________________ उदय 806 - अमिधानराजेन्द्रः - भाग 2 उदय व्यवच्छिन्नैका मिश्रप्रकृतिरपनीयते शेषा नवनवतिस्तत्र सम्यक्त्यानुपूर्वीचतुष्कलक्षणं प्रकृतिपञ्चकं क्षिप्यते जातं चतुःशतं यतः सम्यक्त्वमत्र गुण उदयत एव तथा विरतसम्यग्दृशां यथास्वं चतस्रोऽप्यानुपूर्व्य इति (वितियकसायत्ति) द्वितीयकषाया अप्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः। मणुतिरिणुपुट्विविउवट्ठ, दुहगअणाइजदुगसत्तरस छेओ। सत्तासीइदेसितिरिगइ, आउनिउज्जोय तिकसाया॥१६|| (मणुतिरिणुपुटिवत्ति) आनुपूर्वी शब्दस्य प्रत्येक योजनान्मनुजानुपूर्वी तिर्यगानुपूर्वी (विउव्वट्ठत्ति) वैक्रियाष्टकं वैक्रियशरीरवैक्रियाङ्गोपाङ्ग देवानुपूर्वीदेवायुर्नरकगतिर्नरकानुपूर्वीनरकायुर्लक्षणं दुर्भगमनादेयद्विकम् / अनादेयायशोकीर्तिरूपमित्ये-तासां सप्तदशप्रकृतीनामविरतसम्यग्दृष्टावुदयं प्रतीत्य छेदो भवति ततः इमाः सप्तदश प्रकृतयः पूर्वोक्तचतुःशतादपनीयन्तेशेषाः (सगसीइदेसित्ति) (5) सप्ताशीतिर्देशविरते उदये भवति। इदमत्र तात्पर्यम्। द्वितीयकषायोदयेहि देशविरतेर्लोभ आगमे निषिद्धः / यदागमः "बीयकसायाणुदये, अप्पचक्खाणवरण / नामधिज्जाणं / सम्मइंसणलंभं, विरयाविरयं न उ लहंति" नापि पूर्वप्रपन्नदेश-विरत्यादेर्जीवस्य तदुदयसंभवस्तेनोत्तरेषु तदुदयाभावः मनुजानुपूर्वीतिर्यगानुपूर्योस्तु परभवादिसमयेषु त्रिष्वपान्तरालगतावुदयसंभवः / स च यथायोगं मनुजतिरश्चां वर्षाष्टकादुपरिष्टात्संभविषु देशविरत्यादिषु गुणस्थानेषु न संभवति / देवत्रिकं नारकत्रिकं च देवनारकवेद्यमेव / न च तेषु देशविरत्यादेः संभवः वैक्रियशरीरवै-क्रियाङ्गोपाङ्गनाम्नोस्तु देवनारकेषूदयः। तिर्यग्मनुष्येषु तु प्राचुर्ये --णाविरतसम्यग्दृष्टयन्तेषु / यस्तूत्तरगुणस्थानेष्वपि केषांचिदागमे विष्णुकुमारस्थूलभद्रादीनां वैक्रियद्विकस्थादयः श्रूयतेस प्रविरलतरत्वादिना केनापि कारणेन पूर्वोचार्यंण विवक्षित इत्यस्माभिरपि नेह विवक्षित इति दुर्भगमनादेयद्विकमित्येतास्तु तिस्रः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययान्नोदयन्त इत्येता अविरतिव्यवच्छिन्ना इति (तिरिगइआउत्ति) तिर्यक्शब्दस्य प्रत्येकं योगात् तिर्यग्गतितिर्यगायुः (निउज्जोयत्ति) नीचैर्गोत्रमुद्योतं वा (तिकसा यत्ति) तृतीयः कषायः त्रिकषायः मयूरव्यंसकादित्वात्पूरणप्रत्य-यलोपी समासः / प्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः (6) अट्ठच्छेओ इगसी, पमत्तिआहारजुगलपक्खेवा। थीणतिगहारदुग, छेओछसयरिअपमत्ते / / 17 / / पूर्वोक्ताष्टप्रकृतीनां देशविरतेः उदयमाश्रित्य छेदो भवति ततः प्रमत्त एकाशीतिर्भवति आहारकयुगलप्रक्षेपात् / इदमत्र हृदयम् / तिर्यग्गतितिर्यगायुषी तिर्यग्वेद्य एव तेषुचदेशविरतान्तान्येव गुणस्थानानि घटन्ते नोत्तराणीत्युत्तरेषु तदुदयाभावः / नीचैर्गोत्रं तु तिर्यग्गतिस्वाभाव्यात् ध्रुवौदयिकं न परावर्त्तते ततश्च देशविरतस्यापि तिरश्चो नीचैर्गोत्रोदयोस्त्येव मनुजेषु पुनः सर्वस्य देशविरतादेर्गुणिनो गुणप्रत्ययादुचैर्गोत्रः मेवोदेतीत्युत्र नीचे र्गोत्रोदयाभावः / उद्योतनामस्वभावतस्तिर्यग्वेद्यं तेषु च देशविरतान्तान्येव गुणस्थानानि नोत्तराणीत्युत्तरेषु तदुदयाभावः / यद्यपि यतिवैक्रियेप्युद्योतनामो देति "उत्तरदेहि च देवजई इति वचनात्' तथापि स्वल्पत्वादिना केनापि कारणेन पूर्वाचार्यैर्न विवक्षितं तृतीयकषायोदये हि चारित्रजात एव न भवति / उक्त च पूज्यैः "तइयकसाया-णुदए, पञ्चक्खाणा- | वरणनामधिजाणं / देसिक्कदेसविरई चरित्तलंभं न उ लहेंति " न च पूर्वप्रतिपन्नचारित्रस्य तदुदयसंभव इत्युत्तरेषु तदुदयाभावः। इत्येता अष्टौ प्रकृतयः पूर्वोक्तसप्ताशीतेरपनीयन्ते शेषा एकोनाशीति : / तत आहारक युगलं क्षिप्यते यतः प्रमत्तयतिराहारकयुगलस्योदयो भवतीत्येकाशीतिः / (थीणतिगत्ति) स्त्यानर्द्धित्रिकं निद्रा 2 प्रचला 2 स्त्यानर्द्धिरूपमाहारकद्विक-माहारकशरीराहारकाङ्गोपाङ्गलक्षणमिति (7) प्रकृतिपञ्चकस्य प्रमत्ते छेदो भवति / ततः पूर्वोक्तैकाशीतेरिदं प्रकृतिपञ्चकमपनीयते / शेषाः षट् सप्ततिरप्रमत्ते उदये भवति अत्रायमाशयः / स्त्यानद्धित्रिकोदयः प्रमादरूपत्वादप्रमत्ते न संभवति आहारकद्विकं च विकुर्वाणो यतिरौत्सुक्यादवश्यं प्रमादवशगो भवत्यत इदमप्यप्रमत्ते उदयमाश्रित्य न जाघटीति / यत्पुनरिदमन्यत्र श्रूयते प्रमत्तयति-राहारकं विकृत्य पश्चाद्विशुद्धिवशात्तत्रस्थ एवाप्रमत्ततां यातीति तत्के नापि स्वल्पत्वादिना कारणेन पूर्वाचान विवक्षितमित्यस्माभिरपि न विवक्षितमिति / / 17 / / समत्तंतिमसंघयण-तियगच्छेओ विसत्तरि अपुटवे। हासाइछकअंतो, विसट्ठि अनियट्टि वेयतिगं|१८|| सम्यक्त्वमन्तिमसंहननत्रिक मर्द्धनाराचसं हननकीलिकासंहननसेवार्त्तसंहननरूपमित्येतत्प्रकृतिचतुष्टयस्याप्रमत्ते छेदो भवति। तत इदं प्रकृतिचतुष्कं पूर्वोक्तषट्सप्ततेरपनीयते शेषा द्वासप्ततिः (अपुट्वित्ति) अपूर्वकरणे उदये भवतीति। अयमत्राशयः सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यते इत्यपूर्वकरणादौ तदुदयाभावः / अन्तिमसंहननत्रयोदयेतु श्रेणिरारोढुमेव न शक्यते तथाविधशुद्धेरभावादित्युत्तरेषु तदुदयाभावः (9) (हासाइछक्क-अंतुत्ति) हास्यमादौ यस्य षट्कस्य तत् हास्यादिषट्कं हास्यर-त्यरतिशोकभयजुगुप्साख्यं तस्यान्तोऽपूर्वकरणे भवति संक्लि-टतरपरिणामत्वादेतस्य उत्तरेषां च विशुद्धतरपरिणामत्त्वात्तेषां तदुदयाभाव इति उत्तरेष्वप्ययमुदयव्यवच्छेदहेतुरनुसरणीयः / तत इदं प्रकृतिषट्कं पूर्वोक्तद्विसप्ततेरपनीयते शेषाः / (10) (छसहि-अनियट्टित्ति) षट्षष्टिरनिवृत्तिबादरे भवति / उदयमाश्रित्येति शेषः। (वेयतिग) वेदत्रिकं स्त्रीवेदपुंवेदनपुंसकयेदाख्यम्। संजलणतिगं छ छेओ, सट्ठिसुहम्मि तुरियलोभंतो। उवसंतगुणे गुणसट्टि, रिसहनारायदुगअंतो ||19|| संज्वलनत्रिक संज्वलनक्रोधमानमायारूपमित्येतासां षण्णां प्रकृतिनामनिवृत्तिबादरे छेदो भवति तत्र स्त्रियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयच्छेः ततः क्रमेण पुंवेदस्य नपुंसकवेदस्य संज्वलनत्रयस्य च पुंसस्तु श्रेणिमारोहतः प्रथम पुंवेदस्योदयच्छे दस्ततः क्रमेण स्त्रीवेदस्य षण्ढवेदस्य संज्वलनत्रयस्य। षण्ढस्य तु श्रेणिमारोहतः प्रथमं षण्ढवेदस्योदयच्छेदः ततः स्त्रीवेदस्य पुंवेदस्य संज्वलनत्रयस्य चैतत्प्रकृतिषट्कं पूर्वोक्तषट्षष्टरपनीयते शेषाः (सट्ठिसुहमम्मित्ति) षष्टिः सूक्ष्मा संपराये उदये भवति (11) अत्र चतुर्यलोभान्तश्चतुर्थीलोभान्तः संज्वलनलोभव्यवच्छेद इत्यर्थः / तत इयमेका प्रकृतिः षष्टिरपनीयते शेषा उपशान्तगुणे उपशान्तमोहगुणस्थाने एकोनषष्टिरुदये भवति / (रिसहनारायदुग अंतुत्ति) ऋषभनाराचद्विकं ऋषभनाराचसंहनननाराचसंहननाख्यं तस्यामुपशान्तगुणे भवति प्रथमसंहननेनैव क्षपक श्रेण्यारोहणात् इति क्षीणमोहादौ तदुदयाभावः। उपशमश्रेणिस्तु प्रथमसंहननत्रयेणा-रुह्यते तत इदं प्रकृतिद्वयं पूर्वोक्तैकोनषष्टरपनीयते शेषाः (12)