________________ उम्मग्गजला ५७२-अभिधानराजेन्द्रः- भाग 2 उम्मग्गदेसण तत्स्वरूप यथा॥ तीसे णं तिमिसगुहाए बहुमज्झदेसभाए एत्थाणं उम्मग्गणिमग्गजलाउ णाम दुवे महाणईओ पण्णत्ताओ जाउणं तिमिसगुहाए पुरच्छिमिल्लाओ कडगाउ पवुड्डाओ समाणी पञ्चच्छिमेणं सिंधु महाणदीं सिमप्पेंति॥ तस्यास्तमिस्रागुहायाः बहुमध्यदेशभागे दक्षिणद्वारतस्तोड्डकसमेतैकविंशति योजनेभ्यः परतः उत्तरद्वारतस्तोडकसमेतैकविंशतियोजनेभ्योऽर्वाक् च उन्मग्नजलानिमग्नजलानाम्न्यौ नद्यौ प्रज्ञप्ते। ये तमिस्रागुहायाः पौरस्त्यकटकाद्भित्तिप्रदेशात् प्रव्यूढे निर्गते सत्यौ पाश्चात्तेन कटकेन विभिन्नेन सिन्धुमहानदीं समाप्नुतः प्रविशत इत्यर्थः / नित्यप्रवृत्तत्वाद्वर्तमाननिर्देशः। अथानयोरन्यर्थं पृच्छन्नाह॥ से के णटे णं भंते ! एवं वुबइ उम्मग्गणिमग्मजलाओ महाणइओ? गोयमा ! जण्णं उमग्गजलाए गहाणईए तणं वा पत्त वा कटुं वा सकरं वा आसे वा हत्थी वा रहे वा जोहो वा मणुस्से वा पक्खिपइ ताओ णं उम्मग्गजला महाणई तिक्खुत्तो आहुणिअ२एगते थले पक्खिवइ जण्णं णिमग्गजलाए महाणईए तणं वा जावमणुस्से वापक्खिपइ तण्णं निम्मग्ग-जला महाणई तिक्खुत्तो आहुणिय 2 अंतो जलंसि णिमजावेइ। से तेणतुणं गोयमा ! एवं दुचई उम्मग्गणिम्मग्गजलाओ महाणईओ // अथ केनार्थेन भदन्त ! एवमुच्यते उन्मग्रनिमग्नजले महानद्यौ गोतम ! यत् णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं व पत्रं वा काष्ठं वा शर्करा वा दृषत्खण्डः अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः। अश्वो वा हस्ती वा रथोवायोधो वासुभटः सेनायाः प्रकरणाचतुर्णा सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत्तृणादिके उन्मग्नजलामहानदीकृतांस्त्रीन् वारान् आधूय 2 भ्रमयित्वा २जलेन सहाभ्या-हत्येत्यर्थः एकान्तेजलप्रदेशाद्दवीयसि स्थाने निर्जलप्रदेशे (पक्खिवइत्ति) छर्दयति तीरे प्रक्षिपतीत्यर्थः / तुम्बीफलमिव शिला उन्मग्नजले उन्मजति अत एवोन्मजति शिलादिकमस्मादिति उन्मग्नं कृद् मिति वचनात् अपादानेक्तप्रत्ययः / उन्मग्रं जलं यस्यांसा तथा। अथद्वितीयानामार्था। तत्पूर्वोक्तं वस्तुजातं निमग्नजला महानदी त्रिःकृत्व आधूयाधूय अन्तर्जलं निमज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः / अत एव निमज्जयत्यस्मिन् तृणादिकमखिलम् वस्तुजातमिति निमग्नं बहुलवचनादधिकरणे क्तप्रत्ययः निमग्रं जलं यस्यां सा तथा / अथैतन्निगमयति सेतेणद्वणमित्यादि सुगमम् / अन्योश्च यथाक्रममुन्मज्जलिमज्जकृत्ये वस्तुस्वभाव एव शरणं तस्य चातर्कणीयत्वात् / इमे च द्वे अपि त्रियोजनविस्तारगुहाविस्तारायामे अन्योन्यं द्वियोजनान्तरे बोध्ये अनयो-र्यथा गुहामध्यदेशवर्तित्वं तथा सुखावबोध्या स्थापना देश्यते। जं०३ वक्ष०। उभग्गट्ठिय त्रि०(उन्मार्गस्थित) उत्सूत्रादिप्ररूपणापरे, "भट्ठायारोसूरी, भट्ठायाराणुविग्गओ सुरी। उम्मग्गडिओ सूरी, तिण्णि वि मग्गं पणासेंति" ग०१ अधि०। (आयरियशब्दे विवृतिरुक्ता) उम्मग्गणयण न०(उन्मार्गनयन) उन्मार्गप्रापणे, "यद्भाषितं मुनीन्द्रः, पापं खलु देशनापरस्थाने। उन्मार्गनयनमेतत्" षो०१ विव०। उम्मग्गदेसणास्त्री०(उन्मार्गदशना) उन्मार्गस्यभवहेतोर्मोक्षहेतु-त्वेन देशना कथनमुन्मार्गदेशना // कर्म० // सम्यग्दर्शनादिरूप- | भावमार्गातिक्रान्तधर्मकथने, एष दर्शनमोहनीयकर्मणो हेतुः। स्था० 4 ठा०। ध०॥ नाणाइ अदूसिंतो, तविवरीयं तु उवदिसइ मग्गं / उम्मग्गदेसओ एस, आय अहितो परेसिंच।। ज्ञानादीनि पारमार्थिकमार्गरूपाणि प्ररूपयन् तद्विपरीतं ज्ञानादिविपरीतमेवोपदिशतीति मार्ग धूमसंबन्धिनमेष उन्मार्गदेशकः अय चात्मनः परेषां च बोधिवीजोपघातादिना अहितः प्रतिकूल इत्येषा उन्मार्गदेशना। वृ०१उ०।। पुच्छंताणं धम्म, तं पिउन परिक्खिउ समत्थाण। आहरमेतलुद्धा, जे उम्मग्गं वइस्संति॥ सुगई हणंति तेसिं, धम्मियजणनिंदणं करेमाणा। आहारपसंसया निति, जिणिदोग्गईबहुयं / / गुरुभिस्तावन्स्वत एव धर्मतत्वप्रकाशनशीलैर्भाव्यं यत्पृच्छतामित्यत्रापि शब्दस्य लुप्तनिर्दिष्टत्वात्ततः पृच्छतामपि प्रच्छनशीलानामपि को धर्मः स्वर्गापवर्गसाधनमपि परीक्षितुमसमर्थानां मुग्धबुद्धीनामित्यर्थः।ये हि किल विशिष्टा भवन्ति ते विशेषतो मुग्धधीबन्धन कुर्वन्ति अतोऽतिक्लिष्टताख्यापनार्थ परीक्षमाणमित्युक्तम्। ये कथं भूता आहारमात्रलुब्धाः शिवसुखाभिलाषविमुखाः। इहलोकसुखमात्रप्रतिबद्धत्वेन मह्यमेते विवेकिनः सन्तः आधाकर्मादिदोषदूषितमाहारवस्त्रपात्रवसत्यादिनदास्यन्त्यतउन्मार्गमुपदिशन्ति शास्त्रोक्तसन्मार्गादुत्तार्य तथा विप्रतारयन्ति यथा जन्मान्तरमपि दासादिवद्यत्किचित्कारिणो भवन्ति / ते किं तेषामुपकारिणो भवन्ति नेत्याह / घ्नन्ति नाशयन्ति कां सुगतिं स्वर्गापवर्गादिकां केषां सम्यगजानानानां परमगुरुरिव धर्मबुद्ध्याराधयतां तेषामपि सुगतिनाशो भवति। तथाहि यथा कश्चित्केषांचिदिहलोकपरलोकविरुद्धकारिणां मन्त्रयोगचूण्णादिना वशीकृतः स तस्य परमबन्धुरबुद्ध्यापि सर्वस्वं समापयन् प्राग्भवति एवमत्रापीतिभावार्थः। पुनरपि कथंभूता गुरुकर्मतया धार्मिकजनं संविनं गीतार्थ यथाशक्तयानुष्ठानपरायणमपि निन्दयन्तो हीलयन्तः न केवलं तेषां स्वरुचिविरचिताचारान् विधाय देशनावशीकृतानां सुगतिं घ्नन्ति। अपिच दुर्गतिं नयन्ति प्रापयन्ति आहारपसंसा-सुत्ति तृतीयार्थे सप्तमी तत आहारप्रशंसादिभिराहारादिदानप्र-शंसनैः यदुत यदि भवदीयेष्वपि गृहेषु सकलसाधारभूतेषु समस्तसंपदुपेतेषु कलिकालकवलितशक्तियतयो न प्राप्स्यन्ति आहारादि तर्हि व यास्यन्ति अन्वेषणीयविभागान्वेषणं कार्यलक्षम्।ये तुच्छका घराका अल्पशक्तयो भवन्ति तेऽल्पेन व्याजेलात्मानं मुनयो मोचयन्ति इत्येवमादिव वोभिरुत्प्रास्योत्प्रास्यमुखमाङ्गलिका इव सकलशास्त्रविरुद्ध आधाकर्मादिदोषदूषिताद्याहारादिदाने प्रवर्तयन्ते बहुकं जनं लोकं श्रावकं यथा भद्रकं च / इयमत्र भावना / तेहि दुर्गतिगर्तप्रपतनाभिमुखीभूताः सन्तो यथा कथंचिदेवाहारार्थपरान् विप्रतार्य दुर्गती पातयन्तीति गाथाद्वयार्थः / ये तावदिहलोकस्यैवैककस्य वाञ्छावन्तः परप्रतारणप्रवणास्तेषा-मियं गतिः / ये तु सर्वशक्तिविकलतया सम्यगनुष्ठानं कर्तुमशक्ता-स्तथापि मनाक् शुद्धचित्ततया परलोकमपि वाञ्छन्ति तैः किं कर्तव्यमित्याह॥ होजज्झवसाणपत्तो, सरीरदोवल्लया य असमत्था। चरणकरणे असुद्धे, सुद्धं मग्गं परूवेजा / /