________________ उभयारिह ८७०-अभिधानराजेन्द्रः - भाग 2 उभयारिह - मार्जिता बहुशोऽनेकशो उपयुक्तोऽपि उपयोगवानपि यदैवसिका-- द्यतिचारादित्यादिशब्दाद्वा त्रिकपाक्षिकचातुर्मादिकसांवत्सरिकादि च पूर्वकालकृतमालोचनाकाले न स्मरति तस्याप्यतिचार जातस्याशोधकः / अस्यां गाथायामनुक्तमपि प्रस्तावात्तदुभयार्हमेव ज्ञेयम्। सवेसु वि वीइयपए, दसणनाणचरणावरोहेसु। आउत्तस्स तदुभयं, सहसाकाराइणा चेव।। प्रथमपदमुत्सर्गस्तदपेक्षया द्वितीयपदमपवादस्मस्मिन्नुपस्थिते सत्ययुक्तस्य कारणेन यतनया गीतार्थस्यापराधपदान्यासे वमानसहसाकारादिना चैवमादिशब्दादाभोगानाभोगाभ्यां च सर्वेष्वपि दर्शनज्ञानचरणापराधेषु तदुभयं प्रायश्चित्तम्। अत्राह शिष्यः। 'खलियरस य सव्वत्थ वी' त्यत्र दर्शनज्ञानचरणादिपदेषु सर्वेषु सस्खलितस्य प्रतिक्रमणाहमभिधाय तेष्वेवेह कथं तदुभयाहमभिधीयते // तत्र हि सममापद्यमानस्येत्युक्तम्। इह तु हिंसाव्यापन्नसाम्ययुक्तस्य तदुभयाhण शुद्धिरिति न विरोधः। इदानीं तदुभयारीमभिधातुकाम आह // संकिए सहसागारे, उभयाउरे आवतीसुय / / महव्वयातियारे य, छण्हं ठाणाण वज्झतो / / शङ्कितः प्राणातिपातादौ यथा मया प्राणातिपातः कृतः किं या न कृतः / तथा मृषा भणितं न वा अवग्रहोनुज्ञापितो नवा, स्नाना-दिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्श रागगमनमभून्न वा इष्टानिष्टेषु रागद्वेषौ गतौ न वा, तक्रादिले पकृ दवयवाः कथमपि पात्रगताः पर्युषिताः भिक्षार्थमटितुकामेन धौताः किं वा न धौता इत्यादि। तत्र षण्णां बाह्य तदुभयलक्षणं प्रायश्चित्तमिति योगः / तथा उपयोगवतोऽपि सहसा कारे सहसा प्राणातिपातादिकरणे / तथा भये दुष्टम्लेच्छादिसमुत्थे यदि वा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शने वा आकुलतया प्राणातिपातादिकरणे तथा आतुरः क्षुधा पिपासया वा पीडितः / भावप्रधानश्चायं निर्देशस्ततोऽयमर्थः आतुरतायाम् / तथा आपञ्चतुर्की तद्यथा / द्रव्यापत् क्षेत्रापत् कालापत् भावापत् / तत्र द्रव्यापत् दुर्लभं प्रायोग्यं द्रव्यम् / क्षेत्रापत् छिन्नमण्डपादि। कालापत् दुर्भिक्षादि। भावापत् गाढम्लानत्वादि / एतासु स हिंसादिदोषमापद्यमानस्यापि अनात्मवशगम्य तथाहि ईर्यासमितावुपयुक्तोऽप्युच्चालिते पादे सहसा समापतितं कुलिङ्गि नमपि व्यापादयेत् मृषापि कदाचित्सहसा भाषते। अवग्र–हमपि कदाचिद्राभसिकतया अननुज्ञातमपि परिभोगयति। अत्युल्वणमबलारूपमवलोक्य कदाचनापि सहसा रागमुपैति इत्यादि। तथा भयात्प्रपलायमानोभूदकज्वलनवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियानपि व्यापादयेत् / मृषापि भयात भाषते परिग्रहमपि धर्मोपकरणबाह्यस्य करोति। आतुरतायामपि सम्यगीर्यापथाशोधने संभवति प्राणतिपातः। अत्यातुरतायां कदाचिन्मृषा भाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयम् तथा महाव्रतानां प्राणातिपातनिवृत्त्यादीनां सहसाकारतः स्फुटबुद्ध्या कारणतो वा अतीचारे च शब्दादति क्रमव्यतिक्रमयोश्च / तथातिक्रमादीनां महाव्रतविषया-णामन्यतमस्याशङ्कायां वा किमित्याह (छण्हं ठाणाणवज्झतो इति) केषांचिदनवस्थितपाराञ्चिते प्रायश्चित्ते द्वे अपि एकं प्रायश्चित्तमिति प्रतिपत्तिः // तन्मते नवधा प्रायश्चित्तं तत्र बाह्य द्वे प्रायश्चित्ते मुक्त्वा शेषाणि सप्त प्रायश्चित्तानि तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तदुपरितनानां षण्णां बाह्यं नाभ्यन्तरमिति षण्णां स्थानानां बाह्यत इति वचनादेव प्रतिपत्तव्यम् / तच्च तदुभयं तच्चैवं भावनीयम् / शद्धितादिषु यथोक्तस्वरूपेषु सत्सु प्रथमं गुरूणां पुरत आलोचनां तदनन्तरं गुरुसमादेशेन मिथ्यादुष्कृतदानमिति / शंकिए इत्येतद्विवृण्वन्नाह / / हित्थो व णहित्थो मे, सत्तो भणियं च न भणियं मिसा। उग्गहणुण्णमणुन्ना, तइए फासे चउत्थम्मि / / इंदियरागहोसाउ, पंचमे किं गतोमि न गतोत्ति / छ? लेवाडादी, धोयमधोयं न वावेत्ति / / सत्वः प्राणी (हित्थोत्ति) देशीपदमेतत्। हिंशितो मे मया न वा हिंसित इति / तथा मृषा भणितं न वा / तथा तृतीये अदत्तादानविरतिलक्षणे अवग्रहोऽनुज्ञा मया कारिता यदि वा अनुज्ञान कारिता / तथा चतुर्थे मैथुनविरतिलक्षणे जिनभवनादिषु स्नानादिदर्शनप्रयोजनतो गतः सन् (फासे इत्ति) स्त्रीस्पर्श रागं गतो न वा / तथा पामे परिग्रहविरमणलक्षणे इन्द्रियेषु विषयिणा विषयोपयोगलक्ष-णादिन्द्रियेषु इष्टानिष्टेषु रागद्वेषौ गतोऽस्मि किं वा न गत इति / तथा षष्ठे रात्रिभोजनविरमणे लेपकृदादि तक्राद्यवयवरूपं कथमपि पात्रादिगत पर्युषितं भिक्षाटनार्थमुत्पद्यते तद्धौतमथवा न धौतं मयेति। यद्येवं ततः किमित्याह / / इंदियअव्वागडिया जे, अत्था अणुवधारिया। तदुभयपायच्छित्तं, पडिवज्जइ भावतो।। उक्तेन प्रकारेण येऽर्थाः प्राणातिपातादय इन्द्रियैश्चक्षुरादिभिरव्याकृताः प्रकटीकृता अपि येऽनुपधारिता न सम्यग् धारणाविषयीकृतास्तेषु प्रायश्चित्तं प्रतिपद्यते / भावतः सम्यगपुनरापतनेन तदुभयमिति / तच्च तदुभयं च पूर्व गुरूणां पुरत आलोचना / तदनन्तरं तदादेशतो मिथ्यादुष्कृतदानमित्येवंरूपं तदुभयम्। एतदेव सविस्तरमभिधित्सुराह। सद्दा सुया बहुविहा, तत्थ य केसु विगतोमि रागंति / अमुगत्थ मे वितका, पडिवजइ तदुभयं तत्थ / / शब्दा मया बहुविधा बहुप्रकाराः श्रवणविषयीकृतास्तत्र तेषु बहुविधेषु शब्देषु श्रुतेषु मध्ये (वितक्कत्ति) एवं मे वितर्कः संदेहो यथा केषुचिदपि (अमुगत्थत्ति) अमुकेषुरागमुपलक्षणमेतत् द्वेषंवा गतोऽस्मि। तत्र तस्मिन् शङ्काविषये तदुभयमुक्तलक्षणं प्रायश्चित्तं भावतः प्रतिपद्यते / यदिहि निश्चित्तं भवति यथा अमुकेषु शब्देषु राग द्वेषं वा गतः इति तत्र तपोऽर्ह प्रायश्चित्तम् / तथैव निश्चयो न गतो राग द्वेष वा तत्र स शुद्ध एव न प्रायश्चित्तविषयः / ततो वितर्के यथोक्तलक्षणे तदुभयमेव प्रायश्चित्तमिति। एमेव सेसए वि, विसए आसेविऊण जे पच्छा। काऊण एगपक्खे, न तरइ तहि यं तदुभयं तु 18 एवमेव उक्तेनैव प्रकारेण यान् रूपादीन्विषयान् आसेव्योपभुज्य उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पश्चात् एकतरस्मिन्प-क्षे अपराधलक्षणे निर्दोषतालक्षणे वा न कर्तुं शक्नोति यथा रूपा-दिषु विषयेषु राग द्वेषं वा गतः / प्राणातिपातादयो वा कृता इति / यदि वा न गतौ रागद्वेषौ नापि कृताः प्राणातिपातादय इति तत्र तदुभयं तु तदुभयमेव तुशब्दस्यैवकारार्थत्वाम् यथोक्तलक्षणं प्रायश्चित्तं शङ्कास्पदत्वाम् तदेव शङ्किते इति व्याख्यातम्।