________________ उद्देस 837 - अभिधानराजेन्द्रः - भाग 2 उद्देस वर्तिनीनां तिसृणामप्यभावे न संग्राहकमाचार्यमुपाध्यायं प्रवर्ति-नीं च उद्देशापयेत् दोषासंभवात् आचार्यादिष्ववधावितेषूद्देशः (सूत्रम्) भिक्खू गणाओ अवकम्म मेहुणधम्म पडिसेविञ्जा तिण्णि संवच्छरायं तस्स तप्पतियं णो कप्पइ आयरियत्तं वा उवज्झायं जाव गणावच्छेयत्तं वा उद्दिसित्तएवाधारित्तए वा तिहि संवच्छरेहिं वीतिकंतेहि चउत्थगंसिसंवच्छरंसि पट्ठियंसि उट्ठियंसि ठियंसि उवसंतस्स पडिविरयस्स निविगारस्स एवं से कप्पइ आयरियत्तं वा गणावच्छेयत्तं उधिसित्तए वा धारित्तए वा १३गणावच्छेइयत्तं वा अणिखिवित्ता मेहुणधम्म पडिसेवेज्जा जाव तस्स तप्पतियं नो से कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उहिसित्तए वा धारित्तए वा / 14 / गणावच्छेयए गणावच्छेइयत्तं णिक्खिवित्ता मेहुणधर्म पडिसेविजा तिण्णि संवच्छरायं तस्स तप्पतियं णो कप्पइ आयरियत्तं वा जाव उहिसित्तए वा धारित्तए वा तिहिं संवच्छरेहिं वितिकतेहिं चउत्थयंसि संवच्छरंसि पवियंसिपट्ठियंसि उवट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स निविगारस्स एवं से कप्पड़ आयरियत्तं वागणावच्छेइयत्तं वा उद्दिसित्तएवाधारित्तए वा।१५॥ एवं आयरियउवज्झायगाविदो आलावगा।१६।१७। अथास्य सूत्रस्य कः सम्बन्धस्तत आह। नवतरणे मेहुण्हं, कोई सेवेन्ज एस संबंधो। अचंतभक्खणादि-व्वसंगहो एत्थ विसए वा।। अप्परियाए विगणो, दिवइ वुत्तंति मा अतिपसंगा। सेवियमपुण्णपञ्जय, दाहिति गणं अतो सुत्तं / पूर्वसूत्रे नवतरुणादिकः साधुरुक्तस्तत्र कोऽपि नवतरुणो मोहोदयवशात् मैथुन सेवते कृतमैथुनसेवाकस्य च यथाऽऽचार्यत्वादिकमुद्देष्टव्यं तथाऽनेन सूत्रेण प्रतिपाद्यते इत्येष सूत्रसम्बन्धः / अब्रह्मणादेखैतोरब्रह्मरक्षणादिनिमित्तं संग्रहः / आचार्यादिकोऽनन्तरसूत्रेऽभिहितः अत्रापि स एव संग्रहोऽभिधीयते इति / अथवा पूर्वतरेषु सूत्रेषु अपर्यायेऽपि गणो दीयते इत्युक्तं तद्दिवसाचार्यादिपदानुज्ञानात्त एतत् श्रुत्वा मा अतिप्रसङ्गान्मैथुनं सेवित्वा अपूर्णे पर्याय गणं दास्यन्ति तत एतन्निवारणार्थमिदं सूत्रम् / अनेन सम्बन्धेनायातस्यास्य व्याख्या। भिक्षुर्गणादपक्रम्य मैथुनं प्रतिसेवते तस्य त्रीणि संवत्सराणि याक्त्तत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पते आचार्यत्वमुपाध्यायत्वं यावत्करणात्प्रवर्तित्वं स्थविरत्वमिति परिग्रहः ! गणावच्छे दित्वं वा उद्देष्टुमनुज्ञातुमतोऽपितस्य कल्पते स्वयंधारयितुं किन्तु त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते प्रवर्तितुमारब्धवति तच प्रस्थितत्त्वमभिमुखीभवनमात्रेऽपि भवति तत आह। अस्थिते अवर्तमाने स्थितस्य वर्तमानस्य किं विशिष्टस्य सत इत्याह / उपशान्तस्य उपशान्तवेदोदयस्य तचोपशान्तत्वं प्रवृत्तिनिषेधादवसीयते तत आह उपरतस्य मैथुनप्रवृत्तेः प्रतिनिवृत्तत्वं दाक्षिण्यवशादिमात्रतोऽपि भवति / तत आह मैथुनेच्छाप्रातिकूल्येन विरतः तस्य तदपि च प्रतिविरतत्वं विकारादर्शनतोऽपि मैथुनाभिलाषहेतुकविकाररहितस्तस्य कल्पते | आचार्यत्वं यावत् गणावच्छेदित्वं वा उद्देष्टुं वा धारयितुं वा एष सूत्रसंक्षेपार्थः / ___व्यासार्थं तु भावतो भाष्यकृदाह। दुविहो साविक्खियरो, निरवेक्खो उदिण्ण जाइजयणाए। जोगं च अकाऊणं, जाव स वेस्सादि सेवेखा। द्विविधो द्विप्रकारः खलु मैथुनप्रतिसेवकस्तद्यथा सापेक्ष इतरश्च तरो निरपेक्षः तत्र निरपेक्षो य उदीर्णे वेदोदये यो वा याति योगं यतनया योगमकृत्वा यदि वा स वेश्यादिका सेवेत / एष त्रिविधोऽपि निरपेक्षः गुरुतीर्थकरापेक्षारहितत्वात्।। सावेक्खो उ उदिण्णे, आपुच्छे गुरुं तु सो जति उवेक्खे। ता चउगुरुगा भवति, सीसो व अणापुच्छए गच्छे / / यदि पुनरुदीर्णे उदयप्राप्ते मोहे उदिते वेदे इत्यर्थः / गुरुमापृच्छति समापेक्षः सह अपेक्षा यस्यास्तिस समापेक्ष इति व्युत्पत्तेः / तत्रापृच्छायां यदि स गुरुरुपेक्षां कुरुते ततस्तस्य प्रायश्चित्तं चतुर्गुरुका भवन्ति। सच साधुरनापृच्छ्य गुरुं याति तर्हि तस्यापि प्रायश्चित्तं चतुर्गुरुकाः / सा च पृच्छा त्रीन्वारान्कर्तव्या। तथा चाह। अहवा सइ दो वावी, आयरिए पुच्छ अकडजोगीवा। गुरुगा तिण्णि उवारे, तम्हा पुच्छेज आयरिए।। अथवा। सकृदेहं वारं यद्याचार्यान् पृच्छति तथापि प्रायश्चित्तं चतुर्गुरुकाः अथ द्वौ वारौ पृच्छति न तृतीयमपि वारं तदापि चतुर्गु-रुकाः / अथवा वारत्रयपृच्छायामपि कृतायां यदि अकृतयोगी यतनायोगमकृत्वा गच्छति तदानीमपि चतुर्गुरुकाः / यत एवमेकं द्वौ वा वारौ पृच्छायां प्रायश्चित्तं तस्मात्त्रीन् वारान् आचार्यान् पृच्छेत् लोकेऽपि तथा दर्शनात्तथा चाह। बंधे य घाते य पमारणे य, दंडेसु अन्नेसु य दारुणेसु / पमत्तमत्ते पुण चित्तहेउं, लोए वि पुंछति उ तिण्णि वारे॥ राज्ञा बंधे आदिष्ट यदिवाघाते प्रहारे अथवा प्रमारे कुमरणमारणे अन्येषु च दण्डेषु हस्तपादच्छेछादिषु दारुणेष्वादिष्टषुलोके त्रीन् वारान् राजा पृच्छ्यते / किमर्थमित्यत आह प्रमत्तेनव्याक्षिप्तेन यदि वा मद्यपानेन मत्तेनादिष्टं भवेत् प्रशान्तस्य पुनश्चित्तमुपजायते। यथा मा मार्यतामिति वारत्रयमनापृच्छायां स रुष्यते किमिति स मारित इति। एवं यथा राजा केनापि त्रीन् वारान् पृच्छयते तथा-ऽचार्योऽपि।। आलोइयम्मि गुरुणा, तस्स चिकिच्छा विहीए कायव्या। निविगितिगयादीया, नायव्वा कमेणिमेणं तु॥ आलोचिते वारत्रयमापृच्छायां कृतायां गुरुणा आचार्येण तस्योदितवेदस्य साधोर्विधिना चिकित्सा कर्तव्या सा चिकित्सा निर्विकृतिकादिका क्रमेणानेन वक्ष्यमाणेन ज्ञातव्या तमेव क्रममाह। निव्वायडिय अवमोदरिय, वेयावच्चे तहेव ठाणे य। वाहिंडणे य मंडलि-चोयगवयणं व कप्पट्ठी॥ प्रथमतो निर्विकृतिकं कारयितव्यः तत्र यदि निर्विकृतिकं तपः कुर्वतो नोपशाम्यति वेदस्तहि निर्विकृतिके नावमौदर्य कारयितव्यं तथाप्यनुपश्याम्यति ततश्चतुर्थादिकं कार्यन्ते तथाप्यतिष्ठति वैयावृत्त्यं कारणीयं वैयावृत्त्येनाप्यतिष्ठति स्थानेन ऊर्द्धस्थानेन तिष्ठति तथाप्यनुपशाम्यति आहिंडनं कार्यते। देशकाहिण्डकानां सहायो दीयते इत्यर्थः / तत्र यदि एष परिश्रमणोपशान्तो भवति वेदस्ततः सुन्दरमय नोपशाम्यतिततो यदि सबहुश्रुतस्तर्हिससूत्रमण्डली चदाप्यते। अत्रार्थे चोदक्वचनंयथा किमर्थसमण्डलींदाप्यते। सूरिराहादृष्टान्तोऽत्रकप्पट्ठीति