________________ उद्देस 632- अभिधानराजेन्द्रः - भाग 2 उद्देस पुट्विं विणीयकरणो, करेइ सुत्तं सफलमेयं / / स्थिरो नाम अचपलः / परिचितं पूर्वस्मिन्पूर्वपयाये श्रुतं यस्य स परिचितपूर्वश्रुतः / यदि वा प्रत्यागतस्यापि स्वाभिधानमिव परिचितं पूर्वपठितं यस्य स तथा। ततः पूर्वपदेन विशेषणसमासः। तथा शरीरस्य स्थानप्राणस्तस्यापहारोऽपलपनं तेन विजढो रहितः शरीरस्थानपहाररहितः। किमुक्तं भवति / पूर्वतेन सारं वलं वैयावृत्यं वाचनादिषु परिहारयितमिति तथा पूर्वं पूर्वपर्याये विनीतानि विशेषतः संयमयोगेषु नीतानि करणानि मनोवाकायलक्षणानि येन स विनीतकरणः संयमयोगादिकं सर्व तेन पूर्वमपरिहीनं कृतमिति भावः / य ईदृशः पूर्वमासीत्। स एतत्सूत्रं सफलं करोति / ईदृशस्य तदिवसमाचार्यत्वमुपाध्यायत्वं वा उद्दिश्यतेन शेषस्य ततो न कश्चित्पूर्वापरविरोध इति भावः। कह पुण तस्स निरुद्धो, परियातो होज तदिवसतो उ। पुवा कडसावेक्खो, सण्णाईहिं बलानीतो॥ कथं केन प्रकारेण तस्य पूर्वः पर्यायो निरुद्धः कथं तावदैवसिकस्तदिवसभावी पर्यायोऽभवत् / अत्रोत्तरमाह (पुवक डेत्यादि) स्वज्ञातिभिः स्वकीयैः स्वजनैः सापेक्षो गच्छसापेक्षः सन् बलानीतः / सोभूदतः सर्वं संपृष्टनमभूत् एतदेव प्रपञ्चयन्नाह। पव्वजअप्पपंचम, कुमारगुरुमादिउवहिते णयणं / निजं तस्स निकायण, पव्वतिते तद्विवसपुच्छा॥ राजा कोप्यमात्यपुरोहितसेनापतिश्रेष्ठिसहितो राज्यमनुशास्ति तेषामेकैकः पुत्रस्तत्र राजपुत्रो राज्ञा राजा भविष्यतीति संभावितः अमात्यपुत्रो अमात्येनामात्यत्वपुरोहितपुत्रः पुरोहितेन पुरोहितत्वे सेनापतिपुत्रः सेनापतिना सेनापतित्वे श्रेष्ठिना श्रेष्ठित्त्वे तेऽपि पञ्चा पिसह क्रीडन्ति / अन्यदा कुमारो राजपुत्र आत्मपशमोऽमात्यपु रोहितसेनापतिश्रेष्ठिपुत्रैः सहेत्यर्थ प्रव्रज्यामगृहीत् / सर्वे च तेअतीव बहुश्रुता जाता ग्रहणशिक्षामासेवनाशिक्षां चातिशिक्षितवन्तः कुलानि च प्रीतिकरादिरूपाणि कृतानि आचार्येण च तेगुर्वादयः संभाविताः। तद्यथा राजपुत्र अचार्यपदे अमात्यपुत्र उपाध्यायत्वे पुरोहितपुत्रः स्थविरत्वे सेनापतिपुत्रो गणित्वे श्रेष्ठि पुत्रो गणावच्छेदित्वे संभावितः राजादीनां चान्ये पुत्रान विद्यन्तेततस्ते सूरिसमीपमागत्य विज्ञापयन्ति यथा नयाम एतान् स्वस्थानं पश्चादेतैरेव सह समागत्य वयं प्रव्रजिप्यामः एवमुपधिना मातृस्थानेन विज्ञाप्य तेषां ते नयनमुपकरणं कुर्वन्ति / तस्य च राजकुमारस्यात्मपञ्चमस्य नीयमानस्याचार्यो निकाचनं करोति यथा सम्यक्त्वे नियमतोऽप्रमत्तेन भाव्यं अत्र शिष्यस्य पृच्छा भूयः। प्रव्रजिते सति राजकुमारादौ किमिति तदिवसं यस्मिन् दिवसे प्रव्रज्या प्रतिपन्ना तस्मिन्नेव दिने आचार्यादिपदस्थापनाम तोत्तरं वक्तव्यमिति भावार्थः / इति उपधिना तेषां नयनमुक्तं संप्रति प्रकारान्तरेणापहरणमाह। पियरो व तावसादी, पव्वजिउमणा उते फुरावित्ति। ठविया एयादीसुं, ठाणेसुं ते जहा कमसो॥ पितरो वा तेषां। तापसादयः तापसादिरूपतया प्रव्रजितुम नसः। तान् राजपुत्रादीन् (फुरावित्ति त्ति) देसीपदमेतत् अपहारयन्ति। इत्थं च नीताः सन्तस्ते स्वपितृभिर्यथाक्रमं राजादिषु स्थानेषु स्थापिताः। निया वि फासुभोजी, पोसहसालायपोरिसीकरणं। धुवलोयं च करेंता, लक्खणपाढेय पुच्छंती / / जो तत्थ अमूढ लक्खा, रिउकाले तीए एक्कमेकं तु / उप्पाएऊण सूर्य, हाविय ताहे पुणो हों ति।। नीता अपि ते राजकुमारादयः प्रासुकभोजिनः पौषधशालायां प्रतिदिवसं सूत्रपौरुष्या अर्थपौरुष्याश्च करणं ध्रुवमवश्यं लोचं च ते कुर्वन्ति / ब्रह्मचर्य च परिपालयन्ति। नवरं लक्षणपाठकान् दिने पृच्छन्ति। कस्या महिलाया ऋतुकाले गर्भो लगतीति एवं दृष्ट्वा यासां महिलानां लक्षणपाठका भवन्ति तथैतासामृतुकाले नियमनात् गर्भो लगिष्यतीति ततो या ऋतुकाले अमूढलक्षाऋतुकालस्य स्वस्य ज्ञात्री तस्यामात्मीयायामेकैकं वारं गत्वा बीज निक्षिपन्ति। एवं चात्मीयमात्मीयं पुत्रमुत्पाद्य यदा यदायो योस समर्थो जायते। तदा तदातंतं स्वस्वस्थाने स्थापयीत्वा पुनरागच्छन्तीति। अन्भुज्जयमेगपरं, पडिवजिउकामथेरअसति अन्ने। तदिवसमागतेसुं, ठाणेसु ठवंति तस्सेद। यस्मिन् दिवसे ते प्रत्यागतास्तस्मिन्नेव दिवसे स्थविरा आचार्या अभ्युद्यतमेकतरं विहारं जिनकल्पिकं यथालन्दकल्पविहारं वा प्रतिपत्तुकामाः स्थविरत्वात्। अन्यगणधारणेऽसमर्था स्तादृशोन विद्यन्ते ततस्तद्दिवसमागतान् राजकुमारादीन् तेष्वाचार्यत्वादिषु स्थानेषु स्थापयन्ति "पुव्ययते दिवसपुव्वे" यदुक्त तत्र तामेव पृच्छां भावयति। कह दिज्जइ तस्स गणो,तद्दिवसं चेव पव्वइगस्स। भण्णइ तम्मि ठविए, हॉति सुबहुगुणाउ इमे / / कथं तस्य राजकुमारस्य प्रव्रजितस्य तदिवसमेव यस्मिन् दिने प्रव्रज्या प्रतिपन्ना तस्मिन्नेव दिने गणो दीयते / अत्र सूरिराह भण्यते तस्मिन् स्थापने सुष्ट अतिशयने बहवो गुणा इमे वक्ष्यमाणा भवन्ति तानेवाह। साहु विसीयमाणो, अण्णगेलण्णभिक्खउवगरणा। ववहारइत्थियाए, वाएय अकिंचणकरे य॥ एते गुणा हवंती, तज्जायाणं कुटुंबपरिवड्डी। ओहाणं पि य तेसिं, अणुलोमुवसग्गतुल्लं तू // साधुर्विषीदन्तान् तथाभूतान् दृष्ट्वा स्थिरोभवति। आर्यिका अपि तेषु स्वचेतसि स्थिरा उपजायन्ते (गेलण्णत्ति) ग्लानत्वे साधुनामौषधं सुलभ भवति / वैद्योऽपि तेषां प्रभावतोऽनुकूलां क्रियां करोति / यथा एते राजादिपुत्राः तेषां चामी शिष्या इति / तथा भिक्षा उपगरणमपि साधूनामतिसुलभम् (ववहारो इत्थिया) एते स्त्रिया अपहत्तायास्तेषां भयतो व्यवहारो लभते इयमत्र भावना। काचित् रूपवती कुमारश्रमणा केनापि राज्ञा गृहीता स्यात्ततस्तेषां गतानां भयेन सा मुच्यते इति वादे च तद्रौरवात्साधवोऽपरिभूता भवन्ति (अकिंचणकारयचि) सोऽपि कश्चित्साधूनां प्रत्यनीकः सोऽपि तेषां राजादिकुमारप्रव्रजितानां भयतो नकिञ्चित्करोति अथवा किंचनानां साधूनां यदि कथमपि केनाऽप्यर्थजाते प्रयोजनमुपजायते तर्हि तत्सर्वं लोकः प्रायोऽप्रार्थित एव करोति। तदेवमेते अनन्तरोदिता गुणास्तजातानां राजादि जातीयानां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजितास्तदिवस एवाचार्यादिपदेषु स्थाप्यन्ते / अयं च गुणः कुटुम्बपरिवृद्धिस्तथाहि यदि नामते तथाभूतं राज्यादिकमपहाय धर्म समाचरन्ति ततः किं तेषु तुच्छे भोगोपभोगेषु एवमन्येपि संयमे निष्क्रमन्ति ततो भवति गच्छस्थ महती वृद्धिः /