत्वमनयेति प्रज्ञा हेयोपादेयविवेचिका बुद्धिः सा विद्यते यस्यासौ प्रज्ञावानतिशायने मतुप्। अतिशयश्चास्या हेयोपादेययोर्हानोपादाननिबन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्षिप्तत्वात्। यदिवा निश्चयनयमतेन क्रियारहिता प्रज्ञाप्यप्र-हवेति प्रत्ययेनैव क्रिया क्षिप्यते ततः प्रज्ञावान ज्ञानक्रियावा-नित्युक्तं भवति तस्य प्रज्ञावतः / स्थीयते अनया अर्थादेवभवे इति स्थितिर्देवायुरधिकृतत्वात् / दिव्यकामाश्च / तानिच कीदृशानीत्याहा यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि जीयन्ते हार्यन्ते तद्धेतुभूतानुष्ठानानासेवनेनेति भावः। पाठान्तरतो हारयन्ति वा के ते दुष्टा विषयादिदोषदुष्टत्वेन मेधा वस्तुरूपावधारणशक्तिरेषां ते दुर्मेधसो विषयैर्जिता जन्तव इति गम्यते। कदापुनस्तानि दुर्मेधसो विषयीयन्त इत्याह ऊने वर्षशतायुष्यनेनायुषोऽल्पत्वान्मनुष्यकामानामप्यल्पतामाह। यदि वा प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन्नस्मिस्तु संक्षिप्तायुष्येकदा हारितानि हारितान्येव भगवतश्च वीरस्य तीर्थे प्रायोऽन्यूनवर्षशतायुष एव जन्तव इत्ययमुपन्यासः। अयं चात्र भावार्थोऽल्पं मनुष्याणामायुविषयाश्चेति काकण्यामफलोपमा देवायुर्देयकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः। ततो यथा द्रमको राजा च काकण्याम्रफलकृते कार्षापणसहस्रराज्यं चहारितवानेवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुः कर्मार्थं प्रभूतान्देवायुः कामान् हारयन्तीति सूत्रार्थः।। संप्रति व्यवहारोदाहरणमाह / / जहा य तिण्णि वणिया, मूलं चित्तूण निग्गया। एगो तत्थ लहइ लाभ, एगो मूलेण आगओ // 14 //