________________ उभिण्ण 968 - अभिधानराजेन्द्रः - भाग 2 उब्भिण्ण तद्भेदा यथा-- पिहिउब्भिन्नकवाडे, फासुयअफासुए य बोधवे। अफासुय पुढविमाई, फासुय छगणाइ दद्दरए। उदिन्नं द्विधा तथा पिहितोद्भिन्नं कपाटोद्भिन्नं च। तत्र यत् कुतुपादेः स्थगितं मुखं साधूनांतैलघृतादिदीयते तद्दीयमानं तैलादि पिहितोद्भिनं पिहितमुद्धिन्नं यत्र तत् पिहितोद्भिन्नमिति व्युत्पत्तेः / तथा यत् पिहितं कपाटमुद्भिद्य उद्घाट्य साधुभ्यो दीयते तत् कपाटोद्भि-नम्। व्युत्पत्तिः प्रागिव। तत्र पिहितोद्भिन्नं द्विधा तद्यथाप्रासुकम-प्रासुकंच सचेतनमचेतनं चेत्यर्थः / तत्राप्राशुकं सचित्तपृथिव्या-दिमयं प्राशुकं छगणादिदर्दरके तत्र छगणा गोमया आदिशब्दाद्भस्मादिपरिग्रहः दर्दरको मुखबन्धनवस्त्रखण्डम्॥ अत्र पिहितोद्भिन्ने दोषानभिधित्सुराह॥ उब्भिन्ने छकाया, दाणे कयविक्कए य अहिगरणे। ते चेव कवाडम्मि वि, सविसेसा जंतमाईसु॥ उद्भिन्ने पिहितोद्भिन्ने च दोषस्तदुद्भेदकाले षट्पृथिवीकायादयो विराध्यन्ते तथा प्रथमतः साधुनिमित्तं कुतुपादिमुखे उद्भिन्ने सति पुतादिभ्यस्तैलादिप्रदाने तथा क्रय विक्रयेचाधिकरणप्रवृत्तिरुप-जायते। तथा त एव षट्कायविराधनादयो दोषा कपाटेऽपि कपाटोद्भिन्नेऽपि सविशेषास्तुयन्त्ररूपकपाटादिषु द्रष्टव्याः। तत्र यान्यतीव संपुटमागतानि कुञ्चिकाया रोधाधान्ति यानि च दर्दरिकोपरि पिट्टणिकाया एकदेशवर्ती नि मालप्रवेशरूपद्वारे तानि यन्त्ररूपकपाटानि / आदिशब्दात्परिघादिग्रहः। संप्रत्येनामेव गाथां व्याचिख्यासुः प्रथमतः "उडिभन्ने छक्काया" इत्यवयवं व्याख्यानयन् गाथाद्वयमाह। सचित्तपुढविलितं,लेलुसितं वा विदाउमोलित्तं / सचित्तपुढविलेवो, चिरम्मि उदगं अचिरलित्ते॥ एवं तु पुष्वलित्ते, जे उल्लिंपाणे य ते चेव / ते मेउं उवलिंपइ, जमुई वा वि तावेउं / इह कुतुपादिमुखदर्दरकोपरि कदाचित्लेलुं लोष्टम्। शिला पाषाणखण्डं प्रक्षिप्य जलार्दी कृतसचित्तकायलिप्तं भवति / तत्र सचित्तः पृथिवीलेपः सचित्तः सन् चिरकालमप्यवतिष्ठते। उदकं त्वचिरलिप्ते अचिरकाललिप्ते संभवति किमुक्तं भवति यदि चिरकालसचित्तपृथिवीकायलिप्तमुद्भिद्यते तर्हिसचित्तपृथिवीकाय-विनाशोऽचिरलिप्तद्भिद्यमाने अप्कायस्यापि विनाशः / अचिरलिप्तमप्यत्रान्तर्मुहूर्तकालमध्यवर्ति द्रष्टव्यमन्तर्मुहूर्तानन्तरं तु पृथि-वीकायशस्त्रसंपर्कत उदकमचित्तीभवति / ततो न तद्विराधनादोषः। उपलक्षणमेतत् तेन त्रसादेरपि तदाश्रितस्य विनाशसंभवो द्रष्टव्यः एवमनेन प्रकारेण पूर्वलिप्ते साध्वर्थमुद्भिद्यमाने दोषा उक्ताः / एते एव पृथिवीकायादिविराधना दोषा उपलिप्यमानेऽपि कुतुपादिमु-खातैलघृतादिकं साधवे दत्वा शेषस्य रक्षणार्थं भूयोऽपि कुतुपादिमुखे स्थग्यमाने द्रष्टव्याः / तथाहि भूयोऽपि कुतुपादिमुखं सचित्तपृथिवीकायेन जलार्दीकृतेनोपलिप्यते ततः पृथिवीकायविराधना / अप्कायविराधना च पृथिवीकायमध्ये च मुद्गादयः कीटिकादयश्च संभवन्ति / ततस्तेषामपि विराधना / तथा कोऽप्यभिज्ञानार्थं कुतुपादिमुखस्योपरि जतुमुद्रां ददाति / तथा तेजस्कायविराधनापि / यत्राग्निस्तत्र वायुरिति वायुकायविराधना च / ततः पिहितोद्भिन्नेषट्कायविराधना। अमुमेवार्थ स्पष्टं भावयति। जह चेव पुय्वलित्ते कायादओ पुणो वि तह चेव। उवलिप्पंते काया, मुइंगाइं नवरि छठे। यथा चैव पूर्वलिप्ते कायाः पृथिवीकायादयो विराध्यन्ते तथा साधुभ्यस्तैलादिकं दत्वा भूयोऽपि कुतुपादेर्मुखे उपलिप्यमाने काया विराध्यन्ते / नवरं षष्ठे काये त्रसकायरूपे विराध्यमाना जन्तवः पृथिव्याश्रिताः मुइंगादयः पिपीलिकाः कुन्थ्वादयो दृष्टव्याः। संप्रति "दाणे कयविक्कय" इत्यवयवं व्याचिख्यासुराह / / परस्स तं देइ स एव गेहे, तेल्लं व लोणं व घयं गुलं वा / उग्घाडियं तम्मि करे अवस्सं, सविक्कयं तेण किणाइ अन्नं / / तस्मिन् कुतुपादिमुखे साध्वर्थमुद्घाटिते सति प्रवर्तते इति साधोः प्रवृत्तिदोषः। तथा च एते एव अहिगरण' मित्यवयवं वाचिख्यासु-राह॥ दाणकयविक्कए चेव, होइ अहिगरणमजयभावस्स। निवयंति जेय तहिं ये, जीवा मुइंगमूसाई॥ दानक्रये विक्रये चानन्तरोक्तस्वरूपं वर्तमाने साधोरयतभावस्य अयतोऽशुद्धाहारापरिहारकत्वेन जीवरक्षणरहितो भावोऽध्ययसा यो यस्य स तथा तस्याधिकरणं पापप्रवृत्तिरुपजायते / तथा तस्मिन् कुतुपादिमुखे उद्घाटिते ये जीवा मुइंगमूषकादयो निपतन्ति निपत्य च विनाशमाविशन्ति तदप्यधिकरणं साधोरेव संप्रति'ते चेव कवाडम्मी' त्यवयवं व्याचिख्यासुराह॥ जहेव कुंभाइसु पुष्वलित्ते, उन्मिजमाणे य भवंति काया। उल्लिप्पमाणे वि तहा तहेव, काया कवाडम्मि विभाणियव्वा। तथैव कुम्भादौ घटादौ आदिशब्दात् कुतुपादिपरिग्रहः / पूर्वलिप्ते उद्भिद्यमाने तथा उपलिप्यमाने कपाटे तद्विराधना भवति / जलभृते करकादौ लुप्यमाने भिद्यमाने वा पानीये प्रसप्तः प्रत्यासत्रचुल्लादावपि प्रविशेत् / तथा च सत्यग्निविराधना यत्र चाग्निस्तत्र वायुरिति वायुविराधना च / मुइंकादिविवरप्रविष्ट कीटिकागृहगोधिकादिसर्वविनाशे त्रसकायविराधना चेति / दानक्रयविक्रयाधिकरणप्रवृत्तिभावना च पूर्ववत्कर्तध्या। संप्रति "सविसेसण'' इत्यवयवं व्याचिख्यासुराह॥ घरकोइलसंचारा, आवत्तणयदुगाइहेट वरिं। नितिट्ठिए य अंतो, डिंभाई पेल्लणे दोसा // कपाटस्य सञ्चारात् संचलनात् गृहगोधिका उपलक्षणमेतत्कीटिकादुरादयश्च विराध्यन्ते तथा प्रासादस्याधो भूमिरूपा पीठिके-व पीठिका भूमिका तत्र अध उपरितले च कपाटैकदेशस्याधो व-तते तदाश्रिताः कुन्थुपिपीलिकादयो विनाशमश्नुवते। तथा उद्घाटिते कपाटे पश्चान्मुखं नीयमाने अन्तः स्थितस्य डिम्भादेः प्रेरणदोषाः शिरः स्फोटनादयो भवन्ति॥ संप्रत्यपवादमाह। घेप्पइ अकिंचियागम्मि, कवाडे पइदिणं परिवहति। अजउमुद्दिय गंठी, परिमुजइदहरो जाव // अकुशिकारहिते कुञ्चिाकदिविरहिते इत्यर्थः / तत्र हि किल पृष्ठ भागे उल्लालको न भवति / तेन न घर्षणद्वारेण सत्वविराधना / यद्वा "अब्भुइयागत्ति' पाठः। तत्र अकूजिकाके कूजिकारहिते अक्के कारारवे किमुक्तं भवति / यत् उद्धाट्यमानं कपाटं के काररावं करोति तद्धि क्रियमाणमूर्द्धमधस्तिर्यक् च घर्षन् प्रभूतसत्वव्यापादनं करोति। तेन तद्वर्जनम्। तस्मिन्नपि किं विशिष्ट इत्याह / प्रतिदिनं प्रतिदिवसं निरन्तरं प्रतिवहति / उद्धाट्यमाने दीयमाने चेत्यर्थः तस्मिन् प्रायो न गृहगोधिकादिसत्वाश्रयसंभवश्चिरकालमवस्थानाभावात् / इत्थं भूते कपाटे साध्वर्यमप्यु