________________ उप्पाय ५६२-अभिधानराजेन्द्रः - भाग 2 उप्पाय रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् / सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् / / शक्रायुधपरीवेषविधुच्छुष्कविरोहणम् / कम्पोद्वर्तनवैकृत्यं रसनं दरणं क्षितेः / / सरोनद्युदपानानां वृद्ध्यू ख़तरणप्लवाः / सरणं चाद्रिगेहाणां वर्षासु न भयावहम् / / दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् / नक्षत्राणां ग्रहाणां च दर्शनं च दिवाम्बरे / गीतवादित्रनि?षा वनपर्वतसानुषु / सस्यवृद्धिरपां हानिरपापा शरदि स्मृताः / / शीतानीलतुषारत्वं नर्दनं मृगपक्षिणाम्। रक्षोयक्षादिसत्वानां दर्शनं वागमानुषी / / दिशो धूमान्धकाराश्च सनभोवनपर्वताः / उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः। हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् / कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् / / चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्व मृगपक्षिषु / पत्राङ्करलतानां च विकाराः शिशिरे शुभाः / / ऋतुस्वभावजा ह्येते दृष्टाः स्वतौ शुभप्रदाः। ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः।। उन्मत्तानां च या गाथाः शिशूनां भाषितं च यत्। स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः॥ पूर्वं चरति देवेषु पश्चाद्गच्छतिमानुषान्। नाचोदिता वाग्वदति सत्या होषा सरस्वती। उत्पातान् गणितविवर्जितोऽपि बुध्वा विख्यातो भवति नरेन्द्रवल्लभश्च / एतन्मुनि-वचनं रहस्यमुक्तं यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी (46 अ०) दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च। प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण // भूयो वराहमिहिरस्य न युक्तमेतत् कर्तु समासकृदसाविति तस्य दोषः / तज्जैन वाच्यमिदमेव फलानुगीतिर्यद्वर्हिचित्रकमिति प्रथितं वराङ्गम्॥ स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम्।ब्रवीम्यहं नचेदिदं तथापि मेऽत्र वाच्यता / उत्तरवीथिगता द्युतिमन्तः, क्षेमसुभिक्षशिवाय समस्ताः। दक्षिणमार्गगता धुतिहीनाः, क्षुद्भयतस्करमृत्युकरास्ते॥ कोष्ठागा-रगते भृगुपुत्रे पुष्यस्थे च गिराम्प्रभविष्णौ / निर्वैराःक्षितिपाः सुख-भाजः संहृष्टाश्च जना गतरोगाः / / पीडयन्ति यदिकृत्तिका मघां रोहिणी श्रवणमैन्द्रमेव वा / प्रोज्झयसूर्यमपरे ग्रहास्तदा, पश्चिमा-दिगयनेन पीड्यते // प्राच्यां चेद्ध्यजवदवस्थिता दिनान्ते, प्राच्यानां भवति हि विग्रहो नृपाणाम् / मध्ये चेद्भवति हि मध्यदेश-पीडा, रूक्षस्तैर्न तु रुचिरैर्मयुखवद्भिः॥दक्षिणां ककुभमाश्रितैस्तुतैर्दक्षिणापयपयोमुचां क्षयः। हीनरूक्षतनुभिश्वविग्रहः स्थूलदेवकिरणान्वितैः शुभम् // उत्तरमार्गेस्पष्टमयुखाः शान्तिकरास्ते तन्नृपतीनाम् / ह्रस्वशरीरा भस्मसवर्णा, दोषकराः स्युर्देशनृपाणाम्॥नक्षत्राणां तारकाः सग्रहाणां, धूमज्वालाविस्फुलिङ्गान्विताश्चेत् / आलोकं वा निर्निमित्तं न यान्ति, याति ध्वसं सर्वलोकः स भूयः / / दिवि भाति यदा तुहिनांशुयुगं, द्विजवृद्धिरतीव तदाशु शुभा। तदनन्तरवर्णरणोऽर्क युगे जगतः प्रलयस्त्रिचतुःप्रभृति॥ मुनीनभि-जितंध्रुवं मघवतश्च भंसं स्पृशन्। शिखी धनविनाशकृत् कुशलकर्महाशोकदः / भुजङ्गभमथ स्पृशेद्भवति वृष्टिनाशो ध्रुवंक्षयं व्रजति विद्रुतो जनपदश्च वालाकुलः। प्रागद्वारेषु चरन् रविपुत्रो, नक्षत्रेषु करोति च वक्रम् / दुर्भिक्षं कुरुते भयमुग्रं मित्राणां च विरोधमवृष्टिम् / / रोहिणी शकटमर्कनन्दनो, यदि भिनत्ति रुधिरोऽथवा शिखी। किं वदामियदनिष्टसागरे, जगदशेषमुपयाति संक्षयम्॥ उदयति सततं यदा शिखी, चरतिभचक्रमशेषमेव वा। अनुभवति पुराकृतं तदा, फलमशुभं सचराचरं जगत्।। धनुःस्थायी रूक्षोरुधिरसदृशः क्षुद्रयकरो, वलोद्योगं चेन्दुः कथयति जयं ज्यास्य च यतः।। अवाक् शृङ्गो गोघ्नो, निधनमपिशस्यस्य कुरुते, ज्वलन्धूमायनवा नृपतिमरणायैव भवति।। / स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गश्चोदग्विचरन्नागवीथ्याम् / दृष्टः सौम्य रशुभैर्विप्रयुक्तो लोकानन्दनं कुरुतेऽतीव चन्द्रः / / पित्र्यमैत्रपुरुहूतविशा--खात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः / दक्षिणेन न शुभोहितकृत्स्यात्यधुदक्चरति मध्यगतो वा / परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा / परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः / / उदयेऽस्ते वा भानोर्ये दीर्घा रश्मयस्तेमोघास्ते / सुरचापखण्डमृजुयद्, रोहितमैरावतं दीर्घम् / / अस्तिमयात्सन्ध्या व्यक्तीभूता न तारका यावत्। तेजः परिहानिमुखाद्भानोरोदयं यावत्। तस्मिन् सन्ध्याकाले चिहैरे तैः शुभाशुभं वाच्यम्। सर्वरतेः स्निग्धैः सद्यो वर्षभयं रूक्षैः // अच्छिन्नः परिघो वियच विमलं श्यामामयूखा रवेः, स्निग्धा दीधितयः सितं सुरधनुर्विद्युच पूर्वोत्तराः / स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गितो वायदा, वृष्टिः स्याद्यदि वार्कमस्तसमये मेघो महाश्छादयेत् // खण्डो वक्रः कृत्स्नो ह्रस्वः काकाद्यैर्वा चिलैर्विद्धः / यस्मिन् देशे रूक्षश्चार्कस्तत्र ह्यभावः प्रायो राज्ञः / / वाहिनी समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सुतः। यस्य तस्य बलविद्रवो महान्, अग्रगैस्तु विजयो विहङ्गमैः / / भानोरुदये यदि वास्तमये, गन्धर्वपुरप्रतिमाध्वजिनी! बिम्वं निरुणद्धि तदा नृपतेः, प्राप्तं समरं सभयं प्रवदेत् // शस्ताशान्तद्विजमृगघुष्टा, सन्ध्या स्निग्धा मदुपवना च / पांशुध्वस्ता जनपदनाशंधत्ते रूक्षा-रुधिरनिभावा।। यद्विस्तरेण कथितं मुनिभिस्तदस्मिन् सर्वं मया निगदितं पुनरुक्तवर्जम् / श्रुत्वापि कोकिलरुतं वलिभुग्विरौति यत्तत्स्वभावकृतमस्य पिकं न जेतुम् / ४७अ०। एवमन्येऽप्युत्पाताः सन्ति विस्तरभयान्नोक्ता उत्पातविशेष मङ्गलकर्मवर्जनव्यवस्थादेशभेदेनाचारभेदेन चावगन्तव्या पीयूषधारायाम् अत्यावश्यककार्ये परिहारस्तत्रोक्तः ज्योतिर्निबन्धे / दिनानि पञ्चवसिष्ठ-स्विदिनं गर्गस्तु कौशिकस्त्वेकम् / यवनाचार्य्यस्य मते पञ्चमुहूतांश्च दूषयति / उत्पातेन ज्ञापिते च। ज्यो०। वाच०। *उत्पाद पुं० पद्-घञ्- उत्पादनमुत्पादः / कार्यस्योत्पत्तिहेतु भूते कार्यविशेषे, विशे०। प्रादुर्भाव, सूत्र०१ श्रु०१०। अथोत्पादस्य भेदान्कथयन्नाह। प्रयोगविश्रसाभ्यां स्या-दुत्पादो द्विविधस्तयोः। आद्योऽधिशुद्धो नियमात्समुदायविवादजः।।१६।। उत्पादो द्विविधो द्विप्रकारोऽस्ति / काभ्यां द्विविधः प्रयोगविश्रसाभ्याम् / एकः प्रयोगजनित उत्पादः।१। अपरो विश्रसाजनित उत्पादः ।२पुनस्तयोर्द्वयोर्मध्ये आद्योऽविशुद्धो व्यवहारोत्पन्नत्वात् / स च निर्धारणनियमात्समुदायवादजनितो यत्नेन कृत्वा अयवयसंयोगेन सिद्धः कथितः। तथा च सम्मतितर्के। उप्पाओ दुवियप्पो,पओगजणिओय विस्ससा चेव / तत्थ उपओगजणिओ, समुदयवाओ अपरिसद्धा||२६|| भेद उत्पादः पुरुषतरकारकव्यापारजन्यतया अध्यक्षानुमानाभ्यां तथा तस्य प्रतीतेः पुरुषव्यापारोऽन्वयव्यतिरेकानुव्यवधायित्वेऽपि शब्दविशेषस्य तदस्य तदजन्यत्वे घटादेरपि तदजन्यताप्रशक्तेर्विशेषाभावात्। प्रत्यभिज्ञानादेश्च विशेषस्य प्रागेव निरस्तत्वात्। तत्र प्रयोगेण यो जनित उत्पादो मूर्तिमद् द्रव्यारब्धावयवकृतत्वात् त्स समुदयवादः। तथा भूतारब्धस्य समुदायात्मकत्वात्तत एवासावपरिशुद्धः सावयवात्मकस्य तत्स्थस्य वाच्यत्वेनाभिप्रेतत्वात्। विरसा जनितोऽप्युत्पादो द्विविध इत्याह। साभाविओ वि समुदाय-कओवएगंति उव्वहोजाहि। आगासाईयाणं, तिण्हं परपचओ णियमा॥३०॥