________________ उद्देस ८३१-अभिधानराजेन्द्रः - भाग 2 उद्देस त्रिवर्षे त्रिवर्षपर्यायस्य एकमेयोपाध्यायलक्षणं स्थानमनुज्ञातं न द्वितीयभाचार्यत्वलक्षणमपि तस्याल्पपर्यायतया प्रभूतखेदसहिष्णुत्वाभावेनाचार्यपदयोग्यताया अभावात् / पञ्चवर्षस्य पञ्चवर्षपर्यायस्य द्वे स्थाने अनुज्ञाते तद्यथा उपाध्यायत्वमाचार्यत्वबहुवर्षवर्षपर्यायतया खेदसहतरत्वाविकृष्टोष्टवर्षपर्यायः पुनः सर्वाण्यपिस्थानानि वोढुंसक्नोति बहुतमवर्षपर्यायत्वात् ततस्तस्य सूत्रेणोपाध्यायत्वमाचार्यत्वं गणित्वं प्रवर्तित्वं स्थविरत्वं गणावच्छेदित्यं वाऽनुज्ञातम् / अथ कथं सर्वाणि यथोक्तानि स्थानानि वोढुं शक्नोति तत आह। नो इंदियाण य कालेण, जायाणि तस्स दीहेण। कायव्वेसु बहूसु य, अप्पा खलु भावितो तेण // तस्य अष्टवर्षपर्यायस्य दीर्घेणाष्टवर्षप्रमाणेन इन्द्रियनोइन्द्रियाणि जातानि भवन्ति कर्तव्येषु च बहूष्यात्मा खलु तेन भावितो भवति ततो योग्यत्वात्सर्वाण्यपि स्थानानि तस्यानुज्ञातानि। निरुद्धप-यस्तदिवसमुद्देष्टु कल्पते॥ (सूत्रम्) निरुद्धपरियाए समणे निग्गंथे कप्पइ तद्दिवसस्स आयरियत्ताए उद्दिसित्तए से किमाहु भंते ? अत्थि णं थेराणं तहारूवाइंकुलाई कडाइंपत्तियाई ठिञ्जाइंवेसासियाई समयाई समुइकराई अणुमयाइं बहुमयाइं भवति / तेहिं कडेहिं तेहिं पत्तिएहिं ठिजेहिं तेहिं विसासीएहिं समुइक रेहिं जेसे निरुद्धपरियाए समणे निग्गंथे कप्पइ आयरिय उवज्झायत्ताए / उदिसित्तएतद्विवसं / / व्य०३ उ०। अथास्य सूत्रस्य कः सम्बन्ध उच्यते। उस्सग्गस्स ववादो, होति विवक्खो उतेणिमं सुत्तं / नियमेण विगिट्ठो पुण, तस्सासी पुथ्वपरियातो।। इहोत्सर्गस्य विपक्षप्रतिपक्षो भवत्यपवादस्तेन कारणेन 'तिवरिसपरियाए समणे निग्गंथे इत्यादि' रूपस्योत्सर्गस्येदमपवादभूतं / सूत्रमुच्यते। अनेन सम्बन्धेनायातस्यास्य व्याख्या। निरुद्धो विनाशितः पर्यायोऽस्य स निरुद्धपर्यायः। श्रमणो निर्ग्रन्थः कल्पतेयुज्यते तदिवसं यस्मिन् दिवसे प्रव्रज्यार्थ प्रतिपन्नवान् तस्मिन्नेव दिवसे पूर्वपर्यायः पुनस्तस्य प्रभूततर आसीत्। तथाचाह। (नियमेणेत्यादि) नियमेन तस्य पूर्वपर्यायो विकृष्टो विंशति वर्षाण्यासीत् ततस्तद्दिवसं कल्पते। आचार्योपाध्यायतया उद्देष्टुम्। अत्र शिष्यः प्राह। (से किमाहु? भंते!) स शद्वोऽथशदार्थः। अथर्किकस्मात्कारणात्भदन्त! परमकल्याणयोगिन्! भगवन्तएवमाहुर्यथा तद्दिवसमेव कल्पते आचार्योपाध्याययोरुद्देष्ट न खलु प्रव्रजितमात्रस्याचार्यत्वादीन्यारोप्यमाणानियुक्तान्यगीतार्थत्वात् अत्र सूरिराह / (अस्थि णमित्यादि) अस्तीति निपातो निपातत्वाच बहुवचनेऽप्यविरुद्धस्ततोऽयमर्थः सन्ति विद्यन्ते णमिति वाक्यालंकारे स्थविराणामाचार्याणां तथा रूपाणि आचार्यादिप्रायोग्यानि कुलानि तेन कृतानि गच्छप्रायोग्यतया निर्वर्त्तितानीत्यर्थः / येन यथा कालं तेभ्य आचार्यादिप्रायोग्यं भक्तमुपधिश्चोप-जायते। उपलक्षणमेतत् तेन केवलं तथा रूपाणि कुलानि कृतानि कित्वार्चायबालवृद्धग्लानादयोऽपि अनेकधा संग्रहोपग्रहविषयी कृता इति द्रष्टव्य न केवलं कुलानि तथारूपमात्राणि कृतानि किंतु(पत्तियाणित्ति) प्रीतिकराणि वैनयिकानि कृतानि (थे जाणित्ति) स्थेयानि प्रीतिकरतया गच्छचिन्तायां प्रमाणभूतानि / अथवा स्थियानीति किमुक्तं भवति / नैकं द्वौ वा वारी प्रीतिकरणानि कृतानि किंत्वनेकश इति (वेसासियाणित्ति) | आत्मनामन्येषां गच्छवासिनां मायारहितीकृततया विश्वासस्थानानि कृतानि विश्वासे भवानि योग्यानि वैश्वासिकानीति व्युत्पत्तेः अत एव सम्मतानि तेषु तेषु प्रयोजनेष्विष्टानि संमुदिकराणि अविषमत्वेन प्रयोजनकारीणि / सोपि च बहुशो विग्रहेषु समुत्पन्नेषु गणस्य संमुदितमकार्षीत् / संमुदिकृततया इष्टेषु च प्रयोजनेष्वनुकल्पेन मतान्यतुमतानि।तया बहूनां विखर्वजडवर्जानां सर्वेषामित्यर्थः। मतानि बहुमतानि भवन्ति तिष्ठन्ति शुभं तस्य स्यादिदं रूपं ततो यद्यस्मात्तेषु कुलेषु तथारूपेषु कृतेषु प्रीतिकरेषुएवं तेषु स्थेयेषु तेषु वैश्वासिकेषु तेषु समुदिकरेष्वित्यपि भावनीयम् स श्रमणो निर्ग्रन्थो निरुद्धपर्यायोऽभवत् तेन कारणे न संकल्पते आचार्यतया उपाध्यायतया वा उद्देष्टुं तद्दिवसमिति / एष सूत्रसंक्षेपार्थः / व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः (सेकिमाहुभंतेइत्यादि) एतस्येदं व्या-ख्यानयति। चोरएयतिवासादी, पूवं वन्नेउंदीहपरियागं। तदिवसमेव इण्हिं, आयरियादीणि किं देह / / चोदयति प्रश्नयति परो यथापूर्व त्रिवर्षादिक दीर्घ पर्याय वर्ण-यित्वा किमिदानीं तदिवसमेव / आचार्यादीनि भावप्रधानोऽयं निर्देश: आचार्यत्वादीनिदत्थ। अत्र सूरिराह। भण्णति तेहिं कायाइ, वेहियाणं तु उवहि भत्ताई। गुरुबालासहुमादी, अणेगकारेहु वज्जिया।। भण्यते अत्रोत्तरं दीयते तैराचार्यादिपदयोग्यनयिकानां विनयमहन्तीति वैनयिका आचार्यादयः तेषां कृताप्युत्पादितानि / उपधिभक्तानि। किमुक्तं भवति। तथारूपाणि स्थविराणां तैनयिकानि कुलानि कृतानि येन तेभ्यो यथाकालमुपधिर्भक्तं चोपजायते इति / एतेन "अत्थिणं थेराणं तयारूपाणि कडाणीति" व्याख्यातम् / न केवल तैस्तथारूपाणि कुलानि कृतानि किं तु गुरुबालसहोदरादयआदिशब्दात् वृद्धग्लानादिपरिग्रहः / अनैक-प्रकारैरुपगृहीताः संग्रहोपग्रहाभ्यामुपष्टम्भे नीताः "पत्तियाणीति" सुप्रतीतत्वान्न व्याख्यातम् तचेत्यत्र द्वितीयं व्याख्यानमाह। ताई पीतिकराई, असई दुय्वत्ति होसि थेजानि। संकियअणवेक्खाए, जिम्हजढा ईति विस्संभो॥ अथ वेति प्रतीतं प्रथमव्याख्यानापेक्षया व्याख्यानान्तरोपदर्शने स्थेयानीति कित्वसकृदिति। तथा वैश्वासिकानीति कोऽर्थः अनपेक्षया स्वपरविशेषाकरणेन प्रभूततराणां संचिताङ्गे नेत्यर्थः / वेष्याणि विशेषत एषणीयान्यभिलषनीयानि कृतानियतस्तानि जिह्मजढानि जिह्यं मायया रहितानि कृतानीति तेषु विश्रम्भो विश्रंभस्थानत्वास्वाद्यध्यपेक्ष्याणीति संमुइकराणीति व्याख्यानार्थमाह। सव्वत्थ अविसमत्ते, ण कारगो होइ संमुदी नियमा। बहुसो य विग्गहेसुं, अकासि गणसम्मुदिं सो उ॥ सर्वत्र सर्वेषु प्रयोजनेषु यो नियमादविषमत्वेनाकुटिलतया कारको भवति (सम्मुदित्ति) पदैकदेशे पदसमुदायोपचारात् संमुदिकरः तान्यपिकुलानि तेन तथारूपाणि कृतानि न केवलं तेन कुलानि समुदिकराणि कृतानि / किंतु सोऽपि तुशब्दोऽपिशब्दार्थः / बहुशो बहुभिः प्रकारैर्विग्रहेषु समुत्पन्नेषु तदुपशमनतो गणस्य गच्छस्य सम्मुदिमकार्षीत् शेषाणि तु पदानि सुप्रतीतत्वान्न व्याख्यातानि॥ थिरपरिचियपुव्वसुतो, सरीरयामावहारविजढो उ।