________________ उद्देसणा 844 -अमिधानराजेन्द्रः - भाग 2 उद्देसणा हरतीति कृत्वा गणाचार्यमुद्दिशति तत्र संवत्सरं स्थित्वा संघाचार्य-स्य दिग्बन्धं प्रतिपद्य वर्षार्द्ध षण्मासान् तत्र तिष्ठति / कुलगणाच संघं सं क्रामन्नाचार्यमिदं भणति। सचित्तादिहरंता, कुलंपि णेच्छाम जं कुलं तुज्झ। वचामो अण्णगणं, संघं च तुमं जइन वयसि // यत् त्वदीयं कुलं त्वदीया आचार्या अस्माकं वर्षत्रयादूज़ सचित्तादिकं हरन्ति अतः कुलमपि नेच्छामो यदि त्विदानीमपि न तिष्ठति ततो वयमन्यगणं संघंवा व्रजामः।। एवं पि अद्धीयंते, नाहेत्तअङ्गपंचमे वरिसे। संजमे व धारइगणं, अनुलोमेणं च सारे॥ एवमर्द्धपञ्चमे वर्षे पूर्वाचार्यो नोदनाभिः प्रतापितोऽपि यदि न तिष्ठति तत एतावता कालेन स श्रुतव्यक्तो वयमपि व्यक्ता जाता इति कृत्वा स्वयमेव गणं धारयति। यत्रच पूर्वाचार्य पश्यति तत्रानुलोमवचनैस्तथेव सारयति। अहव जइ अत्थि थेरा, सत्तापरिकट्टिऊण तं गच्छं। दुहा वत्तसरिसस्स, तस्स उगमो मुणेयवे / / अथवा यदितस्य श्रुतव्यक्तस्य स्थविरस्तंगच्छं परिवर्तयितुं शक्तस्ततः कुलगणसंघेषु नोपतिष्ठेत किन्तु स स्वयं सूत्रार्थी शिष्याणां ददाति / स्थविरास्तु गच्छं परिवर्तयन्ति एवं च द्विधा व्यक्तसादृश्यस्यास्य गमो ज्ञातव्यो भवतिगतो द्वितीयभङ्गः। अथ तृतीयं भङ्गमाह। वत्तवओ उ अगीओ, जइथेरा तत्थ केइ गीयत्था। ते मंतिए पढंतो, चोएइ असइ अण्णत्थ।। यो वयसा व्यक्तः परमगीतार्थस्तस्य गच्छे च यदि केऽपि स्थविरा गीतार्थाः सन्ति ततस्तेषां स्थविराणामन्तिके पठन्गच्छमपि परिवर्तयति अवसन्नाचार्य चान्तरतो नोदयति तेषां गीतार्थस्थ-विराणामभावे गणं गृहीत्वा अन्यत्रोपसम्पद्यते गतस्तृतीयो भङ्गः। अथ चतुर्थभङ्गमाह। जो पुण उभय अवत्तो, वडावग असइ सो उदिसई। सव्वे वि उद्दिसंता, मोत्तूणं उहिसंति इमे।।। यः पुनरुभयथा श्रुतेन वयसा वाव्यक्तस्तस्य यदि स्थविराः पाठयितारो। विद्यन्ते / अपरे च गच्छवपिकास्ततोऽसावपि नान्यमुद्दिशति। स्थविराणामभावेस नियमादन्यमुद्दिशति सर्वेऽपि भङ्गचतुष्टयवर्तिनोऽन्यमाचार्यमुद्दिशतोऽमून मुक्त्वा उद्दिशन्ति तद्यथा। संविग्गमगीयत्थं, असंविग्गं खलु तहेव गीयत्थं। असंविग्गमगीयत्थं, उद्दिसमाणस्सचउगुरुगा। संविनमगीतार्थमसंविग्नं गीतार्थमसंविनमगीतार्थं चेति त्रीनप्याचार्यत्वेनोद्विशतश्चतुर्गुरुकाः एतेन यथाक्रमं कालेन तपसा तदुभयेन चतुर्गुरुकाः कर्तव्याः / अथैवं प्रायश्चित्तवृद्धिमाह॥ सत्तरतं तवो होइ, तओ छेओ य हावई। तेणच्छिण्णपरीआए, तओ मूलं तओ दुर्ग / / एतानयोग्यानुदिशतो वर्तमानस्य प्रथम सप्तरात्रंचतुर्गुरु, द्वितीयं सप्तरात्रं षट्लघुतृतीयं षड्गुरु, चतुर्थ चतुर्गुरुकच्छेदः / पञ्चमंषट्-लघुकः षष्ठं षड्गुरुकस्ततएकदिवसे मूलं द्वितीये अनवस्थाप्यं तृतीये पाराश्चिकम्। अथवा षट्गुरुकतपोऽनन्तरं प्रथमत एव सप्तरात्रं षड्गुरुकच्छेदस्ततो मूलानवस्थाप्यपाराश्चिकानि प्राग्वत्। यद्वा तपोऽनन्तरं पञ्चकादिच्छेदः सप्तसप्तदिनानि भवन्ति तेषां प्रायश्चित्तं विज्ञाय संविनोगीतार्थः उद्देष्टव्यः / तत्रापि विशेषमाह। छट्ठाणविरहियं वा, संविग्ग वा वि वयइ गीयत्थं / चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा / / षभिः स्थानैर्वक्ष्यमाणैर्विरहितमपि संविग्नं गीतार्थ यदि स दोषकायिकादिसहितं न वदति आचार्यत्वेन उद्दिशति तदा चत्वारोऽनुद्घातास्तत्राप्याज्ञादयो दोषाः / इदमेव व्याचष्टे / / छट्ठाणाजोणियगो, तत्थ रहियकाइयाइ ता चउरो। तं विय उद्विसमाणो, छट्ठाणगयाण जे दोसा / / षट्स्थानानिनाम पार्श्वस्थः अवसन्नः कुशीलः संसक्तो यथाच्छ-न्दो नियतवासी चेति एतैः षभिर्विरहितो ये कथिकादयः कथिकप्राश्रिकनामाकसप्रसारकाख्याश्चत्वारस्तानप्युद्दिशतस्तएव दोषा ये षट्स्थानेषु पार्श्वस्थादिषुगतानां प्रविष्टानां भवन्ति। एष सर्वोऽप्यवसन्ने आचार्य विधिरुक्तः / अथावधावितकालगतयोर्वि-धिमाह // ओहावियकालगते, जो अव्वत्तो स उहिसावेत्ति। अन्नत्ते तिविहे वा, णियमा पुण संगहट्ठाए। अवधाविते कालगते वा गुरौ त्रिविधेऽपि प्रथमभङ्गवर्जे भङ्ग त्रये-ऽपि योऽव्यक्तः स यदा इत्थं भवति तदा अन्यमाचार्यमुद्देशयति अथवा त्रिविधेऽपि कुलसत्के गणसत्के संघसत्केवा चार्योपाध्याये आत्मना उद्देश कारयति स चाव्यक्तत्वान्नियमात् संग्रहोपग्रहार्थमेवोदिशति आचार्य गृहीभूतमवसन्नं वा यदा पश्यत्तदेत्थं भणति। ओहाविय ओसन्ने, भणइ अणाहो वयं विणा तुज्झे। कमसासमसागरिए, दुप्पडिएगंगतो तिण्हं / / अवधावितस्यावसन्नस्य वा गुरोः क्रमयोः शीर्ष सागारिके प्रदेशे कृत्वा भणति भगवन् अनाथा वयंयुष्मान् विना अतः प्रसीद भूयः संयमे स्थित्वा समाधीकुरु डिम्भकल्पान्नस्मान् / शिष्यः पृच्छति तस्य गृहीभूतस्याचारित्रस्य वा चरणयोः कथं शिरोविधीयते गुरुराहदुष्प्रतिकरं दुःखेन प्रतिकर्तुं शक्यं यतस्त्रयाणां तद्यथा मातापित्रोः स्वामिनो धर्माचार्यस्य च यदुक्तं "तिण्हं दुप्पडिआरं समणाउसो अम्मापिउस्स भद्दिस्स धम्मायरियस्स य इत्यादि / तत एवमवसन्नेऽवधाविते वा गुरौ विनयो विधीयते। किञ्च। जो जेण जम्मि ठाणम्मि, ठाविओ दंसणे व चरणे वा। सो तं तओ वुत्तंत-म्मिवि, काउं भवे निरणो॥ यो येनाचार्यादिना यस्मिन् स्थापितस्तद्यथा। दर्शने वा चरणे वा स शिष्यस्तं गुरुं ततो दर्शनाद्वाच्यते तत्रैव दर्शने चरणे या स शिष्यस्तं गुरु कृत्वा स्थापयित्वा अनृण ऋणमुक्तो भवति। कृत-प्रत्युपकार इत्यर्थः। अथ"कप्पइ तेसिं कारणं दीविता इत्यादि" सूत्रावयवं व्याचष्टे / तिस्सु वि दीवियकजा, विसजिता जइ अतत्थ तं णत्थि / णिक्खिवह वयंति दुवे, भिक्खुकिंदाणि निक्खिवत / / त्रिष्वपि ज्ञानदर्शनचारित्रेषु व्रजन्तो भिक्षुप्रभृतयो दीपितकार्याः पूर्वोक्तविधिना निवेदितवन्तः स्वप्रयोजनेन गुरुणा विसर्जिता गच्छन्ति / यदि च तत्र गच्छे त दवसन्नादिकं कारणं नास्ति तत उपसंपद्यते नान्यत्रेति। (सूत्रम्) गणावच्छेदइए य इच्छिज्जा अन्नं आयरियउवज्झायं