________________ उद्देस 830 - अभिधानराजेन्द्रः - भाग 2 उद्देस रा गीतार्था एतानि चत्वार्याहणानि दृष्टान्याचार्येण ज्ञातव्यानि इमानि च। सत्थपरिण्णाछकाय-अहिगमपिंडउत्तरज्झयणं। रुक्खेयवसभगावो, गोहा सोही य पुक्खरिणी॥ शस्त्रपरिज्ञा षट्कायाधिगमः षट्जीवनिका इदमेकमुदाहरणं पिण्डः उत्तराध्ययनं उत्तराध्ययनानि वृक्षाः कल्पद्रुमादयः वृषभा क्लीवाः गावः गोधाः शोधिः अत्र दृष्टान्तः पुष्करिणी च सर्वसं-ख्यया त्रयोदश आहरणानि // एतानि व्याचिरव्यासुः प्रथमतः पुष्करिण्याहरणं भावयति। पुक्खरिणीतो पुव्वं, जारिसया उण्ह तारिसा एहिं। तहवि य ता पुक्खरिणी, ता हवंति कज्जइ कीरंति / / पूर्व सुषमसुषमाकाले यादृशः पुष्करिण्योजम्बूद्वीपप्रज्ञप्तौ वर्ण्यन्ते इदानीं नतादृश्यस्तथापि च न ता अपि पुष्करिण्यो भवन्ति कार्याणि च ताभिः क्रियन्ते / आचारप्रकल्पानयनाहरणमाह। आयारपकप्पो उ, नवमे पुव्वम्मि आसि सोधी य। तत्तो व्विय निजूढो, इहाणि य तो किं न सुद्धि भवे / / आचारप्रकल्पः पूर्वं नवमे पूर्वे आसीत्। शोधिश्च ततोऽभवत्। इदानीं पुनरिहाचारानें तत एव नवमान्नि!ह्यानीतः ततः किमेष आचारप्रकल्पो न भवति किं वा तत शोधिर्नोपजायते / एषोऽप्या-चारप्रकल्पः / शोधिश्चास्मादवशिष्टा भवतीति भावः / अधुनास्तेनकदृष्टान्तभावनार्थमाह / / तालुग्धाडिणिं ओसो-वणादिविजाहिं तेणगा आसि। इहिं ते उ न संती, तहा वि किं तेणगा न खलु / / पूर्व स्तेनकाश्चौरा विजयप्रभवादयस्तालोद्घाटिन्यवस्वापिन्यादिभिरुपेता आसीरन् ताश्च विद्या इदानीं नसन्ति। तथापि किं खलु तेन भवन्ति भवन्त्येव तैरपि परद्रव्यापहरणादिति भावः / अधुना गीतार्थदृष्टान्तं भावयति। पुव्वं चउदसपुथ्वी, इण्डिं जहण्णो पकप्पधारीओ। मज्झिमगपकप्पधारी, जह सो उन होइ गीयत्थो / / पूर्व गीतार्थश्चतुर्दशपूर्वी अभवत् / इदानीं स किं गीतार्थो जघन्यः प्रकल्पधारी न भवति भवत्येवेति भावः / शस्त्रपरिज्ञादृष्टान्तमाहपुव्वं सत्थपरिण्णा, अधीयपढिया य होउ उट्ठवणा। इण्हिं छजीवणिया, किं सा उन होउ उट्ठवणा / / पूर्व शस्त्रपरिज्ञायामाचाराङ्गान्तर्गतायामधीतायामर्थतो ज्ञातायां पठितायां सूत्रत उपस्थापना अभूदिदानी पुनः सा उपस्थापना षड्जीवनिकायां दशवैकालिकान्तर्गतायामधीतायां पठितायां च न भवति / भवत्येवेत्यर्थः / पिण्डदृष्टान्तभावनामाह। वितितम्मि बंभचेरे,पंचम उद्देस आमगंधम्मि। सुत्तम्मि पिंडकप्पि, इह पुण पिंडेसणाएओ॥ पूर्वमाचाराङ्गान्तर्गते लोकविजयनाम्निद्वितीयेऽध्ययने यो ब्रह्मचख्यिः पञ्चम उद्देशकस्तस्मिन् यदामगिन्धिसूत्रम् / “सव्वामगंधं परिण्णाय निरामगंधं परिव्वयय इति" तस्मिन् सूत्रमोऽर्थतश्चाधीते पिण्डकल्पी आसीत् / इह इदानीं पुनर्दशवैकालिकान्तर्गतायां पिण्डैषणायामपि सूत्रोऽर्थतश्वाधीतायां पिण्डकल्पिकः क्रियते सोऽपि च भवति तादृश इति उत्तराध्ययने दृष्टान्तं भावयति। आयारस्स उ उवरिं, उत्तरज्झयणा उ आसि पुवं तु। दसवेयालियउवरिं, इयाणिं किं ते न होंती उ॥ पूर्वमुत्तराध्ययनानि आचारस्याचाराङ्गस्योपर्यासीरन् / इदानीं दशवकालिकस्योपरि पठितव्यानि किं तानि तथा रूपाणि न भवन्ति भवन्त्येवेति भावः / वृक्षदृष्टान्तभावनामाह। मत्तंगादी तरुवर, न संति इण्हिं न होंति किं रुक्खा। महजूहाहिव दप्पिय, पुट्विं वसभाण पुण इण्हिं / / पूर्वं सुषमसुषमादिकाले मत्तङ्गादयो दशविधास्तरुवराः कल्पद्रु-मा आसीरन् इदानीं ते न सन्ति किं त्वन्ये चूतादयस्ततः किं ते वृक्षा न भवन्ति तेऽपि वृक्षा भवन्तीति भावः / वृषभद्रष्टान्तमाह / (महजूहाहिवेत्यादि) पूर्वं वृषभा महायूथाधिपादर्पिकाः श्वेताः सुजाताः सुविभक्तशृङ्गा आसीरन् इदानीं ते तथाभूतान सन्ति किंतु पञ्चदशादि गोसंख्यातास्ततः किं ते यूथा न भवन्ति भवन्त्ये येति भावः / अधुना गोदृष्टान्तभावनार्थमाह // पुव्वं कोडीबद्धा, जूहाओ नंदगोवमाईणं। इण्डिं न संति ताई, किं जूहाइं न हुंती उ॥ पूर्वं नन्दगोपादीनां गवां यूथाः कोटीबद्धाः कोटीसंख्याका आसीरन् इदानीं ते तथाभूता न सन्ति किं तु पञ्चदशादिगोसंख्याकास्तत्किं ते युथा न भवन्ति किंतु भवन्त्येवेति / अधुना योधदृष्टान्तभावनामाह।। साहस्सी मल्ला खलु, महपाणा पुव्वं आसि जोहा उ। ते तुल्ल नत्थि एण्हि,किं ते जोहा न होती तो || पूर्वयोधा महाप्राणाः सहस्रमल्ला आसीरन् इदानीं तेषां तुल्या न सन्ति किंत्वमी ततो हीनास्ततः किं तेयोधा न भवन्ति भवन्त्येव कालौचित्येन तेषामपि योधकार्यकरणादिति भावः। शोधिदृष्टान्तमाह / / पुट्विं छम्मासेहिं, स होउ परिहारेण सोही उ। इण्हिं निव्वडियाहिं, पंचकल्लाणगाईहिं।। पूर्व षभिमसिः परिहारेण वा परिहारतपसा वा शोधिरासी इदानीं निर्विकृतिकादिभिरपि च शोधिः पञ्चकल्याणक दशकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् शोधिविषय एव / पुष्करिणीदृष्टान्तमाह॥ किं व पुण एव सोही, जह पुविल्ला सुपच्छिमा सुं च। पुक्खरिणीसुं वत्था, इयाणि सुज्झंति तह सोही।। किं केन प्रकारेण पुनरत्राधुना एवं निर्विकृतिकादिमात्रेण शोधिर्भवति / सूरिराह / यथा पूर्वासु च पूर्वकालभाविनीषु (पुक्खत्ति) प्रभूतजलपरिपूर्णासु वस्त्राणि शुध्यन्तिस्म एवं पश्चिमास्वप्यधुनातनकालभाविनीषु शुध्यन्ति तथा शोधिरपि पूर्वमिवेदानीमपि भवतीति एवं दृष्टान्तानभिधाय दार्शन्तिकयोजनामाह / / आयरियादिचोइस, पुव्वादि आसि पुट्विं तु। एवं जुवाणरूवा, आयरिया हुंति नायव्वा / / एवमन्तरोदितदृष्टान्तकदम्बकप्रकारेण यद्यपि पूर्वमाचार्यादयश्चतुर्दश पूर्वादयश्चतुर्दशपूर्वधरादय आसीरन् तथापीदानीमाचार्या उपलक्षणमेतत् उपाध्यायाश्च युगानुरूपा दशाकल्पत्र्यवहारधरादयस्तपोनियमस्वा. ध्यायादिषुधुक्ता द्रव्यक्षेत्रकालभावो चितयतनापरायणा भवन्ति ज्ञातव्याः / संप्रति यावत्पर्यायस्य यावन्ति स्थानानि सूत्रेणानुज्ञातानि तस्य तावन्त्यसंमोहार्थमुपदर्शयिषुराह।। तिवरिसएगट्ठाणं,दोतियट्ठाणा उपंचवरिसस्स। सव्वाणि विकिव्वो पुण, वोढुं वा एति ठाणाई।