________________ उप्पाय 861 - अमिधानराजेन्द्रः - भाग 2 उप्पाय यानबेरुत्पातान, गर्गः प्रोवाच तानहं वक्ष्ये / तेषां सङ्खपोऽयं, प्रकृतेरन्यत्वमुत्पातः / / अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति / संसूचयन्ति दिव्यान्तरिक्षभौमास्तदुत्पाताः / / मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् / तत्प्रतिघाताय नृपः, शान्तिं राष्ट्र प्रयुञ्जीत। दिव्यं ग्रहः वैकृतमुल्कानिर्घातपवनपरिवेषाः / गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् / / भौमं चरस्थिरभवं, तच्छान्तिभिराहतं शममुपैति / आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोकेषु / / पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः / दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्कपतनानि / संपर्यासनसादनसङ्गाश्च नृदेशपशुभेदाः / ऋषिधर्मपितृब्रह्मप्रोद्भूतं तद द्विजातीनाम् / / यदुद्रलोकपालोद्भवं पशूनामनिष्ट तत् / गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् // स्कन्दविशाखसमुत्थं माण्डलि-कानां नरेन्द्राणाम् / वेदव्यासे मन्त्रिणि विनायके वैकृते चमूनाथे / / धातरि सविश्वकर्माणि लोकाभावाय निर्दिष्टम् / देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत्स्यात् / / तत्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् / रक्षःपिशाचगुह्यकनागानामेतदेव निर्देश्यम्। मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः॥राष्ट्रयस्यानग्निः प्रदीप्यते दीयते च नेन्धवान्। मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया। जलमांसाम्रज्वलने नृपतिबधः प्रहरणेरणो रौद्रः / सैन्यग्रामपुरुषे च नाशो वह्वेर्भयं कुरुते / / प्रासादभवनतोरकेत्वादिष्वनलेदग्धेषु / तडितो वा षण्मामासात् परचक्रस्यागमो नियमात् / / धूमोऽननिसमुत्थो रजस्तमश्चाहिजं महाभयदम् / व्यभे निश्युडुनाशो दर्शनमपि चाहिदोषकरणम्।नगरचतुष्पादाण्डजमनुजाना भयकर ज्वलनमाहुः / धूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः / / आयुधज्वलनसर्पणस्वनाः कोशनिर्गमन-वेपनानि वा / वैकृतानि यदि वायुधेऽपराण्याशुरौद्ररणसंकुलं वदेत् / इत्यनि वैकृतम् / शाखाभङ्गेऽकस्माद् वृक्षाणां निर्दिशेद्रणोद्योगम्। हसने देशभ्रंशं रुदितेच व्याधिबाहुल्यम् / राष्ट्रविभेदस्त्वनृतौ बालबधोऽतीव कुसुमिते वाते / वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति। मद्ये वाहननाशः संत्रासः शोणिते मधुनि रोगः / स्नेहे दुर्भक्षभयं महद्भयं निःसृते ससिले // शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुधानाम् / पतितानामुत्याने स्वयं भयं दैवजनितं च / / पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपबधाय निर्दिष्टम् / धूमस्तस्मिन् ज्वालायवा भवेन्नृपबधायैव / / सर्पत्सु तरुषुवापिजनसङ्खयो विनिर्दिष्टः / वृक्षाणां वैकृत्ये दशभिर्मासैः फलविपाकः।। इति वृक्षवैकृतम् नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् / कथयतितदधिपतीनां यमलं जातंच कुसुमफलम्॥ अतिवृद्धिः शस्यानां नानाफलकुसुमभवो वृक्षे / भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् / / अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् अन्नस्य च वैरस्यं तदा च विन्द्याद्भयं सुमहत्॥विकृतं कुसुमफलं वा ग्रामादयवा पुरादहिः कार्याम्। इति शस्यवैकृतम्। दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम् / रोगो ह्यनृतुभवायां नृपबधाऽनभ्रजातायाम्। शीतोष्णविपर्यासे नोसम्यगृतुषु च संप्रवृत्तेषु / षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च // अन्यौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् / रक्ते शस्त्रोद्योगो मांसा स्थिवसादिभिर्मरकः / धान्यहिरण्यत्वक् फलकुसुमाद्यैर्वर्षितैर्भयं विद्यात् / अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् / / उपला विना जलधरैर्विकृता वा प्राणिनो | यदा वृष्टाः। छिद्रं वाप्यतिवृष्टौ शस्यानामीति सज्जननम्।। क्षीरभृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां वर्षे / देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् // यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा / देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम्॥व्यभ्रेनभसीन्द्रधनुर्दिवायदादृश्यतेऽथवा रात्रौ / प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत्।। सूयेन्दुपर्जन्यसमीरणानां योगः स्मृतोवृष्टिकारकाले॥ इति वृष्टिवैकृतम् / अपसर्पणा नदीनां नगरादिचिरेण शून्यतां कुरुते / शोषश्चाशोप्याणामन्येषां वा हृदादीनाम्॥स्नेहा सृग्मासवहाः सङ्कुलकलुषा प्रतीपगाश्चापि। परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् / / ज्वालाधूमक्काथारुदितोत्कृष्टानि चैव कूपानाम् / गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि / / तोयोत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम्। सलिलाशय-विकृती वा महद्भयं तत्र शुभकृत्यम् // इति जलवैकृतम् / / प्रसवविकारे स्त्रीणां द्वित्रिचतुः प्रभृतिसम्प्रसूतौ वा / हीनातिरिक्तकाले च देशकुलसङ्कयो भवति / / वडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे मरणभेषाम् / / इति प्रसववैकृतम्॥ परयोनावभिगमनं भवति तिरश्चामसाधुधेनूनाम्। उक्षाणां वान्योऽन्यं पिबति श्वा वा सुरभिपुत्रम्।। मासत्रयेण विद्यात् तस्मिन्निः संशयं परागमनम्॥ इति चतुष्पादवकृतम्।। यानं वाहवियुक्तं यदि गच्छेन्न व्रजेचन वाहयुतम्। राष्ट्र-भयं भवति तदा चक्राणां सादभने च।। अनभिहि ततूर्यनादः शब्दो वा ताडितेषु यदि नायात्। व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा / / गीतरवतूर्यनादा नभसि यदा वा चरस्थिरान्यत्वम् / मृत्यु-स्तदागदा वा विस्वरतूर्ये पराभिभवः / गोलाङ्गलयोर्भङ्गे दर्वीशूद्युपस्करविकारे।। क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम्। इति वायव्यवैकृतम्। पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति। पुरं नक्तं वा दिवसचरा क्षपाचरा वा चरन्त्यहनि / सन्ध्या द्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा / दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः / / श्वानः प्ररुदन्त इव द्वारे वा सन्ति जम्बुका दीप्ताः। प्रविशेन्नरेन्द्रभवनेकपोतकः कौशिकोयदिवा।। कुक्कुटरुतंप्रदोषे हेमन्तादौ च कोकिलालापः / प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः / / गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्गसंपाताः। मधु-वल्मीकाम्भोरुहसमुद्भवाश्चापि नाशाय / / स्वभिरस्थिशवावयव-प्रवेशनं मन्दिरेषु मरकाय / पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम्।। इति मृगपक्ष्यादिवैकृतम् // शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपात-भङ्गेषु / तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम्। सन्ध्याद्वयस्य दीप्तिधूमोत्पत्तिश्च काननेऽननौ। छिद्राभावे भूमेर्दरणं कम्पश्च भयकारी / / पाषण्डानां नास्तिकानां च भक्तः साध्वाचारप्रोज्झितः क्रोधशीलः। ईष्र्युः क्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः / प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः / निदगन्तः प्रहरन्ते तत्रापि भयं भवत्याशु / / अङ्गारगरिकायैर्विकृत-प्रेताभिलेखनं यस्मिन्। नायकचित्रितमथवा क्षये क्षयं यातिन चिरेण // लूतापटाङ्गशवलं नसन्ध्ययोः पूजितं कलहयुक्तम् / नित्योच्छिष्टस्वीकं च यद्गृहं तत्क्षयं याति / / दृष्टेषु यातुधानेषु निर्दिशेन्नरकमाशुसंप्राप्तम् / / इति शक्रध्वजेन्द्रकीलादि वैकृतम्॥ नरपतिदेशविनाशे केतोरुदयेऽथवा गृहेऽर्केन्दोः / उत्पातानां प्रभवः स्वर्तुभवश्चाप्यदोषाय / / ये च न दोषान् जनयन्त्युत्पातां स्तानृतुस्वभावकृतान् / ऋषिपुत्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तेः। व्रजाशनिमहीकम्पसन्ध्यानितिनिःस्वनाः। परिवेषरजोधूमरतास्तिमनोदयाः / / द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्माः / गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे / / तारोल्कापातकलुषं कपिलार्केन्दमण्डलम् / अनग्निज्ज्वलनस्फोटधूमरेण्वनिलाहतम् / /