________________ उद्देस 833 - अभिधानराजेन्द्रः - भाग 2 उद्देस - एतेषामवधानमुत्प्रव्राजनं तदप्यनुलोमोपसर्गतुल्यम्। किमुक्तं भवति। यथा कस्याऽपि साधोः कश्चिदनुलोमान् उपसर्गान् प्रकृतवान् सचैवं चिन्तयति / यदि परमनेनोपायेनाहं मुच्ये नान्यथा ततः एवं विचिन्त्याशठभावः सपरिसेवेते स च तथाकृतपरिसेवनोऽप्यशठभाव इत्यखण्डचारित्र इति व्यवह्रियते / एवमेतेऽप्यखण्डचारित्रा एव तत्वतो मन्तव्याः एतदेव लेशतो व्याख्यानयन्नाह। साहूणं अजाण य, विसीयमाणा ण होति थिरकरणं / जइ एरिसा वि धम्म, करेति अम्हं किमंग पुण / / साधूनामार्यिकाणां च विषीदतां स्थिरकरणं भवति / तथा हि केचित्साधवो भोगेषु विषीदन्तस्तान् दृष्ट्वा एवं चिन्तयति।यदितावदीदृशा अपि विपुलराज्यादिका अमी देवकुमारिकाः प्रख्या-भिरपि निजमहिलाभिरुपसर्ग्यमाणा धर्मं कुर्वन्ते न पुनर्निजं ब्रह्मचर्य भ्रंशितवन्तोऽत एव ते तद्विवसं एवाचार्या दिपदेषु स्थापिताः किमङ्ग पुनरस्माभिः सुतरां धर्मे समाचरणीयम् / विभवादिपरिभ्रटत्वादिति / आर्यिका अपि चिन्तयति। यदि तावदीदृशाः खल्वस्माकं बान्धवाः संपन्नाः कथममन्दपुण्या एतेषां सुखमपि निरीक्ष्यन्तेन सीदन्ति खल्वेतादृशधीरपुरुषपरिगृहीता आर्यिका केवलमपरिभूताः सदा वर्तन्ते॥ किंच तत्थ ठविएस, लोगो भयं गौरवं करेति। गेलण्णोसहिमाई, सुलभ उवकरण भत्तादी॥ किं च तत्र तेषु राजकुमारादिष्वाचार्यादिपदेषु स्थापितेषु लोको भयं गौरवं बहुमानं च कुर्वते / ग्लानत्वे भवत्यौषधादिकं सुलभमुपकरणभक्तादिच। संजतिमादीगहणे, ववहारे होइ दुप्पधंसो उ। तग्गारवा उ वादे, हवंति अपराजिया चेव / / संजत्यादीनामादिशब्दात्तथाविधक्षुल्लकादिपरिग्रहः / ग्रहणे अपहारे / भवत्यसौ राजकुमारादिदुष्प्रधृस्यः / तथा तद्गौरवात् वादे भवन्ति साधवोऽपराजिता एव। पडिणीयाअकिंचिकरा, होति अवत्तव्वो अट्ठजाएय। तज्जायदिक्खिएणं, होइ विवड्डी वि य गणस्स। प्रत्यनीकाः अकिञ्चित्करा भवन्ति अर्थजाते च समुत्पन्न कश्चिदपि वक्तव्यो न भवति / किंतु सर्वोऽप्यप्रार्थित एव यथोचित्यं करोति / तथा तेन तज्जातेन राजादिजातेन तदिवस एवाचार्यादिपदस्थापितेन गणस्य गच्छस्य वृद्धिर्भवति। शेषं सुप्रतीतत्वान्न व्याख्यातम्। (सूत्रम्) निरुद्धवासपरियाए समणे निग्गंथे आयरियउवज्झायत्ताए उहिसित्तए समुत्थे य कप्पति, तस्स णं कप्पस्स देसे अभिजेए भवंति से आहिजि सामिति अहिजिज्जा एवं से कप्पइ आयरियउवज्झायत्ताए उद्विसित्तए से य अहिज्जे सामित्ति णो अहिज्जा आ एवं से नो कप्पइ आयरियउवज्झा-यत्ताए उद्विसित्तए 10 / निरुद्धवासपरियाए समणे निग्गथे इत्यादि अस्य सम्बन्धमाह . अपवदिहं तु निरुद्धं, आयरियत्तं तु पुटवपरियाए। इमतो पुण अववातो, असमत्तसुयस्स तरुणस्स। निरुद्धे / विनाशिते पूर्वपर्याये सत्याचार्यत्वमपवदितुं प्रव्रज्या दिवस एवाचार्यत्वमनुज्ञातुमनन्तरसूत्रेऽयमनेन सूत्रेणाभिधास्यमानः पुनरपवादोऽसमाप्तश्रुतस्य तरुणस्य। किमुक्तं भवत्यल्पविषयपर्यायस्यासमासश्रुतस्यापिचापवादतोगणधरत्वमनुज्ञायतेततोऽनेनाप्यपवादोऽभिधानतो भवति पूर्वसूत्रेणास्य सम्बन्धः / अनेन सम्बन्धेनायातस्यास्य व्याख्या निरुद्धो विनाशितो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः / एतदुक्तं भवति। त्रिषु वर्षेषु परिपूर्णेषु यस्य निरुद्धः पूर्वपर्यायो यदि वा पूर्णे त्रिवर्षे समाप्तश्रुतस्य निरुद्धवर्षपर्याय इति। श्रमणो निर्ग्रन्थः कल्पतेआचार्योपाध्यायतया। आचार्यतया उपाध्यायतया वा उद्देष्टु केत्याह समुच्छेदकल्प आचार्य कालगते अन्यस्मिंश्च बहुश्रुते लक्षणसंपूर्णेऽसति तस्य च आचार्यतया उपाध्यायतया उद्देष्टुमपि तस्य आचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति सूत्रमधीतमर्थोऽद्यापि नाधीयते यदि वार्थो न परिपूर्णोद्याप्यधीत इत्यर्थः / (सेयइत्यादि)स चेदमधीतवान् पाश्चात्यं स्थितं देशमध्येऽधीयतेतत एवं सति कल्पते आचार्योपाध्या यतया उद्देष्टम यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयते इति संभाव्यते। तत एवं सतिन कल्पते। आचार्योपाध्यायतया उद्देष्टुम् एष सूत्रसंक्षेपार्थः / तत्राल्पवर्षपर्यायस्यासमाप्तश्रुतस्यापवादतो गणधरपदानुज्ञानार्थमिदं सूत्रमित्युक्तमतोऽल्पवर्षपर्यायत्वं समाप्तकृतत्वं च भाष्यकृद्भावयति। तिण्णी जस्स अ पुण्णा, वासापुण्णेहि वा तिहिउतं तु। वासेहिं निरुद्धेहिं, लक्खणजुत्तं पसंसंति॥ यस्य त्रीणि वर्षाणि व्रतपर्यायतयाऽद्याप्यपरिपूर्णानि एतस्थामवस्थायां यदि वा त्रिषुपरिपूर्णेषु तस्य तन्निरुद्धवर्षपर्यायत्वमभवत् / स त्रिषु पर्णेषु अपूर्णेषु वा वर्षेषु निरुद्धेषु आचार्ये कालगते अन्यो बहुश्रुतोऽपि लक्षणसंपूर्णो न विद्यते सचासमाप्तश्रुतोऽपि लक्षणयुक्तो ग्रहणधारणासमर्थश्चेति स्थाप्यते / बहुश्रुतोप्यन्यो न स्थाप्यते किं तु सोऽसमाप्तश्रुतोऽपि लक्षणयुक्तः। किं कारणमत आह / लक्षणेत्यादि / लोके वेदे समये च विशारदा नायकत्वपदाध्यारोपे प्रशंसन्ति / लक्षणयुक्तं नेतरं बहुश्रुतमपि ततः स एव स्थाप्यते। अत्र पर आह। किं अम्ह लक्खणेहिं, तवसंजमसुट्टियाणसमणाणं / गच्छविवकिनिमित्तं, इच्छिज्जइ सो जह कुमारो।। किमस्माकं श्रमणानां तपसंयमसुस्थितानां लक्षणैः केवलं लक्ष-- णविहीनोऽपि बहुश्रुतः स्थाप्यतां येनाऽस्माकं स्वाध्यायवृद्धिर्भवति / आचार्य आह / सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधरपदस्थापनायामिष्यते गच्छविवृद्धिनिमित्तं यथा राज्यवृद्धिनिमित्त राज्ये कुमारः। एतदेव भावयति॥ बहुपुत्तो नरवई, सामुई भणति कं ठवेमि निवं / दोसगुणएगणेगे, सो वि य तेसिं परिकहेइ॥ कोऽपि बहुपुत्रको नरपतिः सामुद्रिकं सामुद्रलक्षणवेत्तारं भणति। तथा कमहं कुमारं नृपं स्थापयामि एवमुक्तः सोऽपि तेषां कुमाराणां यस्य दोषा गुणा वा एकेऽनेके च विद्यन्ते तत्सर्वं परिकथयति तत्र दोषा इमे। निमगं च डमरं, मारीदुडिभक्खचोरपउराई। धणधनकोसहाणी, बलवति पचंतरायाणो।। निधूमकं नाम अपलक्षणं यत्प्रभावतो राज्यमनुशासति रन्धनीयमेव न भवति डमरं यद्वशाद्राज्यं डमरबहुलं भवति / प्रभूतस्वदेशोत्थोपप्लवा एवोपजायन्ते इत्यर्थः / मारिर्यद्वशान्मारिदोषोपहतं प्रचुरं दुर्भिक्षमुपयाति / चोरप्रचुरं यदहवश्चौरा उच्छलन्ति / धनहानिर्यतः सर्वत्र धनक्षत्रः संभवति। धान्यहानिर्य