________________ उद्देस 836 - अभिधानराजेन्द्रः - भाग 2 उद्देस कप्पं कुणइ अकप्पं, विविहेहि य रागदोसेहिं / / अशुचिर्द्विधा द्रव्यतो भावतश्च / तत्र योऽशुचिना लिप्तगात्रो यो वा पुरीषमुत्सृज्य पुतौ न निर्लेपयति स द्रव्यतोऽशुचिः / भावे भावतः पुनरशुचिराहारबन्धनादिभिर्विविधैर्वा रागद्वेषैः कल्प्यमप्यकल्प्यं करोति। किमुक्तं भवति / आहारोपधिशय्यादिनिमित्तं वन्दननीचैर्वृत्त्यादिना वा तोषितो यदि वा एष मम स्वगच्छसंबन्धी स्वकुलसंबन्धीति रागतोऽथवा न मामेष वन्दते विरूपं वा भाषितवानित्यादिद्वेषतोऽयं श्रुतोऽयं श्रुतोपदेशेनाभाव्यमनाभाव्यं करोति / अनाभाव्यमप्याभाव्यं सोऽव्यवहारी भावतोऽशुचिः। एतदेव सुव्यक्तमाह। दवे भावे असुती, दिव्वम्मीचिट्ठमादिलित्तो उ। पाणतिवायादीहि उ, भावम्मि उ होइ असुईओ।। अशुचिर्द्विधा द्रव्ये भावे च तत्र द्रव्ये विष्ठादिना लिप्त आदिशब्दान्मूत्रश्लेष्मादिपरिग्रहः / भावे प्राणातिपातादिभिर्भवत्यशुचिः।। तप्पत्तियमेतेसिं,आयरियादी न देंति जा जीवं। के पुण भिक्खुइमे य, बहुस्सुयमादिणो हुंति॥ तत्प्रत्ययं मायावित्वादिप्रत्ययं येषां भिक्षुप्रभृतीनां यावज्जीवमाचार्यादीनि भावप्रधानोऽयं निर्देशः / आचार्यत्वादीनि न ददाति। के पुनस्ते आह। भिक्षुक उपलक्षणमेतत् गणावच्छेदकाचार्योपाध्यायाश्च सूत्रोक्ता न के वलमेते किं त्विमे च बहुश्रुतादयो भवन्याचार्यादिपदानामनर्हास्तानेव नियुक्तिकृदाह।।। अबहुस्सुते य ओमे, पडिसेवओ यतो अप्पचिंते य। निरवेक्खपमत्तमाइ-अणरिहे जुंगिए चेव।। अबहुश्रुतोऽवमः प्रतिसेवको यतः आत्मचिन्तकः निरपेक्षः प्रम-तोमायी अनर्हो जुङ्गि कश्च / एते सूरित्वादिपदानामनर्हाः / सांप्रतमेतानेव व्याचिख्यासुराह। अबहुस्सुतो पकप्पो, अणहीओमा तिवरिसरओ। निकारणे वि भिक्खू, कारणपडिसेवते जो उ। अन्भुज्जयअप्पचिंतो, निरवेक्खो बालमादीसु। अन्नयरपमायजुत्तो, असय्वरुची होइमाईओ। अवलक्खणा अणरिहा, उजावाहादि अजो जुवत्ता।। चउरो य जुंगिया खलु, अचंति य भिक्खुणा एते॥ अबहुश्रुतो नाम येनाचारप्रकल्पो निशीथाध्ययननामकः सूत्रतोऽर्थतश्च नाधीतः अवमो नाम आत्रिवर्षरतो यस्य प्रव्रज्यापर्यायण त्रीणि वर्षाणि नाद्यापि परिपूर्णानीत्यर्थः / प्रतिसेवको नाम यो भिक्षुः निष्कारणेऽपि कारणाभावेऽपि पश्शकादीनि प्रायश्चित्तस्थानानि प्रतिसेवते / आत्मचिन्तको योऽभ्युद्यतमरणं वा प्रतिपत्तुं निश्चितो निश्चितवान् निरपेक्षो वालादिषु चिन्तारहितः प्रमत्तः पञ्चानां प्रमादानामन्यतरेण प्रमादेन युक्तः असत्ये मृषाभाषणे असंयमे वा रुचिर्यस्यासावसत्यरुचिर्भवति। मायी किमुक्तं भवत्यभीक्ष्णं मायाप्रतिसेवनशीलो मायीति अपलक्षणं येषामाचार्यलक्षणानि न विद्यन्ते ये च पूर्वमुक्ता अत्यवधावनादय एते सर्वेऽनर्हाः। जुङ्गिका जातिकर्मशीलशरीरभेदतश्चतुर्धा। एतेऽपि प्रागुक्ता एते सर्वेऽपि भिक्षवोऽत्यन्तमाचार्यत्वादिपदानामनर्हाः। यदि पुनर्बहुश्रुतो भवेत् अवमोऽपि त्रिवर्षपर्यायोत्तीर्णः प्रतिसेवकोऽप्यप्रतिसेवकोऽग्रतोऽन्ययतनातः प्रतिविरतो निरक्षेपः सोपेक्षाभूतः प्रमत्तोऽप्यप्रमत्ततामुपगतस्तदा भवन्त्येतेऽप्याचार्यत्वादिपदानां योग्याः। संप्रति सप्तानामपि सूत्राणां संभवविषयमाह। अहवा जो आगाढ, वंदणआहारमादि संगहितो। कप्पं कुणइ अकप्पं, विविहेहि य रागदोसेहिं।। माई कुणइ अकलं, को माई जो भवे मुसावाई। को पुण मोसावाई, असुई पावसुयजीवी।। अथवेति सूत्रव्याख्या प्रकारान्तरोपदर्शने यो वन्दनादिभिः वन्दनवैयावृत्त्यादिना आहारादिभिराहारोपधिशय्यादिभिरागाढमत्यर्थ संगृहीतः सन् विविधैश्च रागद्वेषैः प्रामुक्तस्वरूपैः कल्प्यमप्याभाव्यमप्यकल्प्यमनाभाव्यं करोति / सप्तानामपि सूत्राणां विषयः (माई कुणइ इत्यादि) कः पुनरेवमकार्य कल्प्यमप्यनाभाव्यमकल्प्यमप्याभाव्यमित्यर्थः करोति एवं शिष्यस्य प्रश्नमाशक्य सूत्रकृदाह। मायी मायावान् को मायी तत आह यो भवेत् मृषावादी कः पुनः मृषावादी ततआह अशुचिः कोऽशुचिः सूत्रकृदाह पापजीवीएतस्य व्याख्यानं पापश्रुतोपजीवी कोटलादिशास्त्रोपजीवीत्यर्थः। किह पुण कन्जमकजं, करेज्ज आहारमादिसंगहितो। जह कम्मिवि नगरम्मा उप्पण्णं संघकजं तु। कथं पुनराहारादिसंगृहीतः सन् कार्यमुपलक्षणमेतत् आचार्यमपि कार्य करोति / अत्र सूरिनिदर्शनमाह / यथा कस्मिंश्चिन्नगरे किमपि सङ्घ कार्यमुत्पन्नं सचित्तादिनिमित्तं वास्तव्यसङ्घस्य व्यवहारो जात इत्यर्थः / स च वास्तव्यसङ्घन छेत्तुंन शक्यते॥ (अन्यदत्रत्यं ववहारशब्दे) एतद्गुणविप्रमुक्ते पुनर्व्यवहरति सुमहती आशातना व्रतलोपश्च तथा चाह आगाढमुसावादी, वितियतइएउलोवतिवएउ। माई य पावजीवी, असुईकिन्ने कणगदंडे / / आगाढेकुलकार्ये संघकार्येवा आभाव्यस्य वाऽनाभाव्यस्य वा ज्ञानतया रागद्वेषाभ्यां वा भणनात् / मृषा वदतीत्येवं शीलः आगाढे मृषावादी द्वितीयतृतीये मृषावादादत्तादानविरतिरूपे व्रते लोपयति / तत्र द्वितीयव्रतलोपो मृषावादभणनात् तृतीयव्रतलोपो ऽनाभाव्यं ग्राहयतोऽनुमतिदोषभावात् / तुशब्दात् शेषाण्यपि व्रतानि लोपयति / एकव्रतलोपे सर्वव्रतलोप इति वचनात् / मायी सूत्रमुल्लड्घ्य शठोत्तरैर्व्यवहारकरणात् / पापजीवी दुर्व्यवहारादिकरणात् / परदत्तापहाराण्युपजीवनात्। अत एवाशुचिर्भूषावादित्वादिदोषदुष्ट-त्वात्। अशुचित्वादेव यथा कनकदण्डः संज्ञालिप्तः स्प्रष्टुं न कल्पते एवमेषोऽपि नकल्पते यावज्जीवमाचार्यत्वादिषुपदेषु स्थापयितुमिति / / व्य०३ उ०। (गणान्तरे उद्देशना उद्देसणा शब्दे) नव्यतिकृष्टादिशमुद्दिशेत्॥ (सत्रम्) णो कप्पति णिग्गंथीणं वितिकिट्ठयं दिसंवा उद्दिसित्तए वाधारित्तए वा कप्पति णिग्गंथाणं वितिगिट्ठियं दिसंवा अदिसं वाउदिसित्तए वा धारित्तए वा।। न कल्पते निर्ग्रन्थीनां व्यतिकृष्टामतिशयेन क्षेत्रतो भावतश्च विकृतां दिशमनुदिशं वा उद्देष्टुमनुज्ञातुं नापि स्वयं धारयितुं वा इत्येष सूत्रद्वयाक्षरार्थः। संप्रति भाष्यम्। दुविहं पिय वितिगिठें, णिगंथीणुदिसंति चउगुरुगा। आणाइणो य दोसा, दिटुंतो होइ कोसलए॥ द्विविधामपि विकृष्टां क्षेत्रविकृष्टां भावविकृष्टां चेत्यर्थः / निर्ग