________________ उद्देस 526 - अभिधानराजेन्द्रः - भाग 2 उद्देस गणावच्छेदित्योद्देशविषये द्वे सूत्रे व्याख्येये केवलं तत्र जघन्येन स्थानसामाचार्या गण इति वाच्यं शेषं तथैव / एष सूत्रषट्क स्य संक्षेपार्थः / अधुना नियुक्तिविस्तरः / तत्र तावत्सर्वेषामेव सूत्रपदानां सामान्येन व्याख्यां चिकीर्षुरिदमाह / भाष्यकृत् // एक्कारसंगसुत्तत्त्थ-धारया नवमपुव्वकडजोगी। बहुसुय बहुआगमिया, सुत्तत्थविसारया धीरा।। एयगुणोववेया, सुयनिघसा णायगामहाणस्स। आयरियउवज्झाय-पवत्तिथेरा अणुनाया। एकादशानामङ्गानां सूत्रार्थमवधारयन्तीत्येकादशाङ्ग सूत्रधारकाः (नवमपुव्वत्ति) अत्रापि सूत्रधारका इति संबध्यते नवमपूर्वग्रहणं च शेषपूर्वाणामुपलक्षणं ततोऽयमर्थः समस्तपूर्वसूत्रधारकाः तथासूत्रोपदेशेन मोक्षाविरोधीकृतो न्यस्तो योगो मनोवाक्कायव्यापारात्मकः सकृतयोगः स येषामस्तिते कृतयोगिनः। बहुश्रुताः प्रकीर्णकानामपि सूत्रार्थधारणात् इह पूर्वधरा अपि तुल्येऽपि च सूत्रे मतिवैचित्र्यतोऽर्थागममपेक्ष्य षट्स्थानपतितास्ततः प्रभूता-वगमप्रतिपादनार्थमाह / बागमाः बहुः प्रभूतः आगमो येषां ते तथा एतदेवाह। सूत्रार्थाविशारदाः तत्कालापेक्षया सूत्रेऽर्थे च विशारदाः तथा धिया औत्पत्तिक्यादिरूपया बुद्ध्याराजन्ते इति धीरा "एतद्गुणोपपेता इत्यादि'' येऽनन्तरगाथायामुक्ता गुणा एतैर्गुणैरुपेता एतद्गुणोपेताः। श्रुतं निघर्षयन्तीति श्रुतनिघर्षाः। किमुक्तं भवति यथा सुवर्णकारस्तापनिकर्षच्छेदैः / सुवर्ण परीक्षते किं सुन्दरमथवाऽसुन्दरमिति। एवं स्वसमयपरसमयान्परीक्षन्तेते श्रुतनिघर्षा इति यथा नायकाः स्वामिनो महाजनस्य स्वगच्छवर्तिनां साधूनामिति भावः / अथवा नायका ज्ञानादिनां प्रापकास्तदुपदेशलाभात् महाजतस्य समस्तस्य संघस्य इत्थंभूता आचार्या उयाध्यायाः प्रवर्तितस्थविरा उपलक्षणमेतद्गणावच्छेदिनश्चानुज्ञाताः तदेवं सामान्यतः सर्वसूत्रपदानामर्थो व्याख्यातः। संप्रत्येकैकस्य सूत्रपदस्यार्थो वक्तव्यस्तत्र येषां पदानां वक्तव्यः तान्युपक्षिपन्नाह॥ आयारकुसलसंजम-पवयणपण्णत्ति संगहोवगहे। अक्खुय असबलभिन्न-संकिलिट्ठायारसंकिण्णे।। अत्र कुशलशब्दः पूर्वार्द्ध प्रत्येकं सम्बध्यते ततोऽयमर्थः आचारकुशलशब्दस्य प्रवचनकुशलशब्दस्य प्रज्ञप्तिकुशलशब्दस्य संग्रहकुशलशब्दस्य उपग्रहशब्दकुशलस्य च (अक्खुएत्यादि) अत्राचारशब्दसंपन्नः प्रत्येकमभिसम्बन्धनीयः / अक्षताचारसंपन्नस्य अक्षताचारशब्दसंपन्नस्य अक्षताचारस्येत्यर्थः / एवमशबलाचारसंपन्नाय अभिन्नाचारसंपन्नस्य संक्लिष्टाचारसंपन्नस्य च व्याख्या कर्तव्या / / व्य० // (कुशलशब्दव्याख्या स्वस्थाने) सांप्रतमक्षताचारादिपदानां सामान्येन व्याख्यानमाह। आहाकम्मुद्देसिय, ठविय रइय कीय कारियं छेज्जं / उमिण्णा हडमाले, वणीमगाजीवण निकाए। परिहरति असणं पाणं, सेजोवहिं पूति संकियं मीसं। अक्खुयमभिन्नमसं-किलिट्ठ वासए जुत्तो। आधाकर्मिकं यन्मूलत एव साधूनां कृते कृतम् औद्देसिकमुदि-। ष्टादिभेदभिन्नं, स्थापितं यत्संयतार्थं स्वस्थाने परस्थाने वा स्थापितं, रचितं नाम संयतनिमित्तं कांस्यपात्र्यपादौ मध्ये भक्तं निवेश्य पार्श्वेषु व्यञ्जनानि बहुविधानि स्थाप्यन्ते / तथा क्रीतेन कारितमुत्पादितं क्रीतकारितम् आच्छेद्यं यत् भृतकादिलभ्यमाच्छिद्य दीयते / उद्भिन्नं यत्कुतपादिमुखं स्थगितमप्युच्छिद्य ददाति / आहृतं स्वग्रामाद्याहृतादि (मालत्ति) मालापहृतं 'वनीपकीभूय पिण्ड उत्पाद्यते स पिण्डोऽपि वनीपकः / आजीवनं यदाहारशय्यादिकं जात्याद्याजीवनेनोत्पादित (निकाएत्ति) मम एतावद्रातव्यमिति निकाचितम् एतानि योऽशनपानादिशय्योपधीश्च परिहरति तथा पूतिकं शङ्कितं मिश्रमुपलक्षणमेतदध्यवपूरकादिकं च यश्चावश्यके युक्तः सोऽक्षताचार अभिन्नाचार: संक्लिष्टाचारः / तत्र स्थापितादिपरिहारी अक्षताचारः / अभ्याहृतादिपरिहारी अशबलाचारः जात्योपजीवनादि परिहरन् अभिन्नाचारः / सकलदोषपरिहारी असंक्लिष्टः / संप्रति लाघवाय द्वितीयसूत्रगतानि अक्षताचारादीनि पदानि व्याख्यानयति // ओसन्नखुयायारो, सवलायारो य होइ पासत्थो। भिन्नायारकुसीलो, संसत्तो संकिलिट्ठो उ। अवसन्न आवश्यकादिष्वनुद्यमः कृताचारः / तथा पार्श्वस्थोऽन्योद्मादिभोजी शबलाचारः / कुशीलो जात्याजीवनादिपरो भिन्ना-चारः संसक्तः संसर्गवशात्स्थापितादिभोजी / संक्लिष्टः संक्लि-ष्टाचारः। संप्रत्याचारप्रकल्पधर इति पदं व्याख्यानयति। तिविहो य पकप्पधरो, सुत्ते अत्थेय तदुभये चेव / सुत्तधरवजियाणं, तिगदुगपरिवडणा गच्छे / / त्रिविधः खलु प्रकल्पधरस्तथा सूत्रे सूत्रतः अर्थतः तदुभयतश्च / इयमत्र भावना। आचारप्रकल्पधारिणां चत्वारो भङ्गास्तद्यथा सत्रधरोऽर्थधर अर्थधरोन सूत्रधरः सूत्रधरोनार्थधरः सूत्रधरोनाप्यर्थधरः 4 अत्र चतुर्थो भङ्गःशून्यः। उभयविकलतया आचारप्रकल्पधारित्वविशेषणासंभवात्। आद्यानां त्रयाणां भङ्गानां मध्ये तृतीय भङ्गवत्तीं स गणे उद्दिश्यते। यतः स सूत्रधारितया गच्छे गच्छस्य परिवर्द्धको भवति तदभावे द्वितीयभङ्ग वर्त्यपि तस्याप्यर्थधारितया सम्यक्परिवर्द्धकत्वान्न चाद्यभङ्गवर्ती तथाचाह 1 सूत्रधरवर्जितानामाचारप्रकल्पिताना गच्छे सम्यक् परिवर्द्धनात्त्रिके तृतीयभड्ने च ततस्तएवोपाध्यायाः स्थाप्यान प्रथमभङ्गवर्तिनः / एवं दशाकल्पव्यवहारधरादिपदानामपि व्याख्या कर्तव्या।। अत्र पर आह|| पुवं वण्णे ऊणं, दीहं परियायसंघयणसद्धं / दसपुट्विए य धीरे, मज्जार पडियपरूवणया / ननुपूर्वमाचार्यपदयोग्यस्य दीर्घ पर्यायो वर्णितः संहननं चाति-विशिष्ट श्रद्धा च प्रवचनविषयाऽत्युत्तमा आगमतश्चाचार्यपदयोग्यो जघन्यतोऽपिदशपूर्विकास्तथा धरा बुद्धिचतुष्टयेन विराजमाना ततः एवं पूर्व वर्णयित्वा यदेवमिदानी प्ररूप्यते यथा त्रिवर्षपर्याय आचा-- रप्रकल्पधरः उपाध्यायः स्थाप्यते, पञ्चवर्षपर्यायदशाकल्पव्यवहारधर इत्यादि। सैषा प्ररूपणा मार्जारादि न कल्पा / यथाहि मार्जारः पूर्व महता शब्देनारटति पश्चादेवं शनैः शनैरारटति। यथा स्वयमपि श्रोतुं न शक्नोत्येवं त्वमपि पूर्वमुच्चैः शब्दितवान् / पश्वाच्छनैरिति सूरिराह। सत्यमेतत् केवलं यत्पूर्वमुक्तं तद्यथोक्तन्यायमङ्गीकृत्य संप्रति पुनः कालानुरूपं प्रज्ञाप्यते इत्यदोषस्तथाचात्र पुष्करिण्यादौ यो दृष्टान्ती तावेवाह। पुक्खरिणी आयारे, आणयणा तेणगा य गीयत्थे। आयारम्मि उ एए, आहरणा होति नायव्वा / / पुष्करिणी वापी आचार आचारप्रकल्पस्य आनयनं स्तेनकावी