________________ उप्पायण 864 - अभिधानराजेन्द्रः - भाग 2 उप्पायपडिवाय उप्पायण न०(उत्पादन) उद्-पद्-णिच्--ल्युट्-जनने, उत्पत्तिकरणे वाच०।"भवाणुवाएण परिगहेण, उप्यायणे रक्खणसन्निओगे" उत्पादने एते विषयादिपदार्थाः कथं मिलिष्य-न्तीति चिन्तने, उत्त०३४ अ०। उप्पायणं तिरिय न०(उत्पादनान्तर्थ्य) उत्पादनस्याविरहे, यथा निरयगतौ जीवानामुत्कर्षतोऽसंख्येयाः समयाः स्था०५ ठा०। उप्पायणा स्वी०(उत्पादना) उत्पादनमुत्पादना / मूलतः शुद्धस्वपिण्डस्यधात्रीत्वादिभिः प्रकारैरुपार्जने, प्रव०६७द्वा०। पिं० आव०। तस्या निक्षेपो यथानामंठवणा दविए,मावे उप्पायणा मुणेयव्वा। दवम्मि होइ,तिविहा, भावम्भिउसोलसपया / / उत्पादना चतुर्दा तद्यथा (नामंति) नामोत्पादना स्थपनोत्पादना द्रव्ये द्रव्यस्योत्पादना भावे भावस्योत्पादना च / तत्र नामस्थापने क्षुण्णे द्रव्योत्पादना च यावन्नो आगमतो भव्यशरीरद्रव्योत्पादना प्रागुक्तगवेषणादिरिव भावनीया / ज्ञशरीरभव्यशरीरव्यतिरिक्ता तु द्रव्योत्पादना त्रिधा सचित्तद्रव्योत्पादना अचित्तद्रव्यो-त्पादना मिश्रद्रव्योत्पादनाच। भावोत्पादना द्विधा तद्यथा आगमतो नोआगमतश्च / तत्र आगत उत्पादना शब्दार्थतस्तदोपयुक्तः नोआगमतो भावोत्पादना तु द्विधा तद्यथा प्रशस्ता अप्रशस्ता च / तत्र प्रशस्ता ज्ञानाद्युत्पादना अप्रशस्ता षोडशपदा वक्ष्यमाणधात्रीदूत्यादिषोडशभेदा। तत्र प्रथमतः सचित्तद्रव्योत्पादनां विभावयिषुराह|| आसूयमाइएहिं वालवयितुरंगवीयमाईहिं। सुयअसादुमाईणं, उप्पायणया उसचित्ता।। सुताश्चन्द्रमादीनां द्विपदचतुष्पदापदरूपाणामत्रादिशब्दः प्रत्येकमभिसंबध्यते सुतादीनामश्वादिनां द्रमुदीनां च यथा संख्यमासू- चादिभिरासूर्यमुपायादित्रिकमादिशब्दादाटकजलादि परिग्रहः / तथा बालचित्ततुरङ्गबीजादिभिश्च तत्र बालैः केशरोमादिभेदभिन्न-श्चितो व्याप्तो बालचितपुरुषो लोमशः पुरुष इति वयनात्। तुरङ्ग-बीजे च सुप्रसिद्धे। आदिशब्दात्तदन्यहेतुपरिग्रहः / या उत्पादना तथाहि केनचिनिजभार्याः कथमपि पुत्रासंभवे देवताया उपयादिति के नाप्युतुकालोके न स्वसंप्रयोगेण चसुतः पुत्रिका वा उत्पाद्यते। तथा निजधोटिकायाः परस्य भाटकप्रदानेन परघोटकमारोप्य तुरङ्ग उत्पाद्यते / एवं यथायोगं वलीवादिरपि तथा जलसेकेन बीजारोपणेन च द्रुमवल्ल्यादिः / तत इत्थं या दुमादीनामुत्पादना सा सचित्तद्रव्योत्पादना / संप्रत्यचित्तद्रव्योत्पादनां मिश्रद्रव्योत्पादनांच प्रतिपादयति। कणगरययाइयाणं, जहिट्ठधाउविहिया उ।। सचित्तमीसाउभंडाणं, दुपयाइकया उ उत्पत्ती॥ कनकरजतादीनां सुवर्णरुप्यताम्रादीनां यथेष्टधातुविहिता यथेष्टो यो यस्येष्टोऽनुक्तोऽपिलोहादिधातुस्तस्मात् विहिता कृता या उत्पत्तिः सा अचित्ता अचित्तद्रव्योत्पादना / तथा च द्विपदादीनां दासादीनां सभाड्यानां सालंकारादीनां चेतनप्रदानेन या कृता आत्मीयत्वेनोत्पत्तिः सा मिश्रा मिश्रद्रव्योत्पादना / तदेवमुक्ता द्रव्योत्पादना / संप्रति भावोत्पादनामाह भावे पसत्थ इयरा, कोहा उप्पायणा उ अपसत्था। कोहाइ जहा धायई-णं च नाणाइ उ पसत्था॥ भावे भावविषया उत्पादना द्विधा तद्यथा प्रशस्ता इतरा अप्रशस्ता। तत्र या क्रोधादीनां क्रोधादियुतधात्रीत्वादीनां च उत्पादना साऽप्रशस्ता यातु ज्ञानादेनिदर्शनचारित्राणामुत्पादनासा प्रशस्ता। इह वा प्रशस्तया भावोत्पादनयाधिकारः पिण्डदोषाणां वक्तुमुपक्रान्तत्वात् / सा च षोडशभेदा।। पिं०॥ उप्पायण संपायण-णिय्वत्तण मो य हॉति एगट्ठा / आहारस्सिहपगया, तीए दोसाइमे होंति // 10 // उत्पादनमुत्पादना एवं संपादना निर्वर्तना च / इह च पदत्रयेऽपि हस्वतामोकारश्च निपातः प्राकृतत्वाच शब्दः समुचये भवति स्युरेकार्था अनन्याभिधेयाः सर्वेषामेव एषामुत्पादनाबोधकत्यादेते शब्दा इति गम्यम्। सा च सचेतना चेतनाचेतनद्रव्यादिविषयत्वेनानेकविधेत्यत उच्यते आहारस्याशनादिरूपलक्षणत्वादस्य वस्त्रपात्रादिपरिग्रहः / इह पिण्डाधिकारे प्रकृता : प्रस्तुताः तद्दोषा धिकारात् (ता एत्ति) एतस्याः पुनरुत्पादनाया गृहस्थात्सकाशात्साधुना स्वार्थ भक्ताद्युपार्जनरूपा ये दोषा दूषणानि इमे इति वक्ष्यमाणतया प्रत्यक्षभूता भवन्ति स्युरिति गाथार्थः / तानेवनामतोदर्शयन्नाह "धातीतिणिमित्ते, आजीववणीमगे तिगिच्छाय। कोहे माणे माया, लोभे हवंति दस एते। पुट्विंपच्छासंथवविजामते य चुण्णजोगे य। उप्पायणाय दोसा, सोलसमेमूलकम्मे य"। पंचा० 13 विव० धात्र्यादिव्याख्यान्यत्र। एतेऽनन्तरोक्ता उत्पादनाया दोषाः षोडश / मूलकर्म वशीकरणम् / इह धात्र्याः पिण्डो धात्रीपिण्डः किमुक्तं भवतिधात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः / यस्तु दूतीत्वस्य करणेनोत्पाद्यते स दूतीपिण्डः। एवं निमित्तादिष्वपि भावनीयम् पिं०।०। उत्त०। स्था०। ग०। आचा०। जीत०। उत्पादनादोषेषु प्रायश्चित्तमभिधित्सुराह दुविहनिमित्ते लोभे, गुरुगा माया य मासियं गुरुयं / सुहुमे वयणे लहुओ, सेसे लहुगा य मूलं च // निमित्तं त्रिविधमतीतविषयं प्रत्युत्पन्नविषयमनागतविषयं च। तत्र द्विविधे निमित्ते प्रत्युत्पन्नविषये च तथा लोभेच प्रत्येकं चत्वारो-गुरुकाः / मायायां मासगुरु। सूक्ष्मे चैकित्स्ये वचनसंस्तवेच प्रत्येक लघुको मासः शेषेषु तु समस्तेषूत्पादनादोषेषु प्रत्येकं चत्वारो लघवो नवरं मूलकर्मणि मूलम्। वृ०१ उ०।उप्पायणाए अइए निमित्ते चउलहुं। पडुप्पन्ने अणागए लोभए चउगुरुं। कोहेमाणे चउलहुं। मायाए मासगुरुं। सुहमतेइस्थिपंचराइंदिया। बादरतेइत्थे चउलहुँ। संथवे मासलहुं / धाईहिं चउलहुँ / भोइयमेहुणियासंथवे चउगुरुं मूलं वा / वयणसंथवे मासलहुं / मूढकम्मे मूलं / सेसेसु चउलहुं उप्पाइणा पं०चू०। (जीतकल्पानुसारेणाचामाम्लं आयंबिलशब्दे चैतत्स्पष्टीकृतम्) उप्पायणाविसोहि स्त्री०(उत्पादनाविशुद्धि) उत्पादनादोधे पिण्डचरणादीनां निर्दोषतारूपे उत्पादनाया वा निर्दोषतालक्षणे विशुद्धिभेदे, स्था०३ ठा०। उप्पायणोवघाय पुं०(उत्पादनोपघात) उत्पादनयोपधातः पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमत्पादनोपघातः / उद् गमस्य वा पिण्डादिप्रसृतेरुपधातो धात्रीत्यादिभिर्दुष्टतोत्पादनोपघातः / धात्र्यादिदोषलक्षणया उत्पादनया चारित्रस्य विराधनरूपे धात्र्यादिभिः षोडशभिरुत्पादनादोषैर्भक्तपानोपकरणलेपानामशुद्धतालक्षणे वा उपघातभेदे, स्था० 10 ठा०। उप्पायपडिवाय पुं०(उत्पादप्रतिपात) विभागतो देशतो वा कस्यचिद्दस्तुनो वृद्धिहान्यु भये, विपा० 6 अ० / यथा अवधिज्ञानस्य। "बाहिरलंभो भञ्जो," दव्वे खेत्ते य कालाभावे या उ