________________ उदायण 816 - अभिधानराजेन्द्रः - भाग 2 उदायण तेनोक्तं तत्राहं कथंयामि। ताभ्यां करतले समुत्पाट्य स नगरोद्याने मुक्तः / ततो लोकस्तं पृच्छति / किं त्वया तत्राश्चयं दृष्टम् / स भणति / दृष्ट श्रुतमनुभूतं पञ्चशैलद्वीपं मया यत्र प्रशस्ते हासाप्रहासाभिधे देव्यौ स्तः / अत्र कुमारनन्दिना तत्र स्वाङ्गुष्ठेऽग्निमारचयित्वा मस्तकं यावत्स्वशरीरं ज्वालयितुमारब्धः / तदा मित्रेणाऽयं वारितः भो मित्र ! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तम्। महानुभाव ! दुर्लभं मनुष्यजन्म मा हारय तुच्छमिदं भोगसुखमस्ति / किं च यद्यपि त्वं भोगार्थी तथापि स्वधर्मानुष्ठानमेव कुरु यत उक्तं / "धणओ धणच्छियाणं, कामत्थीणं च सत्थकामकरो। सग्गापवग्गसंगमहेऊ जिणदेसिओ धम्मो' |1| इत्यादि शिक्षावादैमित्रेण स वार्यमाणोऽपि इङ्गिनीमरणेन स मृतः। पञ्चशैलाधिपतिजीतः तन्मित्रस्य श्रावकस्य महान् खेदो जातः। अहो! भोगकामार्थे जना इत्थं क्लिश्यन्ति जानन्तोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म इति सश्रावकः प्रव्रजितः।क्रमेण कालं कृत्वा अच्युतदेवलोके समुत्पन्नः / अवधिना स स्ववृत्तान्तं जानाति स्म / अन्यदा नन्दीश्वरयात्रार्थ सर्वदेवेन्द्राश्चलिताः स श्रावकदेवोऽपि अच्युतेन्द्रेण समं चलितः। तदा पञ्चशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गलेपटहो लग्नः उत्तारितो नोत्तरति / हासाप्रहासाभ्यां उक्तम् / इयं पञ्चशैलद्वीपवासिनो स्थितिः यन्नन्दीश्वरद्वीपयात्रार्थ चलितानां देवेन्द्राणां पुरः पटहं वादयन् विद्युन्मालिदेवस्तत्र यातिततस्त्वं खेदं मा कुरु गललग्नमिमं पटहं वादयन् गीतानि गायन्तीभ्यां आवाभ्यां सह नन्दीश्वरद्वीपेयाहि। ततःसतथा कुर्वन्नन्दीश्वर-द्वीपोद्देशेन चलितः / श्रावकदेवस्तंसखेद पटहं वादयन्तं दृष्ट्वा उपयोगेनोपलक्षितवान्। भणति च भोः त्वं मां जानासि स भणति। कः शक्रादिदेवान् नजानाति। ततस्तं श्रावकदेवः तस्य स्वप्राग्भवस्वरूपं दर्शयति स्म / सर्व पूर्ववृत्तान्तमाख्याति / ततः संवेगमापन्नः स देवो भणति / तदिदानीमहं किं करोमि। श्रावकदेवो भणति श्रीवर्द्धमानस्वामिनः प्रतिमां कुरु यथा तव सम्यक्त्वं सुस्थिरं भवति। यत उक्तम्। "जो कुव्वइ जिणपडिम, जिणाण जियरागदोसमोहाणं। सो पावइ अन्नभवे, सुहजणणं धम्मवररयणं' अन्यच्च / / "दारिदं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ / अवमाणरोयसोआ, न हुंति जिणविंवकारीण॥२॥" ततः स विद्युन्माली महाहिमवच्छिखराद्गोशीर्षचन्दनदारु छेदयित्वा श्रीवर्द्धमानस्वामिप्रतिमा निर्वर्तितवान् / ताञ्च मञ्जूषायां क्षिप्तवान् / तस्मिन्नवसरे षण्मासान् यावदितस्ततो भ्रमन् वाहनं वायुभिरा-स्फाल्यमानं विलोकितवान् / तत्र गत्वा चासौ तमुत्पातमुपशामि-तवान् / सांयात्रिकाणां च तां मञ्जूषां दत्तवान्, भणितवांश्च / देवा-धिदेवप्रतिमा चात्रास्ति यत्र चेयं विशेषपूजामाप्नोति तत्रेयं देया देवाधिदेवनाम्नैवेयमुद्घाटयिष्यते भवद्वाहनेऽस्यां स्थितायां न कोऽप्युपद्रवो भविष्यति / ततस्तां लात्वा सांयात्रिका वीतभयपत्तनं प्राप्ताः / तत्रोदायनराजा तापसभक्तस्तस्य सा मञ्जूषा दत्ता। कथितञ्च सुरवचनं मिलितश्च तत्र ब्राह्मणादिको भूरिलोकः भणति च गोविन्दाय नमः इत्युक्ते मञ्जूषा नोद्घाटिता। तत्र के चित् भणन्ति / अत्र देवाधिदेवश्चतुमुखो ब्रह्मास्ति अन्ये केचिद्वदन्ति अत्र चतुर्भुजो विष्णुरेवास्ति / केचिद्भणन्ति अत्र महेश्वरो देवाधिदेवोऽस्ति / अस्मिन्नवसरे तत्रोदायनराजपट्टराज्ञी चेटकराजपुत्री प्रभावती नाम्नी श्रमणोपासिका तत्रायाता। तया तस्या मञ्जूषायाः पूजां कृत्वा एवं भणितं "गयरागदोसमर्माहो, सव्वन्नू अट्ठपाडहरेसंजुत्तो / देवाहिदेवगुरुओ, अइसमे दंसणं देउ।।१।।" एवमुक्त्वा तया मञ्जूषायां हस्तेन परशुप्रहारो दत्तः उद्घाटिता सा मञ्जूषा तस्यां दृष्टाऽतीव सुन्दराम्लानपुष्पमालालकृता श्रीवर्द्धमानस्वामिप्रतिमा जातजिनशासनोन्नतिः अतीवानन्दिता प्रभावती एवं बभाण / 'सव्वन्नु सव्वदं सण, अपुणभवभवियजिनमणाणंद / जय चिंतामणि जय गुरु, जय जय जिणवीर अकलंको॥१॥" तत्र प्रभावत्या अन्तःपुरमध्ये चैत्यगृह कारितं तत्रेयं प्रतिमा स्थापिता। तां च त्रिकालं सा पवित्रा पूजयति / अन्यदा प्रभावती राज्ञी तत्प्रतिमायाः पुरो नृत्यति राजा च वीणां वादयति तदानीं सराजा तस्यां मस्तकं न पश्यति। राज्ञोऽधृतिर्जाता हस्ताद्वीणा पतिता राइया पृष्टं किं मया दुष्टं नर्तितं राजा मौनमालम्ब्य स्थितः / राजा अतिनिर्बन्धे उक्तवान् यस्तव मस्तकमपश्यन्नहं व्याकुलीभूतोहस्ताद्वीणां पातितवान् सा भणति मया सुचिरं श्रावकधर्मः न काधिन्मममरणा-- गीतिरस्ति अन्यदा तत्प्रतिमापूजनार्थं स्नाता सा राज्ञी स्वचेटीं प्रति वस्त्राण्यानयेत्युवाच। तया चरक्तानि वस्त्राण्यानीतानि राज्ञीक्रुद्धा प्राह / जिनगृहे प्रविशन्त्या मम रक्तानि वस्त्राणि ददासीत्युक्त्वा चेटीमादर्शन हतवती मर्मणि प्रत्याहारलग्नात्सा मृता। प्रभावत्या चिन्तितं हा ! मया निरपराधत्रसजीवबधकरणाव्रतं भनमतः परं किं मे जीवितव्येन ततस्तया राइया राज्ञे उक्तम् / अहं भक्तं प्रत्याख्यामि राज्ञा नैवेति प्रतिपादितं तथा पुनस्तथैवोच्यते तदा राज्ञा उक्तं च यदि त्वं देवी भूत्वा मां प्रतिबोधयसि तदा त्वं भक्तं प्रत्याख्याहि / राड्या तद्वचोङ्गीकृतं भक्तंप्रत्याख्याय समाधिना मृता देवलोकं गता देवोऽभूत् / तां च प्रतिमां कुब्जा देवदत्ता दासी त्रिकालं पूजयति। प्रभावती देवस्तु उदायनं राजानं प्रतिबोधयति / न च स तं बुध्यते राजातु तापसभक्तोऽतः स देवस्तापसस्वरूपं कृत्वाऽमृतफलानि गृहीत्वा गतो राज्ञे दत्तवान् / राज्ञा तानि आस्वादितानि पृष्टश्च तापसःक्व एतानि फलानि तापसो भणति। एतन्नगराऽभ्यर्णेऽस्मदाश्रमोऽस्ति तत्रैतानि फलानि सन्ति / राजा तेन सममेकाक्येव तत्र गतः। तापसैस्समाचारैः स हन्तुमारब्धः राजा ततो नष्टः / तस्मिन्नेव वने जैनसाधून ददर्श तेषामसौ शरणमाश्रितः। भयं मा कुर्विति राजाआश्वासितः तापसा निवृत्ताः साधुभिश्च तस्यैवं धर्म उक्तः / 'धम्मो चेवेत्थसत्ताणं, सरणं भव सायरे। देवं धम्म गुरुंचेव, धम्महत्थी परिक्खए // 1 // दस अट्ठदोसरहिओ, देवो धम्मो वि निउणदयसहिओ। सुगुरू य बंभयारी, आरंभपरिगहा विरओ / / 2 // " इत्यादिकोपदेशेन स राजा प्रतिबोधितः / प्रतिपन्नो जिनधर्म प्रभावती देव आत्मानं दर्शयित्वा राजानं च स्थिरीकृत्वा स्वस्थाने गतः। एवमुदायनराजा श्रावको जातः। इतश्च गन्धारदेशवास्तव्यः सत्यनामा श्रावकः सर्वत्र जिनजन्मभूम्यादितीर्थानि वन्दमानो वैतादयं यावद्गतः तत्र शाश्वतप्रतिमावन्दनार्थमुपवासत्रयं कृतवान् तपस्तुष्ट्या तदधिष्ठातृदेव्यास्तस्य शाश्वतजिनप्रतिमा दर्शिता तेन च वन्दिता / अथ तया देव्या तस्मै श्रावकाय कामितगुटिका दत्ता ततः स निवृत्तो वीतभयपत्तने जीवितस्वामिप्रतिमां वनिदतुमायातः गोशीर्षचन्दनमयीं तां ववन्दे / दैवात्तस्याऽतिसारो रोग उत्पन्नः कुब्जया दास्या प्रतिचरितः स नीरुग् जातः तुष्टेन तेन तस्यैकामाङ्गुलिका गुटिका दत्ता कथितश्च तासां चिन्तितार्थसाधकप्र