________________ उदायण 520 - अभिधानराजेन्द्रः - भाग 2 उदायण भावः। अन्यदा सा दासी अहं सुवर्णवर्णा सुरूपा भवामीति चिन्तयित्वा एकां गुटिकां भक्षितवती सुवर्णवर्णा सुरूपा जाता / ततस्तस्याः सुवर्णगुलिकेति नामजातम्। अन्यदासा चिन्तयतिभोगसुखमनुभवामि एष उदायनराजा मम पिता अपरे मत्तुल्याः केऽपि राजानो न सन्तीति चण्डप्रद्योतमेव मनसि कृत्वा द्वितीयां गुटिकां भक्षितवती तदानीं तस्य चण्डप्रद्योतस्य स्वप्ने देवतया कथितं वीतभयपत्तने उदायनराज्ञोदासी सुवर्णगुलिकानाम्नी सुवर्णव-णाऽतीव रूपवती त्वद्योग्यास्ति / चण्डप्रद्योतेन सुवर्णगुलिकायाः समीपेदूतः प्रेषितः।दूतेन एकान्तेतस्या एवं कथितं चण्डप्रद्योतस्त्वामीहते / तया भणितमत्र चण्डप्रद्योतः प्रथममायातु तं पश्यामि पश्चाद्यथारुच्या तेन सह यास्यामि दूतेन गत्वा तस्या वचनं चण्ड-प्रद्योतस्योक्तं सोऽपि अनिलगिरिहस्तिनमधिरुह्य रात्रौ तत्रायातः। पृष्टस्तया रुचितश्च / सा भणति यदीमा प्रतिमा सार्द्ध नयसि तदाहमायामि नान्यथेति ततस्तेन तत्स्थानस्थापनयोग्यान्या प्रतिमा तदानीं नास्तीति तस्यां रात्रौ तत्र उषित्वा स्वनगरे पश्चाद्गतः / तत्र तादृशीं जिनप्रतिमां कारयित्वा पुनरत्रायातस्तांप्रतिमा तत्र स्थापयित्वा मूलप्रतिमां दासी च गृहीत्वा उज्जयिनीं गतः / तत्रानलगिरिणा मूत्रपुरीषे कृते तद्गन्धेनं वीतभयपत्तनसत्का हस्तिनो निर्मदा जाताः। उदायनराजेन तत्कारणं गवेषितम् / अनलगिरि-हस्तिनः पदं दृष्टम् / उदायनेन चिन्तितं स किमयमत्रायात्ः गृह-मानुषैरुक्तं सुवर्णगुलिका न दृश्यते राज्ञा उक्तं चेटी चण्डप्रद्योतेन गृहीता प्रतिमा विलोकयन्तु तैरुक्तं प्रतिमा दृश्यते परं पुष्पाणि म्लानानि दृश्यन्ते राज्ञा गत्वा स्वयं प्रतिमा विलोकिता पुष्पम्ला-नदर्शनेन राज्ञा ज्ञातं नेयं सा प्रतिमा किं त्वन्येति विषण्णेन राज्ञा दूतश्चण्डप्रद्योतान्तिके प्रेषितः / मम दास्या नास्ति कार्य प्रतिमां त्वरितं प्रेषयेति दूतेन चण्डप्रद्योतस्योक्तं चण्ड प्रद्योतः प्रतिमां नार्पयति तदा सैन्येन समं ज्येष्ठमास एवोदयनश्चलितः / यावन्म-रुदेशे तत्सैन्यमायातं तावज्जलाप्राप्त्या तत्सैन्यःतृषाक्रान्तंव्या-कुलीवभूव। तदानीं राज्ञा प्रभावतीदेवश्चिन्तितः तेन समागत्य त्रीणि पुष्कराणि कृतानि तेषुजललाभात्सर्वं सैन्यं सुस्थं जातं क्रमेण उदायनराजा उज्जयिनी गतः। कथितवांश्व भो चण्डप्रद्योत तव मम च साक्षाद्युद्धं भवतु लोकेन मारितेन अश्वस्थेन रथस्थेन वा त्वया मया च युद्धमङ्गीकुरु चण्डप्रद्योतनोक्तं रथस्थेनैव त्वया मया च योद्धव्यम् / प्रभाते चण्डप्रद्योतः कपटं कृतवान् स्वयं अनलगिरिहस्तिनमारुह्य सङ्ग्रामाङ्गणे समायातः उदायनस्तु स्वप्रतिज्ञानिर्वाही रथारूढः संग्रामाङ्गणे समायातः। तदानीमुदायनेन चण्डप्रद्योतस्यउक्तत्वमसत्यप्रतिज्ञो जातः कपट च कृतवानसि तथापि तव मत्तो मोक्षो नास्तीति भणता उदायनेन रथो मण्डल्यां क्षिप्तः। चण्डप्रद्योतेन तत्प्रष्ठोऽनलगिरिहस्ती वेगेन क्षिप्तः / स च हस्ती यं यं पादमुत्क्षिपति तं तमुदायनः शरैर्विध्यते यावत् हस्ती भूमौ निपतितः। तत्स्कन्धादुत्तरन् प्रद्योतो बद्धः तस्य ललाटे मम दासीपतिरित्यक्षराणि लिखितानि / तत उदायनराजेन चण्डप्रद्योतदशे स्वाधिकारिणः स्थापिताः स्वयंतुचण्डप्रद्योतं काष्ठपञ्जरे क्षिप्त्वा सार्द्धचनीत्वा स्वदेश प्रति चलितः / सा प्रतिमा तु ततो न उत्तिष्ठतीति तत्रैव सा मुक्ता। अव्यवच्छिन्नप्रयाणैश्चलितस्य अन्तरा वर्षाकालः समायातस्तेन रुद्धो दशभीराजभिवूलीप्राकारं कृत्वा मध्ये स रक्षितः / सुखेन तत्र तिष्ठति यत्स्वयंभुङ्क्तेतचण्डप्रद्योतस्यापि भोजयति। एकदापर्युषणादिनमायातं तदा उदायनेन उपवासः कृतः सृपकारैः चण्डप्रद्योतः पृथग भोजनार्थ पृच्छ्यते तैरुक्तमद्य पर्युषणादिने उदायनराजा उपोषितोऽस्तीति यद्भवतो रोचतेतत्पच्यते। चण्डप्रद्योतेनोक्तं ममाप्यद्योपवासोऽस्तिन ज्ञातं मयाद्य पर्युषणा दिनं सूपकारैः चण्डप्रद्योतस्य उक्तमुदायनराजाय तेनापि चिन्तितं जानाम्यहं यथायं धूर्तसाधर्मिकोऽस्ति तथाप्यस्मिन् बद्धे मम पर्युषणानशुध्यति चण्डप्रद्योतो मुक्तः क्षामितश्च तदक्षराच्छादननिमित्तं रत्नपट्टस्तस्य मूर्ध्निबद्धः / स्वविषयश्च तस्य दत्तः। ततः प्रभृति पट्टबद्धा राजानो जाताः / मुकुटबद्धाश्च पूर्वमप्यासन् वर्षारात्रे व्यतिक्रान्ते उदायनराजस्ततः प्रस्थितः व्यापारार्थं योवणिग्वर्गस्तत्रायातः स तत्रैव स्थितः दशभीराजभिर्वासितत्वाद्दशपुरं नाम नगरं प्रसिद्धंजातम्। अन्यदा सउदायनराजः पौषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति / पूर्वरात्रिसमय च तस्यैतादृशोऽभिप्रायः समुत्पन्नः धन्यानि तानि ग्रामाकरनगराणि यत्र श्रमणो भगवान् श्रीमहावीरो विरहति / धन्यास्ते राजेश्वरप्रभृतयो ये श्रमणभगवतः श्रीमहावीरस्यान्तिके केवलिप्रज्ञप्त धर्म शृण्वन्ति / पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकं द्वादशविधं श्रावकधर्मश्च प्रतिपद्यन्ते / तथा मुण्डीभूत्वा आगारादनगारितां व्रजन्ति / ततो यदि श्रमणभगवान् श्रीमहावीरः पूर्वानुपूर्त्या चरन् यदीहागच्छेत्त-तोऽहमपि भगवतोऽन्तिके प्रव्रजामि / उदायनस्यायमध्यवसायो भगवता ज्ञातः प्रातश्चम्पातःप्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवसृतः / तत्र पर्षन्मिलिता उदायनोऽपि तत्रायातो भगवदन्तिके अहं प्रव्रजिष्यामि परं राज्यं कस्मैश्विद्ददामीत्युक्त्वा भगवन्तं वन्दित्वास्वगृहाभिमुखं चलितः / भगवतापि प्रतिबन्ध मा कार्षीरित्युक्तम् / ततोहस्तिरन्तमारुह्य उदायनराजः स्वगृहे समायातः / तत उदानस्यैतादृशोऽध्यवसायः समुत्पन्नः यद्यहं स्वपुत्रमभीचिकुमार राज्ये स्थापयित्वा प्रव्रजामि तदायं राज्ये जनपदे मानुष्यकेषु कामभोगेषु मूर्छितोऽनाद्यनन्तं संसारकान्तारंभ्रमष्यिति ततः श्रेयः खलु मम निजकं केसिकुमारं राज्ये स्थापयितुम् / एवं संप्रेक्ष्य शोभने तिथिकरणमुहूर्ते कौटुम्बिकपुरुषनाकार्य एवमवादीत् / क्षिप्रमेव के शिकुमारस्य राज्याभिषेकसामग्रीमुपस्थापयत तैः कृतायां सर्वसामग्यां केशिकुमारो राज्येऽभिषिक्तः / ततस्तत्र केशिकुमारो राजा जातः / उदायनराजश्व केशिकुमारंराजानं पृष्ट्वा तत्कृतनिष्क्रमणाभिषेकः श्रीमहावीरान्तिके प्रव्रजितः बहूनि षष्ठाष्टमदशम-द्वादशमासार्द्धमासक्षपणादीनि तपः कर्माणि कुर्वाणो विहरति / अन्यदा तस्य उदानयराजर्षेरन्तप्रान्ताहारकरणेन महान् व्याधिरुत्पन्नः वैद्यैरुक्तं दध्यौषधं कुरु / स च उदायनराजर्षिर्भगवदाज्ञया एकाक्येव विहरति / अन्यदा विहरन् वीतभयगतः / तत्र तस्य भागिनेयः केशिकुमारराजोमात्यैर्भणितः स्वामिन्नेष उदायनराजर्षिः परीषहादिपराभूतः प्रव्रज्यां मोक्तुकामः एकाक्येव इहायातः / तव राज्य मार्गयिष्यति / स प्राह दास्यामि तैरुक्तं नैप राजधर्मः / पुनः स प्राह तर्हि किं करिष्यति / ते प्राहुर्विषमिश्रमस्य दीयते राज्ञोक्तं ततस्तैरेकस्याः पशुपाल्या गृहे विषमिश्रितं दधि कारितं तेषां शिक्षया तया तस्य तदत्तमुदायनभक्तं यावद्देवतयाऽपहृतम्। उक्तं च तस्य देवतया महर्षे ! तव विषं दत्तं दध्यान्तस्तेन दध्यौषधं परिहर / तद्वाक्याद्दधि परिहतं रोगो बर्द्धितुमारब्धः। पुनस्तेन दध्यौषधं कर्तुमारब्धं पुनरपि तदन्तर्विषं देवतयाऽपहृतम्। एवं वारत्रयं जातम्।अन्यदा देवता प्रमत्ता जाता तैश्च विष दत्तम् / तत उदायनराजर्षिर्बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धस्तस्य शय्यातरः कुम्भकारस्तदानी क्वचिद्यामान्तरे कार्यार्थं गतोऽभूत् कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता सकलमपि पुरमाच्छादितम् / अद्यापि तथैवास्ति शय्यातरः कुम्भकारस्तु शनिपल्ल्यां मुक्तः / उत्त०१८ अ० /