________________ उप्पत्तिया 557- अभिधानराजेन्द्रः - भाग 2 उप्पत्तिया प्रत्यासन्नवतीं तं प्रति राजा निजदेवीं प्रशंसति अहो निरामया मे देवी या न कदाचिदपि वातनिसर्ग विदधाति / विटः प्राह देव ! न भवतीदं जातुचित् / राजा अवादीत् कथं विट आह देव धूर्ता देवी ततो यदा सुगन्धिपुष्पाणि चूर्णवासा त्वां समर्पयति नासिकाग्रे तदा ज्ञातव्यं वातं मुञ्चतीति ततोऽन्यदा राज्ञातथैव परिभावितं सम्यगवगते च हसितं ततो देवी हसननिमित्तकथनाय निर्बन्धं कृतवती ततो राजाऽतिनिर्बन्धे कृते पूर्ववृत्तान्तमचकथत्। ततश्चुकोप तस्मै विटाय देवी आज्ञप्तो देशत्यागेन। तेनापि जज्ञे नूनमकथयत् पूर्ववृत्तान्तं देवो देव्यास्तेन मे चुकोप देवी। ततो महान्तमुपानहां भरमादाय गतो देवीसकाशं विज्ञापयामास देवीम्। देवि ! यामो देशान्तराणि देवी उपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती किमेष उपानहांभरः / सोऽवादीत् देवि यावन्ति देशान्तराण्येतावतीभि रुपानदिर्गन्तुं शक्ष्यामि तावत्सु देव्याः कीर्तिर्विस्तारणीया तत एवमुक्ते मा मे सर्वत्राप्यपकीर्तिजयितेति परिभाव्य देवी बलात् तं धारयामास / विटस्यौत्पत्तिकी बुद्धिः // 11 // (गोलोत्ति) गोलकोदाहरणं तद्भावना लाक्षागोलकः कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः तन्मातापितरावतीव आर्ती बभूवतुः दर्शितो बालकः सुवर्णकारस्य तेन च सुवर्णकारेण प्रतापाग्रभागया लोहशलाकया शनैः 2 यत्नतो लाक्षागोलको मनाक् प्रताप्य सोपि समाकृष्टः सुवर्णकारस्यौत्पत्तिकी बुद्धिः।१२। (खंभत्ति) स्तम्भोदाहरणं तद्भावना। राजा मन्त्रिणमेकंगवेषयन्महाविस्तीर्णतटाकमध्ये स्तम्भमेकं निक्षेपयामास तत एवं घोषणां कारितवान् यो नाम तटस्थितोऽमुं स्तम्भ दवरकेण बध्नाति तस्मैराजा शतसहस्र प्रयच्छति तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कोलके भूमौ प्रक्षिप्य दवरकेण बध्वा तेन दवरकेण सह सर्वतस्तटे परिभ्राम्यन् मध्यास्थितं तं स्तम्भं बद्धवान् लोकेन च बुद्ध्यतिशयसंपन्नतया प्रशंसितो निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः तुतोष राजा ततस्तं राजा मन्त्रिणमकार्षी त् तस्य पुरुषस्यौत्पत्तिकी बुद्धिः १३(खुल्लत्ति) क्षुल्लको दाहरणं तद्भावना कस्मिश्चित्पुरे काचित्परिव्राजिका सा यो यत्करोति तदहं कुशककर्मा सर्व करोमीति राज्ञः समक्ष प्रतिज्ञा कृतवती राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास / तत्र च कोपि क्षुल्लको भिक्षार्थमटन पटहशब्द श्रुतवान् श्रुतश्च प्रतिज्ञार्थः तता धृतवान् पटह प्रतिपन्नो राजसमक्ष व्यवहारो गतो राजकुले क्षुल्लकस्ततस्तं लघुदृष्टा सा परिवजिकात्मीय मुखं विकृत्यावज्ञयाभिधत्ते कथय कुतो गिलामि तत एवमुक्ते क्षुल्लकः स्वंमेद्रं दर्शितवान्ततो हसितं सर्वैरपि जनैरुघुष्टं च जिता परिवजिका तस्या एवं कर्तुमशक्तत्वात्ततः क्षुल्लकः कायिक्या पद्ममालिखितवान् सा कर्तुं न शक्नोति ततो जिता परिवाजिका / क्षुल्लकस्यौत्पत्तिकी बुद्धिः / 14 (मग्गति) मार्गोदाहरणं तद्भावना कोऽपि पुरुषो निजभार्या गृहीत्वा वाहनेन ग्रामान्तरं गच्छति अपान्तराले च क्वचित्प्रदेशे शरीरचिन्तानिमित्तं तद्भार्यावाहनादुतीर्णवतीतस्यां च शरीरचिन्तानिमित्तं कियभूभागं गतायां तत्प्रदेशवर्तिनी काचित् व्यन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामातुरा तद्रूपेणागत्य वाहनं विलग्ना सा च तद्भार्या शरीरचिन्तां विधाय यावद्वाहनसमीपमागच्छति ताक्दन्यां स्त्रियमात्मसमानरूपां वाहनरूढां पश्यति सा च व्यन्तरी पुरुषं प्रत्याह एषा काचित् व्यन्तरी मदीय रूपमाचर्य्यतव सकाशमागच्छतिततः खेटय सत्वरं ततः स पुरुषः तथैव कृतवान्। सा चारटन्ती पश्चाल्लग्ना समागच्छति पुरुषोऽपितामारटन्तीं दृष्ट्वा मूढचेता मन्द 2 खेटयामास ततः प्रावर्तत तयो स्तद्वार्याव्य-- न्तॉर्निष्ठुरभाषणादिकः परस्परं कलहः ग्रामे च प्राप्ते जातः तयो राजकुले व्यवहारः पुरुषश्च निर्णयमकुर्वन्नुदासीनो वर्तते। ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो भणिते च द्वे अपि स्त्रियौ युवयोर्मध्ये या काचिदमुं प्रथम हस्तेन संस्पृक्ष्यति तस्याः पतिरेष न शेषायाः / ततो व्यन्तरी दूरतः हस्तं प्रसार्य प्रथमं स्पृष्टवती ततो ज्ञातं कारणिकैरेषा वयन्तरीति / ततो निर्धाटिता द्वितीया च समर्पिता स्वपतेः। कारणिकानामौत्पत्तिकी बुद्धिः 15 (इस्थित्ति) स्त्र्युदाहरणं तद्भावना मूलदेवकण्डरीको सह पन्थानं गच्छतः इतश्च कोऽपि सभार्याकः पुरुष तेनैव पथा गन्तुं प्रावर्तत कण्डरीकश्च दूरस्थितः तद्भागितमतिशायि रूपं दृष्ट्वा साभिलाषो जातः कथितं च तेन मूलदेवस्य यदीमा मे संपादयसि तदाहंजीवामि नान्यथेति ततो मूलदेवोऽवादीत मात्वरीभूरहं ते नियमतः संपादयिष्यामि। ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गतौ ततो मूलदेवः कण्डरीकमेकस्मिन्वनलिकुञ्ज संस्थाप्य पथिऊर्ध्वस्थितौ वर्तते ततः पश्चादायातः सभार्याकः स पुरुषो भणितो मूलदेवेन / भो महापुरुषः! महिलाया मेऽस्मिन्वननिकुञ्ज प्रसवो वर्तते ततः क्षणमात्रं निजमहिलां विसर्जय, विसर्जिता तेन आगता कण्डरीकपार्च ततः क्षणमात्रं स्थित्वा समागता। "आगंतूण य तत्तो, पडयं घेत्तूण मूलदेवस्स। धुत्ती भणइ हसंती, पियं खुणे दारओ जाओ" द्वयोरपि तयोरौत्पत्तिकी बुद्धिः / / 16 / / (पइत्ति) पतिदृष्टान्तः तद्भावना द्वयोभ्रत्रिोरेका भार्या लोके च महाकौतुकमहो द्वयोरप्येषा समानुरागेति एतच्च श्रुतिपरंपरया राज्ञाऽपि श्रुतं परं विस्मयमुपागतो राजा / मन्त्री ब्रूते देव ! न भवति कदाचिदप्येतदवश्यं विशेषः कोऽपि भविष्यति राज्ञोक्तं कथमेतदवसेयम्। मन्त्रीब्रूते देवाचिरादेव यथा ज्ञास्यते तथा यतिष्यते / ततो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा द्वावपि निजपती ग्रामद्वये प्रेषणीयावेकः पूर्वस्यां दिशि विवक्षितेग्रामेऽपरोऽपरस्यां दिशि। तस्मिन्नेव च दिने द्वाभ्यामपि गृहे समागन्तव्यम् / ततस्तया या मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि। पूर्वस्यां दिशि यो गतः तस्य गच्छतः आगच्छतश्च संमुखः सूर्यः / यः पुनरपरस्यां दिशि गतः तस्य गच्छतः आगच्छतश्च पृष्टतः एवं च कृते मन्त्रिणा ज्ञातमयं मन्दवल्लभोऽपरोऽत्यन्तबल्लभः। ततो निवेदितं राज्ञो राज्ञाचन प्रतिपन्न यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयो-ऽपरोऽपरस्यां दिशि / ततः कथमेष विशेषोऽवगम्यते ततः पुनरपि मन्त्रिणा लेखप्रदानेन सा महेलोक्ता द्वावपि निजपती तयोरेव ग्रामयोः समकं प्रेषणीयौ तया च तौ तथैव प्रेषितौ मन्त्रिणा च द्वौ पुरुषौ तस्या समीपे समकं तयोः शरीरापाटवनिवेदको प्रेषितौ द्वाभ्यामपिच सा समकमाकारिता ततो यो मन्दबल्लभशरीरपाटवनिवेदकः पुरुषस्तं प्रत्याहस देवो मन्दशरीरी द्वितीयोऽत्यातुरश्च वर्तते ततस्तं प्रत्यहं गमिष्यामि / तथैव कृतं ततो निवेदितं राज्ञो मन्त्रिणा प्रतिपन्न राज्ञा तथेति। मन्त्रिण औत्पत्तिकी बुद्धिः // 17 // (पुत्तत्ति) पुत्रदृष्टान्त तद्भावना कोऽपि वणिक् तस्य द्वे पत्न्यौ एकस्य पुत्रोऽपरा बन्ध्या परं सा पितं पुत्रं सम्यक्पालयति ततः स पुत्रो विशेषं न जानीते यथेयं मे जननी इयं नेति सोऽपि वणिक सभार्या पुत्रो देशान्तरं गतो गतमात्र एव परासुरभूत् ततोद्वयोरपि तयोः कलहोऽजायत / एका भणति ममैष पुत्रस्ततोऽहं