________________ उप्पत्तिया 858 - अभिधानराजेन्द्रः - भाग 2 उप्पत्तिया गृहस्वामिनी द्वितीया तु वक्ति का त्वं ममैष पुत्रः ततोऽहमेवगृहस्वामिनीति / एवं तयोः परस्परं कलहे जाते राजकुले व्यवहारो जातः / ततोऽमात्यः प्रतिपादयामास निजपुरुषान् भो पूर्वद्रव्यं समस्तं विभज्य ततो दारकं द्वौ भागौ करपत्रेण कुरुत कृत्वा चैकं खण्डमेकस्यै समर्पयत द्वितीयं द्वितीयस्यै। तत एतदमात्यवाक्यं शिरसि महाज्वलासहस्रावलीढवजोपनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कम्पहृदयान्तः प्रविष्ठतिर्यशिलेव दुःखं वक्तुं प्रवृत्ता हे स्वामिन् ! महामात्य न ममैष पुत्रो न मे किचिदर्थेन प्रयोजनमेतस्या एव पुत्रो भवत्वियं गृहस्वामिनीच अहं पुनरमुंपुत्रं दूरस्थितापिपरगृहेषु दारिद्रयमपिकुर्वती जीवन्तंद्रक्ष्यामि तावताच कृतकृत्यमात्मानं प्रपत्स्ये। पुत्रेण विनापुनरधुनापि समस्तोऽपि मे जीवलोकोऽस्तमुपयाति इतरा च न किमपि वक्ति ततोऽमात्येन तां सुदुःखां परिभाव्य उक्तमेतस्याः पुत्रो नास्याइति।सैवच सर्वस्य स्वामिनी कृता द्वितीया तु निर्धाटिता अमात्यस्यौत्पत्तिकी बुद्धिः 18 भरहसिलमेढेत्यादिका च गाथा रोहक संविधानसूचिका सा च प्रागु-- तकथानकानुसारेण स्वयमेव व्याख्येया। (मधुसिक्केत्यादि) मधुयुक्तं सिक्थंतदृष्टान्तभावना कश्चित्कौलिकःतस्य भार्या स्वैरिणी सा चान्यदा केनापि पुरुषेण सह क्वचित्प्रदेशे जालिका-मध्ये मैथुनं सेवितवती मैथुनस्थितया च तया उपरि भ्रामरमुत्पन्नं दृष्ट क्षणमात्रानन्तरं च गृहे समागता। द्वितीये च दिवसे स्विभर्ता मदनं क्रीणस्तया निवारितो मा क्रीणीहि मदनं महत् भ्रामरमुत्पन्नं दर्शयामि / ततः सक्रयणाद्विनिवृत्तो गतौ च तौ द्वावपि तां जालिं न पश्यति सा कथमपि कौलिकी भ्रामरं न दृष्टवती ततो येन संस्थानेन मैथुनं सेवितवती तेन संस्थानेन स्थिता ततो भ्रामरं दृष्टवती दर्शयामास च कौलिकाय कौलिकोऽपि च तथारूपं संस्थानभव-लोक्य ज्ञातवान्नूनमेषा दुराचारिणी ति / कौलिकस्यौत्पत्तिकी बुद्धिः // 16 // (मुद्दियति) मुद्रिकोदाहरणं तद्भावना क्वचित्पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिर्यथा परकीयान्निक्षेपानादाय प्रभूतकाला-तिक्रमेऽपि तथास्थितानेव समर्पयतीति एतच ज्ञात्वा कोऽपिद्रमकः तस्मै स्वनिक्षेप समर्घ्य देशान्तरं प्रभूततरमगमत् प्रभूतकालातिक्रमे च भूयोप तत्रागतो याचते स्वं निक्षेपं पुरोधाश्च मूलत एवापलवति कस्त्वं कीदृशो वा तव निक्षेप इति। ततः स रङ्को वराकः स्वनिक्षेपमलभमानः शून्यचित्तोबभूव / अन्यदा च तेना-मात्यो गच्छन् दृष्टो याचितश्च देहि मे पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपमिति / तत एतदाकर्ण्य अमात्यः तद्विषयकृपापरीतचेताः बभूव / ततो गत्वा निवेदितं राज्ञः कारितश्च दर्शनं द्रमकोऽपि राज्ञा भणितः पुरोधा देहि तस्मै द्रमकाय स्वं निक्षेपमिति। पुरोहितोऽवादीत् देव! तस्याहं न किमपि गृह्णामि। ततो राजा मौनमधात्। पुरोधसि चस्वगृहंगते राजा विजनेतंद्रमकं पृष्टवान् रे कथय ! सत्यमिति ततस्तेन दिवसमुहूर्तस्थानपार्श्ववर्तिमानुषादिकं कथितम् ततोऽन्यदा राजा पुरोधसासमंन्तुं प्रावर्तत परस्परं नाममुद्रा संचारिता ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषहस्ते नामुमुद्रां समर्प्य तं प्रति वभाण रे पुरोधसो गृहे गत्वा तद्भायर्यामवंब्रूहि यथाऽहं पुरोधसा प्रेषितः इयं चनाममुद्राभिज्ञानं तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्रं नवलको द्रमकसत्कः त्वत्समक्षममुकप्रदेशे मुक्तोऽस्ति तं झटिति समर्पय तेन पुरुषेण तथैव कृतं सापिचपुरोधसो भार्या नाममुद्रांदृष्टाऽभिज्ञान मिलनतश्च सत्यमेष पुरोधसा प्रेषित इति प्रतिपन्नवती। ततः समर्पयामास तं द्रमकनिक्षेपं तेन पुरुषेणानीय राज्ञः समर्पितो राज्ञा चान्येषां बहूनां | नवलकानांमध्ये सद्रमकनवलकः प्रक्षिप्तः आकारितो द्रमकः / पार्चे चोपवेशितः पुरोधा द्रमकोऽपि तथात्मीयं नवलकं दृष्ट्वा प्रमुदितहृदयो विकसितलोचनोऽपगतचित्तसून्यताभावः सहर्ष राजानं विज्ञापयितुं प्रवृत्तो देव ! देवपदानां पुरत एवमाकारो मदीयो नवलकस्ततो राजा तस्मै समर्पयामास / पुरोधसो जिह्वाच्छेदमचीकरत्। राज्ञः औत्पत्तिकी बुद्धिः // 20 // (अंकत्ति) अङ्कदृष्टान्तभावना कोऽपि पावें रूपकसहस्रनवलक निक्षिप्तवान् तेन च निक्षेपग्राहिणा तं नवलकमधः प्रदेशे च्छित्वा कूटरूपकाणां संभृतः तथैव च सीवितः / ततः कालान्तरे तस्य पावन्निक्षेपस्वामिनास्वनिक्षेपो गृहीतः परिभावितः सर्वतः तथैव दृश्यते मुद्रादिकं तत उद्घाटिता मुद्रायावत्रूपकान्परिभावयति तावत्सर्वानपि कूटान्पश्यति ततो जातो राजकुलेन तयोर्व्यवहारः / पृष्टः कारणिकैर्निक्षेपस्वामी भोः कतिसंख्यास्तव नवलके रूपका आसीरन् सप्राह सहसंततोगणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलकः सच परिपूर्ण भृतः केवलं यावन्मात्रमधस्ताच्छिन्नस्तावन्नयून इति उपरि सीवितुं न शक्यन्ते ततो ज्ञातं कारणिकैः नूनमस्याऽपहृता रूपकाः ततो दापितो रूपकसहस्रमितरोनवलकस्वामिनः। कारणिकानामौत्प-त्तिकी बुद्धिः // 21 // (नाणत्ति) कोऽपि कस्यापि पार्श्वे सुवर्णपणभृतं नवलकं क्षिप्तवान्ततो गतो देशान्तरं प्रभूते च कालातिक्रान्ते निक्षेपग्राहीतस्मान्नवलकाज्जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् तावत्संख्याकान्तत्र प्रक्षिप्तवान् तथैवच सनवलकः तेन सीवितः ततः कतिपयदिनानन्तरं स नवलकस्वामी देशान्तरादागतः स्वं च नवलकं तस्य पार्श्वे याचितवान् सोऽपि समर्पयामास परिभावितं तेन मुद्रादिकं तथैव दृष्टम् / ततो मुद्रां स्फोटयित्वा यावत्पणान्प-रिभावयति तावद्धीनवर्णसुवर्णकमयान् पश्यति ततो बभूव राजकुले व्यवहारः पृष्ट च कारणिकैः कः कालः आसीत् यत्र त्वया नवलको मुक्त इति / नवलकस्वामी प्राह / अमुक, इति ततः कारणिकै रुक्तं स चिरन्तनकालोऽधुनातनकालकृताश्व दृश्यन्तेऽमी पणास्ततो मिथ्याभाषी नूनमेष निक्षेपग्राहीति दण्डितो दापिताश्च तस्य तावत्पणास्तमिति / कारणिकानामौत्पत्तिकीबुद्धिः // 22 // (भिक्खुत्ति) भिक्षूदाहरणं तद्भावना कोपि कस्यापि भिक्षोः पार्वे सुवर्णसहस्रं निक्षिप्तवान् कालान्तरे याचते स च भिक्षुर्न प्रयच्छतिके बलमद्यकल्ये वा ददामीति विप्रतारयति ततस्तेनद्यूतकारा अवलगितास्ततस्तैः प्रतिपन्नं निश्चितं दापयिष्यामः / ततो द्यूतकारा रक्तपटवेषेण सुवर्णखोटिकां गृहीत्वा समागता वदन्तिच वयं चैत्यवन्दनाय देशान्तरं यियासवो यूयं परमसत्यतापात्रमत एताः सुवर्णखोटिका युष्मत्पार्श्वे स्थास्यन्ति एतावतिचावसरेपूर्वं संकेतितःसपुरुषः आगत्य याचते स्म भिक्षो ! समर्पय स्थापनिकामिति ततो भिक्षुणाभिनवमुच्यमानसुवर्णखोटिका लम्पटतया समर्पिता तस्य स्थापनिका तस्मै / मा एतासामहमाभागीजायेयेति बुद्ध्या तेऽपिच द्यूतकाराः किमपि मिषान्तरं कृत्वा स्वसुवर्णखोटिकां गृहीत्वा गताः / द्यूतकाराणामौत्पत्तिकी बुद्धिः २३(चेडगानिहाणत्ति) चेटका बालकानिधानं प्रतीत दृष्टान्तभावना द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभावावन्यदा वदित्प्रदेशे ताभ्यां निधानमुपलेभे तत एको मायावी ब्रूते स्वस्तनदिने शुभे नक्षत्रे ग्रहीष्यामो द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्नम्। ततस्तेन मायाविना तस्मिन् प्रदेशे रात्रावागत्य निधानं गृहीत्या तत्रागारकाः प्रक्षिप्ताः ततो द्वितीयदिने तौ द्वावपि भूत्या गतौ दृष्टवन्तो तत्राङ्गारकान् / ततो मायावी मायया स्वोरस्ताडमाक्र--