________________ उद्देस 835 - अभिधानराजेन्द्रः - भाग 2 उद्देस स्थानप्रतिसेवनात् एवं तावत् यावच्चतुर्गुरुकमसंप्राप्तः / तथापि से तस्योत्पादयति। एवमेवात्मार्थ पञ्चकपरिहान्या यतते। किमुक्तं भवति। उगमादिदोषत्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्ध गृह्णाति स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृत्तत्वात् कृतयतनाविषयपुरुषकारत्वात् रागद्वेषविरहितत्वाच्च शुद्ध इति (आचार्योपाध्यायादिषु मृतेषु नवडहरस्य तत्पदे स्थापना) (सूत्रम्) निग्गंथस्स णं णवडहरतरुणगस्स आयरियउवज्झाए विसंभेजाणो से कप्पइ अणायरियउवज्झायस्स होत्तए कप्पइ से पुटवआयरियं उढिसाविता ततो पच्छा उवज्झायं से किमाहु मंते दुसंगहिए समणे निग्गंथे तं जहा आयरिएणं उवज्झाएणय॥ निग्गंथस्सेत्यादि अथास्य सूत्रस्य कः संबन्ध इत्याह॥ आयरियाणं सीसो, परियातो वावि अह कितो एस। सीसणके रिसाण व, ठाविजइसोउआयरिओ।। पूर्वसूत्रे आचार्यस्थापनीय उक्तः / आचार्याणां च शिष्या भवन्तीति तद्वक्तव्यतार्थमिदं सूत्रम् अथवा पूर्वसूत्रेषु पर्यायोऽधिकृतोऽस्मिन्नपि च सूत्रे एव पर्यायस्तथा च "नवडहरतरुणग्रहणं" यदि वाऽनन्तरसूत्रे य आचार्यः स्थापनीयः उक्ताः स कीदृशानां शिष्याणां स्थाप्यते / इतीदमनेन सूत्रेणोच्यते। अनेन संबन्धेनायातस्यास्यव्याख्या निर्ग्रन्थस्य णमिति वाक्यालङ्कारे नवडहरतरुणस्य नवस्य डहरस्य तरुणस्य वा आचार्यसहित उपाध्याय आचार्योपाध्यायः। आचार्य उपाध्यायश्चेत्यर्थः / विष्कम्भो यावन्मियते ततः से तस्य नवडहरतरुणस्थानाचार्योपाध्यायस्य सतो भवितुं वर्तितुं न कल्पते किं तु पूर्वमाचार्यमुद्देशाः स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशा अप्येवमाचार्योपाध्यायस्य सतो भवितुं कल्पते। से किमाहुः / से शब्दोऽथशब्दार्थः / अथ भदन्त ! किं कस्मात् कारणात् भगवन्त एवमाहुः सूरिराह 1 द्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीतो द्विसंगृहितः श्रमणो निर्ग्रन्थः सदा भवति। तद्यथा आचार्येणोपाध्यायेन च एष सूत्रसंक्षेपार्थः व्यासार्थ तु भाष्यकृद्विवक्षुर्नवादिशब्दार्थानामर्थमाह तिवरिसो होइ नवो, आसोलसगं तु डहरगं वेंति। तरुणे चत्तासत्तरुण,मज्झिमोथेरतो सीसो॥ प्रव्रज्यापर्यायेण यस्य त्रीणि वर्षाणि नाधिकमित्येष त्रिवर्षो भवति नवः तन्नव पर्यायेण चत्वारि वर्षाण्यारभ्य यावदाषोडशकं वर्षम् अत्राङ् मर्यादायां यथा आपाटलिपुत्रादृष्टो देवः / किमुक्तं भवति / पाटलिपुत्रं मर्यादीकृत्यारतो वृष्टो देवः / इत्यत्र ततोऽयमर्थः / यावत्परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादक् तड्डहरकं ब्रुवन्ते समयविदः / ततो जन्मपर्यायेण षोडशवर्षाण्यारभ्य यावचत्वारिंशद्वर्षाणि ताक्त्तरुणः। ततः परं यावत्सप्ततिरेकेन वर्षेणोना तावन्मध्यमः / ततः परं सप्ततेरारभ्य स्थविरः शिष्यः॥ अणवकस्स विडहरग-तरुणगस्स नियमेण संगहं विति। / एमेव तरुणमज्झे,थेरम्मिय संगहो नियमे // यः प्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते। तस्यापि आस्तां नवकस्येत्यपिशब्दार्थः / डहरकः सन्तरुणकस्तस्य द्वादशवर्षाण्यारतो यावत्पञ्चदशवर्षाणि तावदित्यर्थः नियमेन संग्रहमभिस्थापिताः आचार्योपाध्यायानां संग्रहणं ब्रुवते अभिनव-स्थापिताचार्योपाध्यायाः संग्रहीतेन तेनावश्यं वर्तितव्यमिति भावः। तथा यः प्रव्रज्यापर्यायेण त्रीणि वर्षाणि नाद्याप्युत्तीर्णः स नवकस्तस्मिन्नवके तरुणे मध्यमे स्थविरे च शब्दाडुहरं च / एवं पूर्वोक्तेनैव प्रकारेण संग्रहं ब्रुवते। किमुक्तं भवति। नवकस्य डहरस्य वा तरुणस्य वा मध्यमस्य वा स्थविरस्य वा नवकत्वादेव नियमाचार्योपाध्यायसंग्रहो वेदितव्य इति।। वा खलु मज्झिमथेर-गीयमगीए य होइ नायव्वं / उद्दिसिणा उगीए, पुटवायरिए उगीयत्थे।। वा शब्दो विभाषायां खलु निश्चितं त्रिवर्षपर्यायोत्तीर्णत्वेनानक्के मध्यमे स्थविरे च प्रत्येकं गीते अगीते वर्षाणां नानात्वं ज्ञातव्यम् / तदेवाह // (उदिसणाउ अगीते) अगीतार्थे उद्देशना इयमत्र भावना। ये मध्यमाः स्थविरा वा त्रिवर्षपर्यायोत्तीर्णा अप्यगीतार्थास्ते नियमात् यः स्थापितो गणधरः तस्य शिष्या वयक्ष्यन्ते। इति गीतार्थेषु न स्थविरे मध्यमे च पूर्वाचार्यः पूर्वाचार्यसंग्रहः / ये मध्यमा स्थविराः गीतार्थाः पूर्वाचार्यदिशं धारयन्तीति। नवडहरतरुणगस्सा, विहीए विसंमियम्मि आयरिए। पच्छन्ने अभिसे तो, नियमा पुण संगहे ठाइ॥ नवश्च डहरकश्च तरुणश्च समाहारो द्वन्द्वः। तस्य पुनः संग्रहार्थमा-चार्ये विष्कम्भिते विधिना नियमेनान्यस्य गणधरस्याभिषेकः कर्तव्यः / अविधिना अभिषेककरणे प्रायश्चित्तं चत्वारो गुरुका मासाः / कोत्र विधिरिति चेदुच्यते। आचार्यः कालगतोन प्रकाश्यते यावदन्यो गणधरो न स्थापितः तथाचाह (पच्छन्नेत्ति) आचार्य कालगते प्रच्छन्ने देशे अभिषेकः करणीयः / एतदेवाह।। आयरिए कालगए,न पगासेज अट्टविहे गणहरस्मि। रण्णेव अणभिसित्ते, रज्जक्खोभो तहा गच्छे। अस्थापिते अन्यस्मिन् गणधरे आचार्यःकालगतो न प्रकाश्यते। अत्र दृष्टान्तो राजा काल गतस्तावन्न प्रकाश्यते यावदन्यो नाभि-षिच्यते। अन्यथा अनभिषिक्ते राज्ञियथा राज्यक्षोभो भवति / दायादेः परस्परविरोधतः सर्व राज्यं विलुप्यते इत्यर्थः तथा गच्छेऽप्यन्यस्मिन्नस्थापिते गणधरे यद्याचार्यः कालगतः प्रकाश्यते तदा गच्छक्षोभो भवति तमेवाह।। अणाहोवहाणसच्छंद, खित्ततेणा सपक्खपरपक्खे। लयकपणा य तरुणे-सारणमाणोवमाणे य॥ केषांचिदनाथा वयं जाता इत्यवधानं भवेत् केषांचित् (सच्छंदत्ति) स्वच्छन्दचरिता अपरे केचित् क्षिप्ताः क्षिप्तचित्ता भवेयुः / तथा स्तेनाः स्वपक्षे परपक्षे चोत्तिष्टन्ति लताया इव साधना कम्पनं तथा तरुणनामाचार्यपिपासयाऽन्यत्रगमनम्। तथाऽसारणा संयमयोगेषु सीदता पुनः संयमाध्वन्यप्रवर्तना। तथा मानापमानं च सांप्रतमेतानेव दोषान व्याचिख्यासुः प्रथमतोऽनाथावधानस्वछन्दचारित क्षिप्तचित्तत्यानि व्याख्यानयति। जायामो अणाहो त्ति, अण्णाहि गच्छंति केइ ओहावो। सच्छंदा व भमंति, केइ खेत्ताउ होजाहि। बाला वृद्धास्तरुणा वा के चिदगीतार्था आचार्याणां विप्रयोगे जातावयमनाथा इति विचिंत्य केचिदन्यत्र गच्छन्ति / केचिदवधावेयुः तथा केचित्मन्दधर्मश्रद्धाका गणादपक्रम्य स्वच्छन्दा भ्रमन्ति / अपरे के चिदाचार्यविप्रयोगतः क्षिप्ता क्षिप्तचित्ता अपगतचित्ता भवेयुः / स्वपक्षपरपक्षस्तेनानुलताकम्पनं चाह। पासत्थगिहत्थादी, उनिक्खावेज खुडगादीओ। लया वा कंपमाणा उ, केई तरुणा उ अच्छंति / / स्वपक्षपार्श्वस्थादयः परपक्षे गृहस्थादयः / अत्रापि शब्दात्परती