________________ उदायण 821 - अभिधानराजेन्द्रः - भाग 2 उदाहरण 18 अ०। आ००।आ०म०॥ (अभीचिकुमारस्य वक्तव्यता स्वावसरे प्रोक्ता अस्या एव महत्या उदायनवक्तव्यतायाः केचिदंशा अज्जरक्खियनिव्वडियसिक्खादिशब्देषु / उदायनस्य पितृष्वसुर्जयन्त्याः श्रमणोपासिकायाः कथा जयंतीशब्दे) उदार(राल) त्रि०(उदार) उद्-आ-रा-क-दातरि, महति, सरले, दक्षिणे, गम्भीरे, असाधारणे, वाच० 1 निस्पृहत्वातिरेकादौदार्यवति, / भ०२श०१ उ०। उदात्त न०(उदारत्व) अभिधेयार्थस्यातुच्छरूपे, स० / अतिशिष्टगुम्फगुणयुक्ततास्वरूपे अन्यस्वार्थप्रतिपादकतालक्षणे वा द्वाविंशतितमे सत्यवचनातिशये, स०। उदासीण त्रि०(उदासीन)उद्-आस-शानच्०ा रागद्वेषरहितेमध्यस्थे, "उदासीणे फरुसंवयंति" उदासीना रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्युपशान्तास्तान् स्खलितांश्चोदनोद्यतान् कुर्वन्ति। आचा०१ श्रु०६ अ० 4 उ०।। 'समणपि दद्धदासी णं, तत्थ विताव एगे कुप्पंति" सूत्र० १श्रु०४ अ०२ उ०। विवदमानयोरेकतरपक्षानालम्बके जिगीषोर्नृपतेः शत्रुमित्रभूमितो व्यवहितेपरतरे मण्डलादहिरेतस्मादुदासीनो बलाधिकः इत्युक्तलक्षणे राजभेदे, वाच०। उपेक्षमाणे च स्था०६ ठा०। उदाहड त्रि०(उदाहृत) उद्-आ-हु-क्त दृष्टान्ततयोपन्यस्ते कथिते, वाच०। उपन्यस्ते, उदाहृतं तु"समं मईए अहाउ सो विप्परिया समेव" सूत्र०१ श्रु०६अ। उदाहरंत त्रि०(उदाहरत्) प्रतिपादयति, 'सच्चं असचं इति' चिंतयं ता, "असाहु साहुत्ति उदाहरंता"। सूत्र०१ श्रु०१३ अ०। उदाहरण न०(उदाहरण) उदाहियते प्राबल्येन गृह्यतेऽनेन दार्टान्तिकोऽर्थ इत्युदाहरणम् / दश०१ अ० / उत्पत्तिधर्मकत्वात्सा-- ध्यसाधयत्तिद्धर्मभावे दृष्टान्ते, यथा घट इति वैधोदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाकाशमिति / सूत्र०१ श्रु०१२ अ०। विशे०। __ मूलभेदतो द्वैविध्यं निदर्शन्नाह। तत्थोदाहरणं दुविहं, चउट्विहं होइ एकमेकं तु / हेऊ चउदिवहो खलु, तेण उ साहिजए अत्थ / / तत्र शब्दो वाक्योपन्यासार्थो निर्धारणार्थो वा / उदाहरणं पूर्व-वत्तच्च मूलभेदतो द्विविधं द्विप्रकारं चरितकल्पितभेदादुत्तरभेदतस्तु चतुर्विधं भवति तयोर्द्वयोरेकैकमुदाहरणमाहारणतद्देशतद्दोषोपन्यासभेदात्तका वक्ष्यामः। नायं आहरणं ति, दिटुंतोवमनिदरिसणं चेव। एग8 तं दुविहं, चउव्विहं चेव नायव्वं // 52|| ज्ञायतेऽस्मिन्सति दान्तिकोऽर्थ इति ज्ञातम्। अधिकरणे निष्ठाप्रत्ययः / तत्रोदाहियते प्राबल्येन गृह्यतेऽनेन दाान्तिकोऽर्थ इत्युदाहरणमिति दृष्टमर्थमन्तं नयतीति दृष्टान्तः / अतीन्द्रियप्रमाण-दृष्ट संवेदननिष्ठां नयतीत्यर्थः। उपनीयतेऽनेनदान्तिकोर्थः इत्युपमानम्। तथा च निदर्शनं निश्चयेन दर्श्यते अनेन दार्शन्तिक एवार्थ इति निदर्शनम् (एगटुंति) इदमेकार्थमे कार्थिक जातम् इह च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि सामान्यविशेषयोः कथंचिदेकत्वादत एव सामान्यस्यापि प्राधान्यख्यापनार्थमेकवचनाभिधानमेकार्थ-मित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्गमनिकामात्रमेतदिति गाथार्थः। साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविधमित्यादितद्वैविध्यादिप्रदर्शनायाह / चरियं च कप्पियं वा, दुविहं तत्तो चउविहेकेकं / आहरणे तद्देसे , तद्दोसे चेवुपन्नासे / / 53|| चरितं कल्पितं चेति द्विविधमुदाहरणम् / तत्र चरितमभिधीयते यद्वृत्तान्तेन कस्यचिद्दान्तिकार्थप्रतिपत्तिर्जन्यते / तद्यथा दुःखाय निदानं यथा ब्रह्मदत्तस्य / तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते तेन कस्यचिद्दान्तिकार्थप्रतिपत्तिर्जन्यते / यथा पिप्पलपत्रैरनित्यतायामित्युक्तं च "जह तुभेतह अम्हे, तुडभे विय होहि य जहा अम्हे। अप्पाहेइ पडतं, पंडुयफ्तं किसलयाणं। नवि अत्थिनवि य होही, उल्लावो किसलपंडुपत्ताणं / उवमा खलु एस कता भवियजणविवोहणढाए'' इत्यादि आहेदमुदाहरणं दृष्टान्त उच्यते तस्य च साध्यानुगमादिलक्षणमित्युक्तं च "साध्ये नानुगमो हेतोः साध्याभावे च नास्तिता / ख्याप्यते यत्र दृष्टान्ते, स साधर्म्यतरो द्विधा" अस्य पुनस्तल्लक्षणाभावात्कथमुदाहरणत्वमित्यत्रोच्यते तदपि कञ्चित्साध्यानुगमादिना दार्शन्तिकार्थं प्रतिपत्तिजनकत्वात्फलत उदाहरण इहापि च सोऽस्त्येवेति कृत्वा किं नोदाहरणतेति साध्यानुगमादिलक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथंचिद्भेदवादिन एव युज्यते नान्यस्यैकान्तभेदाभेदयोस्तद्भावादिति / तथाहि सर्वथा प्रतिज्ञा दृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वा-दिप्रतिबन्धदर्शनमपि कृतानुपयोग्येव भिन्नवस्तुधर्मत्वात्सामान्यस्य च परिकल्पितत्वादसत्वादित्थमपि च तद्लेन साध्यार्थप्रतिबन्धकल्पनायामतिप्रसङ्गादित्यत्र बहुवक्तव्यं तत्तुनोच्यतेग्रन्थविस्तरभयादिति। एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदभावो भावनीय इति / अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनितद्धर्भसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवत्यन्यथा तस्मिन् तत्प्रतिपत्त्यसंभव इति कृतं प्रसङ्गेन। प्रकृतं प्रस्तुमः / चरितं च कल्पितं चेत्यनेन विधिना द्विविधम् / पुनश्चतुर्विधं चतुःप्रकारमेकैकं कथमत आह / उदाहरणं तद्देशस्तदोषश्चैवमुपन्यास इति। तत्रोदाहरणशब्दार्थ उक्त एव। तस्य देशस्तद्देशः / एवं तद्दोषः / उपन्यासनमुपन्यासः स च तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः / ___ साम्प्रतमुदाहरणमभिधातुकाम आह। चउहा खलु आहरणं, होइ अवाओ उवायठवणा य। तह य पडुप्पन्नविणा-समेव मढमं चउविगप्पं // 54 // चतुर्दा खलूदाहरणं भवति। अथ चतुर्दा खलूदाहरणे विचार्यमाणे भेदा भवन्ति / तद्यथाअपायः उपायः स्थापना च / तथा च प्रत्युत्पन्नविनाशमेवेति / स्वरूपमेषां प्रपञ्चेन भेदतो नियुक्तिकार एव वक्ष्यते / दश० नि० 1 अ० / आव० / (अपायादिशब्देषु अपायाधुदाहरणादि) एकदेशप्रसिद्ध्या सकलसिद्ध्यर्थकथने, कर्मणिल्युट्- इष्ट-सिद्ध्यर्थमुच्यमाने दृष्टान्ते, / प्रकृतसिद्ध्यर्थनिदर्शनरूपे उपोद्धृते च / करणे-ल्युट्- न्यायमते प्रतिवादिना प्रयुक्तप्रतिज्ञादिपञ्चकान्तर्गते व्याप्तिपक्षधमताप्रदर्शक, वाक्यभेदे कथनमात्रे, लक्षणसम्बद्धतया प्रामाणिकवाक्योपन्यासे , कथा प्रसङ्गे च / भावेल्युट् वाच० / काल्पनिकमप्युदाहरणं भवति / न चैतदनुपपन्नमारपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानाद्यदाह भगवान् भद्रबाहुस्वामी "चरियं च कप्पियंवा, आहरणं दुविहमेव पण्णत्तं। अट्ठस्स माहणट्ठाइँ धणमिव तु पणट्ठाण" नं०