________________ उभयारिह ८७१-अमिधानराजेन्द्रः - भाग 2 उम्मग्गजला संप्रति सहसाकारेत्यादिव्याचिख्यासुराह उवओगवतो सहसा, भयेण वा पल्लिए कुलिंगादी। अचाउरावती सुय, अणेसिया दीहगणभोगा / / उपयोगवतो पि ईर्यासमितौ सम्यगुपयुक्तस्यापि उच्चालिते पादे कथमपि सहसा योगतः समापतितः सन् कुलिङ्गी व्यापाद्यते भये न वा चौरसिंहादीनां भृशं पलायमाने भयग्रहणमुपलक्षणं तेन एत दपि द्रष्टव्यं परेण वा (पेल्लिए इति) परेण प्रेरिते वा तद्व्यापारमासाद्य कुलिङ्गीउपलक्षणमेतत्। पृथिव्यादिजीवनिकायावा व्यापत्तिमाप्नुयात् / तथा अत्यातुरे क्षुधा पिपासया वा अत्यन्तं पीडिते तथा आपत्सु द्रव्यापदादिषु यदि अनेषितादिग्रहणभोगौ भवतः अनेषितमनेषणीयमादिशब्दादकल्पनीयस्य परिग्रहः न केवलमनेषितादिग्रहणभोगौ किंतु गमनागमनादौ पृथिव्यादिजन्तुविराधनापि भवति। तथापितत्र प्रायश्चित्तं यथोक्तलक्षणं तदुभयमिति वर्तते सहसाकारादिविषयत्वात्। संप्रति महव्वयाइयारे अइत्येतद्व्याख्यानयन्नाह / / सहसाकारे अइक्कम-वइक्कमे चेव तह य अइयारे। होइ व सद्दग्गहणा, पच्छित्तं तदुभयं तिसु वि। इतिमादुवयोगे वा, एगयरे तत्थ होइ आसंका। नवहा जस्स विसोहि, तस्सुवरिं छह वज्झतु / / सहसाकारतोऽतिक्रर्म व्यतिक्रमे अतीचारे प्राग्व्यावर्णितस्वरूपे महाव्रतविषये इति सामर्थ्यागम्यते महव्वयाइयारे य इति पदस्य व्याख्यायमानत्वात् एतेषु त्रिष्वपि दोषेषु तदुभयमुक्तस्वरूपं प्रायश्चित्तम् / अथ मूलगाथायां महाव्रतातीचारे चेत्येवोक्तं ततः कथ-मत्र विधृतम् अतिक्रमे चेति अत आह / चशब्दग्रहणात्किमुक्तं भवति चशब्दग्रहणात् मूलगाथायामतिक्रमव्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः / अथवा अतीचारस्य पर्यन्तग्रहणादतिक्रमव्यतिक्रमयोरपि उपयोग स्फुटबुद्ध्या करणे तदुभयप्रायश्चित्तमिति योगः / वा शब्दो भिन्नक्रमत्वाद् एगयरे इत्यत्र योजनीयः। ततोऽयमर्थः / एकतरस्मिन्वा तत्र अतिक्रमे अतीचारे वा यदि भवत्याशङ्का यथा मयातिक्रमः कृतो न वा व्यतिक्रमः कृतो न वा अतीचारः कृतो नवेति / तत्रापि तदुभयं प्रायश्चित्तम्। "इहसहसाकारासंके संकिय सहसाकारे" पदद्वयेनापि गते केवलं महाव्रतानामतिक्रमादिष्वप्याशङ्कायां सहसाकारे चैतदेव प्रायश्चित्तं नान्यत्परिकल्पनीय-मिति। भाष्यकृता सहसाकारासंके अपि योजिते / छहं ठाणाण वज्झतो इति व्याख्यानयन्नाह (नवहेत्यादि) यस्याचार्यस्य मतेन अनवस्थितपाराञ्चितयोरैक्यविवक्षणान्नवधा नवप्रकारा विशोधिः प्रायश्चित्तं तस्य आद्यप्रायश्चित्तद्वयस्योपरि यद्वर्तते प्रायश्चित्तं तत्ष-प्रणामुपरितनानाबाह्यमेव तुशब्दस्यैवकारार्थत्वात्। ततः छण्हं ठाणाणवज्झत्तो इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति / उक्तं तदुभयार्ह प्रायश्चित्तम्। उमच्छ धा०(वञ्च) उपालम्भे, वञ्चे वेहववेलवजूरवोमच्छाः ||13|| इति वञ्चेरुमच्छादेशः / उमच्छइ वञ्चइ वञ्चति। प्रा०। उमा स्त्री०(उमा) शिवपल्याम्, को०। अवसपिण्यां द्वितीयबलदेववासुदेवमातरि, स०। आव०। उज्जयिन्यां प्रद्योतस्य राज्ञोऽन्तः पुरे गणिकायाम्, आव०४ अ०। आ०चू०। (तया महेश्वरनामा खेचरो वृत इति सिक्खा शब्दे विकाशमेष्यति) उमाल(लय) न०(निर्माल्य) नि-मल-ण्यत् / निष्प्रती उत्परी मल्यस्थो ||13|| इति निर इत्येष शब्दो माल्यशब्दे परे वा उद्पमापद्यते / देवादिदत्ते तद्विसर्जनोत्तरमुच्छिष्ट द्रव्ये, 'उमालं निम्मालं उमालयं वहइ' प्रा०। उमासाइ पुं०(उमास्वाति) तत्वार्थसूत्राकारके स्वनामख्याते वाचकप्रवरे, अस्य च माता उमा नाम्नी पिता च स्वातिनामेति तयोर्जातत्वादयमुमास्वातिनामा प्रसिद्धिमगमत् / कौषीतकि-गोत्रोऽयं बाह्मण आसीत् प्रवाचकान्वयानुसारेणाऽयं घोषनन्दिक्षमाश्रमणशिष्यशिवश्रीनाम्न आचार्यस्य शिष्य आसीत् / वाचनाचार्यान्वयानुसृत्या मुन्दपादशिष्यमूलवाचकस्य शिष्य आसीत् / अयमाचार्योऽस्मदीय इति श्वेताम्बरा दिगम्बराश्च विवदन्ते / तत्र दिगम्बरमतेन वीरमोक्षात् (101) वर्षेऽयं विद्यमान आसीत् न्यग्नोधिकानाम्नि ग्रामेऽयं जन्म लेभे सरस्वतीगच्छे ऽयं षष्ठः कुन्दकुन्दाचार्यलोहाचार्ययोर्मध्यगो जातः अनेन तत्वार्थसूत्रं पाटलिपुत्रनगरे विरचितम्। तदुपरिटीकाभाष्ये च स्वेनैव कृते अन्याप्येका टीका विक्रमसमकालिकेन सिद्धसेनार्केण तत्र कृता जै०इ०। तथाचाह भगवानुमास्वातिवाचकः सम्यग्दर्शनचारित्राणि मोक्षमार्ग इति / नं०। षट्स्थानयुक्तश्च श्रावको भवतीत्युमास्वाति-वाचकवचनात्।ज्ञा०१६ अ० / उक्तं चोमास्वातिवाचकेन "हिंसानृतस्तयविषयसंरक्षणेभ्यो रौद्रमिति'' आव० 4 अ० / वाचकः पूर्वधरोऽभिधीयते स च श्रीमानुमास्वातिनामा महातार्किकः प्रकरणपञ्चशतीकर्ताचार्यः सुप्रसिद्धोऽभवत् पञ्चा०६ विव०। उम्मग्ग त्रि०(उन्मन) उद्-मस्ज-ताऊज़ जलगमनं कुर्वाणे, प्रश्न० ३द्वा०। *उन्मजन न० उन्मज्यते ऽनेनेति उन्मज्जनम्। रन्ध्रे, "उम्मग्गं सि णो लभति'' / आचा० 1 श्रु०३ अ० जलादूर्ध्वगमने, 'उम्मग्गल इह माणुसेहिं, णो पाणिणं पाणिसमारभेजा" इह मिथ्यात्वादिशैवालाच्छादित संसारहदे जीवकच्छपः श्रुतिश्रद्धा-संयमवीर्य्यरूपमुन्मजनमासाद्य लब्ध्वाऽन्यत्र संपूर्णमोक्षमार्ग-संभवान्मानुषेष्यित्युक्तम् / आचा।१ श्रु०३ अ० उ०) *उन्मार्ग पुं० मार्गः क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः / क्षायोपशमिकभावत्यागेनौदयिकभावसंक्रमः, "जो मे देवसिओ अइयारो कओ काइओवाइओ माणसिओ उस्सुत्तोउम्मग्गो अकप्पो अकरणिज्जो' ध०२ अधि० / आव० / आ००। निर्वृतिपुरी प्रति अपथि वस्तुतत्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठाने, "मग्गे उम्मग्गसण्णा" स्था० 10 ठा० / असन्मार्गे, ग०१ अधि०। परसमए अणट्टे अहेऊ असब्भावे अकिरिए उम्मग्गे" उन्मार्गत्वं परस्परविरोधानवस्थासद्व्याकुलत्वात्तथाहि "न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च / आत्मवत्सर्वभूतानि, यः पश्यति सधार्मिकः" इत्याद्यभिधाय पुनरपि"षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनान्नयूनानि पशुभिस्त्रिभि" रित्यादि प्रतिपादयन्तीति / अनु०। संसारावतरणे, सूत्र० १श्रु० १२अ० / आचा० / ऊर्द्ध मार्ग उन्मार्गः / रन्ध्रे, "उम्मग्गंसि णो लभति' आचा०१ श्रु०६ अ०१उ० / उगतो - मार्गादुन्मार्गः। अकार्यकरणे, आचा०१ श्रु०५ अ०१उ० उम्मग्गगय त्रि०(उन्मार्गगत) उन्मार्गेण संसारावतरणरूपेण गतः प्रवृत्तः उन्मार्गगतः। संसारे एव प्रवृत्ते मोक्षमार्गे उदस्ते, "सुद्धं मग्गं विराहित्ता, इहमेगे उदुम्मती। उम्मग्गगता दुक्खं, धायमे संतितंतहा" सूत्र०१ श्रु० 12 अ०। उमग्गजला स्त्री०(उन्मग्रजला) उन्मजति शिलादिकमस्मादिति उन्मग्नं कृद्वहुलमिति वचनात् अपादाने क्तप्रत्ययः। उन्मग्रं जलंयस्यां सा तथा / तमिसगुहायां बहुमध्यदेशभागे वहन्त्यां स्वनामख्यातायां नद्याम्॥