________________ उद्देसणकाल 843 - अभिधानराजेन्द्रः - भाग 2 उद्देसणा सह चूलिकाभिर्वर्त्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति प्रत्यध्ययनमुद्देशनकालानामेतावत्संख्यत्वात्तथाहि प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सप्त षट्चत्वारश्चत्वारः षट्पञ्च अष्ट चत्वारः सप्त चेति द्वितीयश्रुतस्कन्धे तु प्रथम-चूलिकायां सप्तस्वध्ययनेषु क्रमेण एकादश त्रयस्त्रयः चतुर्षु द्वौ द्वौ द्वितीयायां सप्तकसराणि अध्ययनान्येवं तृतीयैकाध्ययनामिका एवं चतुर्थ्यपीति सर्वमीलने पञ्चाशीतिरिति / सम०। उद्देसणा स्त्री०(उद्देसना) वाचनायाम, पाठने, पं०भा० / अन्या- 1 चार्योपाध्यायोद्देशना॥ (सूत्रम्) भिक्खू य इच्छिज्जा, अन्नं आयरियउवज्झायं विहरितए नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छे इयं वा आयरियउवज्झायं उद्दिसावित्तए कप्पइ से आपुच्छित्ता आयरिया जाव गणावच्छेइयं वा अन्नं आयरियउवज्झायं उहिसावित्तए ते से विपरिता एवं से कप्पइ अन्नं आयरियउवज्झायं उद्दिसावित्तए नो से कप्पइ तेसिं कारणं अदावित्ता अन्नं आयरियउवज्झायं उदिसावित्तए कप्पइसे तेसिं कारणं दीवित्तं अन्नं आयरियउवज्झायं उद्दिसावित्तए। अस्य व्याख्या प्राग्वत् / नवरमन्यदाचार्योपाध्यायमुद्देशयितुमाचार्यश्चोपाध्यायश्चाचार्योपाध्यायं समाहारद्वन्द्वः / यता आचार्ययुक्त उपाध्याय आचार्योपाध्यायः शाकपार्थिवत्वान्मध्यमपदलोपी समासः आचार्योपाध्यायावित्यर्थः तावन्यानुद्देशयितुमात्मन इच्छेत् ततो नो कल्पते अनापृच्छ्याचार्यं वा यावद्गणावच्छेदकंवा इत्यादि प्राग्वत् द्रष्टव्यम् तथात्वकल्पने तेषामाचार्यादीनां कारणमदापयित्वा अनिवेश्य अन्यमाचार्योपाध्यायमुद्देशयितुमात्मनो गुरुतया व्यवस्थापयितुमेष यद्यन्य आचार्य उद्दिश्यते तद्दर्शनार्थं गन्तव्यं चारित्रार्थं पुनरुद्देशेन पूर्व प्रागुक्त एव गमो भवति / अथवा तत्रैते आदेशा प्रकारा भवन्ति। आयरिओवज्झाए, ओसण्णोहाविते विकारगते। ओसण्णे छविहे खलु, वत्तमवत्तस्स मग्गणया।। आचार्य उपाध्यायो वा अवसन्नः संजातः अवधावितो वा गृहस्थीभूतः कालं गतो वा यद्यवसन्नस्ततः षड्विधो भवेत् पार्श्वस्थोऽवमग्नः कुशीलः संसक्तो नित्यवासी यथाच्छन्दश्चेति / यश्च तस्य शिष्य आचार्यपदयोग्यः स व्यक्तोऽव्यक्तो वा भवेत्तत्रेयं मार्गणा। वत्ते खलु गीयत्थे, अव्वत्ते वयण अहव अगीयत्थे। वत्तिच्छसारपेच्छण, अहवा सण्णे सयं गमणं / / अत्र चत्वारो भङ्गाः। तत्र वयसा व्यक्तः षोडशवार्षिकः श्रुतेन च व्यक्तो गीतार्थः / एष प्रथमो भङ्गः। वयसा व्यक्तः श्रुतेनाव्यक्तएषोऽर्थतो द्वितीयः / श्रुतेन व्यक्तः वयसा अव्यक्तः / अयमर्थतस्तृतीयः अव्यत्ते वयण अहव अगीयत्थति चतुर्थो भङ्गो गृहीतःस चायं वयसाऽप्यव्यक्तः श्रुतेन चाव्यक्त इति 4 तत्र प्रथमभङ्गे द्विधाऽपि व्यक्तस्य इच्छा अन्यमाचार्यमुद्दिशति तावत्तमासन्नीभूतमाचार्य सारयितुंसाधुःसंघाटकं प्रेषयति। अथासन्नः सआचार्यस्ततः स्वयमेवगत्वानोदयति नोदनायां चैवं कालपरिमाणम् / / एगाहपणगपक्खे, चाउम्मासोवरिस जत्थ वा मिलइ। चोयइ चोयवेइ वा, णेच्छंते सयं तु वढाओ। एकाहं नाम दिने गच्छो नोदयति एकान्तरितं वा तथा पञ्चाहं पश्चानां दिवसानामन्ते एवं पक्षे चातुर्मासे वर्षान्ते वायत्र वा समवसरणादौ मिलति तत्र स्वयमेव नोदयति अपरैर्वा स्वगच्छीयैर्नोदनं कारयति यदि सर्वथापि नेच्छति ततः स्वयमेव तंगणं वापयति। उद्विसइ व अन्नदिन्नं, पयावणट्ठा न संगहवाए। जइ णाम गारवेण वि, सुपज्जाणिच्छे सयं वाइ।। अथवा स उभयव्यक्तोऽन्यां दिशमपरमाचार्यमुद्दिशति / तय तस्यावसन्नाचार्यस्य प्रतापनार्थं न पुनर्गणस्य संग्रहोपग्रहनिमित्तं स च तत्र गत्वा भणति / अहमन्यमाचार्यमुद्दिशामि यदि यूयमितस्थानान्नोपरमध्ये ततः स चिन्तयेत् अहो अमी मयि जीवत्यप्यपरमाचार्य प्रतिपद्यन्ते मुञ्चामि पार्श्वस्थतां यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुश्चेत्ततः सुन्दरं अथ सर्वथा नेच्छत्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तिष्ठति गतः प्रथमो भङ्गः। अथ द्वितीयपदमाह। सुअवत्तो वयावत्तो, भणइ गणं तेन सारितुं सत्ता। सारेहिं सगणमेवं, अण्णं च क्याम आयरिअं॥ यः श्रुतेन व्यक्तो वयसा पुनरव्यक्तः स स्वयं गच्छं वर्तापयितुमसमर्थः / / ततः आचार्य भणति। अहमप्राप्तवयास्तेनत्वदीयं गणं सारयितुं न शक्तः / अतःसारय स्वगणमेनं अहं पुनरन्यस्य शिष्यो भविष्यामि अथवा अहमेते चान्यमाचार्यं व्रजामः उदिशामीत्यर्थः। आयरियउवज्झायं, निच्छंते अप्पणा य असमत्थे। तिगसंवच्छरपद्धं कुलगणसंघे दिसाबंधो॥ एवं भणित आचार्य उपाध्यायो वा यदि ने च्छति संयमे स्थातु सचात्मना गणं वापयितुमसमर्थः / ततः कुले सत्कमाचार्यमुपाध्यायं वा उद्दिशति / तत्र त्रीणि वर्षाणि तिष्ठति तमाचार्यं सारयति ततः त्रयाणां परमः स चिन्तादिकं कुलाचार्यो सूत्रार्थः। अथ भाष्यम्। सुत्तम्मि कट्टियम्मि, आयरियउवज्झाय उडिसा विति। तिण्हव्व उद्विसिज्झा, णाणे खलु दंसणचरित्ते। सूत्रे सूत्रार्थे आकृष्ट उक्तम् / नियुक्तिविस्तर उच्यते / आचार्यों - पाध्यायमभिनवमुद्देशयन् त्रयाणामर्थायोदिशेत् / ज्ञानार्थं दर्शनार्थ चारित्रार्थ चेति॥ नाणे महकप्पसुतं, सिस्सित्ते को पि उवगए। तस्सह उद्दिसिज्जा, साखलु सेच्छाण जिणआणा / / ज्ञाने तावदभिधीयते / केषांचिदाचार्याणां कुले गणे वा महाकल्पश्रुतमस्ति तैश्च गणसंस्थितिः कृतायोऽस्माकं शिष्यतया गच्छति तस्यैव महाकल्पश्रुते देयं नान्यस्य तत्रोत्सर्गतो नो गन्तव्यम् यद्यन्यत्र नास्ति तदा तस्य महाकल्पश्रुतस्यार्थाय तमप्याचार्यमुद्दिशेत्। उद्दिश्य वाऽधीते तस्मिन् पूर्वाचार्याणामेवान्तिके गच्छेन्न तत्र तिष्ठेत् / कुत इत्याह / सा खलु तेषामाचार्याणां स्वेच्छा न जिनाज्ञा नहि जिनैरिदं भणितं शिष्यतयोपगतस्य श्रुतं दातव्यमिति।। अथ दर्शनार्थमाह विजामंतनिमित्ते, हेऊ सत्तट्ठदंसणट्ठाए। चरित्तह पुथ्वगमो, अहव इमे हुंति आएसा॥ विद्यामन्त्रनिमित्तार्थं हेतुशास्त्राणांच गोविन्दनियुक्तिप्रभृतीनामर्थाय |