________________ उदय 808 - अभिधानराजेन्द्रः - भाग 2 उदय देवगतौ अवधिसमा ज्ञानावरणसमा अवधिज्ञानावरणस्येति च देवगतेरपि जघन्यप्रदेशोदयो द्रष्टव्यः / किं कारणमिति चेदुच्यते यावदुद्योतस्योदयो न भवति तावदेवगतौ स्तिबुकसंक्रमो न भवति तत उद्योतवेदकग्रहणम्। उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तावस्थायां देवगतिर्जघन्यप्रदेशोदयः। तथायश्चिरंकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्य अन्तिमेकाले आहारकशरीरी जात उद्योतंच वेदयते तस्याहारकसप्तकस्याजघन्यप्रदेशोदयः चिरकालसमय-परिपालने हि भूयांसः कर्मपुद्गलाः परिसटिता भवन्तीति कृत्वा चिरकालं संयमग्रहणम्। उद्योतकरणग्रहणं प्रागुक्तमेवानुसतव्यम्॥४१७॥ सेसाणं चक्खुसम,तमिव अन्नम्मिवा भवे अचिरा। तजोगा बहुगीउ, पदेययं तस्स ता ताओ॥४१८|| उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावत् यावदेकेन्द्रियोजातस्ततो येषां कर्मणां तस्मिन्नेवैकेन्द्रियभवे उदयो विद्यते तेषां तत्रैव जघन्यप्रेशोदयो वाच्यः / येषां तु कर्मणामनुजगतिद्वीन्द्रियादिजातिचतुष्टयाद्यसंस्थानपञ्चकौदारिकाङ्गापाङ्गसं-- हननषट्कविहायोगतिद्विकत्रससुभगसुस्वरदुःस्वरादिरूपाणां न तत्रोदयसंभवस्तमेकेन्द्रियभवादुद्वृत्य तत्तदुदयायोग्येषु भवेषु उत्पन्नस्य तास्तास्तद्भवयोग्या बह्वीः प्रकृतीवेदनीयमानस्य तद्भ-वयोग्यबहुप्रकृतिवेदनं च पर्याप्तस्योपपद्यते ततः सर्वाभिः पर्याप्तिभिः पर्याप्तस्य जघन्यप्रदेशोदयः। पर्याप्तस्याप्रभूताः बद्धाः प्रकृतय : उदयमागच्छन्ति उदयप्राप्तानां च प्रकृतीनां स्तिबुकसंक्रमो न भवति तथा च सति विवक्षितप्रकृतीनां जघन्यप्रदेशोदयो ज्ञेयः परतो गुणश्रेणीदलिकं प्रभूतमवाप्यते इति स न भवति। क०प्र०। पं०सं०। (5) साम्प्रतमुदयस्य प्रायस्तत्समानत्वाद् दीरणायाश्च लक्षणकथनपूर्वकं कस्मिन् गुणस्थाने कियन्त्यः प्रकृतयस्तस्य भगवतः क्षीणा इत्येतन्निर्दिदिक्षुराह॥ उदओ विवागवो अण-मुदीरणा अपत्ति इह दुवीससयं / सत्तरससएमिच्छे, मीससम्मआहारजिणणुदया।।१३।। इह कर्मपुगलानां यथा स्वस्थितिबद्धानामुदयसमयप्राप्तानां यद्विपाके नानुभवनेन वेदनं स उदय उच्यते (उदीरणाअपत्तित्ति) कर्मापुद्गलानां यथा स्वस्थितिबद्धानां यदप्राप्तकाले वेदनमुदीर-णा भण्यते (इहत्ति) इहोदये उदीरणायां च (दुवीससयंति) द्विवि-शच्छतं द्वाभ्यामधिकविंशं शतं द्विविंशशतं मयूरव्यंसकादित्वात्स-- मासस्तत्सामान्यतोऽधिक्रियते इति शेषः / सप्तदशशतमिच्छन्ति मिथ्यादृष्टिगुणस्थाने उदये भवति / कथमित्याह (मीससम्मआहारजिणणुदयंत्ति) मिश्रं च (सम्मित्ति) सम्यक्त्वं च (आहारत्ति) इहाहारकशब्देन सर्वत्राहारकशरीर आहारकाङ्गोपाङ्ग लक्षणमाहारकद्विकं गृह्यते ततः आहारकं च (जिणत्ति) जिननाम च मिश्रसम्यक्त्वाहारजिनास्तेषामनुदयात् / इदमत्र हृदयं मिश्रोदयस्तावत्सम्यग्मिथ्यादृष्टिगुणस्थान एव भवति सम्यक्त्वोदयस्त्वविरतिसम्यग्दृष्ट्यादौ आहारकद्विकोदयः प्रमत्तादौ, जिननामोदयः सयोगिकेवल्यादौ, भवति / ततइदं प्रकृतिपञ्चकं द्वाविंशतिशतादपनीयते ततो मिथ्यादृष्टिगुणस्थाने सप्तदशशतं भवतीति // 13 // सुहुमतिगायवमिच्छं, मिच्छंतसासणेइगारसयं / / निरयाणुपुट्विणुदया, उण थावरइगविगलअंतो॥१४॥ सूक्ष्मत्रिकं सूक्ष्मापर्याप्तसाधारणरूपम् आतपं च मिथ्यात्वं च | सूक्ष्मत्रिकातपमिथ्यात्वं मिथ्यात्वे मिथ्यादृष्टावन्तो यस्य / तन्मिथ्यात्वान्त एतत्प्रकृतिपञ्चकस्य मिथ्यात्वेऽन्तो भवतीत्यर्थः / अयमत्राशयः / सूक्ष्मनाम्नः उदयसूक्ष्मैकेन्द्रियेषु, अपर्यान्तनाम्नः सर्वेष्वपि अपर्याप्तकेषु , साधारणनाम्नोऽनन्तवनस्पतिषु, आतपनामोदयेषु, बादरपृथिवीकायिकेषु एव नचैतेषु स्थितो जीवः सास्वादनादित्व लभतेनापि पूर्वप्रतिपन्नस्तेषूत्पद्यते सास्वादनस्तुयद्यपि बादरपर्याप्तैकेन्द्रियेषूत्पद्यते तथापि न तस्यातपनामो-दयस्तत्रोत्पन्नमात्रस्यासमाप्तशरीरस्यैव सासादनत्वगमनात् समाप्ते च शरीरे तत्रातपनामोदयो भवति मिथ्यात्वोदयः पुनर्मिथ्यादृष्टावेव तेनैतासां पञ्चप्रकृतीनां मिथ्यादृष्टावुदयस्यान्तस्त-दिदं प्रकृतिपञ्चकं पूर्वोक्तं सप्तदशशतादपनीयते शेष द्वादशशतं सास्वादने उदयं प्रतीत्य भवति। नरकानुपूर्व्यपनयनेच एकादशशतं भवतीत्येतदेवाह। "सासणे इगारसयं नरयाणुपुटिवणुदयत्ति' सास्वादति एकादशशतमुदये भवति नरकानुपूर्व्यनुदयात्नरकानुपूर्व्या उदयो हि नरके वक्रेण गच्छतो जीवस्य भवति / न च सास्वादनो नरक गच्छति यदुक्तं वृहत्कर्मस्तवभाष्ये "नरयाणुपु-व्वियाए, सासण समम्मि होइ नहु उदओ। नरयम्मि जन गच्छइ, अवणिज्जइतेण सा तस्स॥"ततोनरकानुपूर्वी मिथ्यादृष्टिव्यवच्छिन्नसूक्ष्मत्रिकातपमिथ्यात्वलक्षण प्रकृतिपञ्चकं च सप्तदशशतादपनीयते शेषं सास्वादने एकादशशतं भवतीति (2) (अणथावरइगविगलअंतुत्ति) (अणत्ति) अनन्तानुबन्धिनश्चत्वारः क्रोधमानमायालोभाः / स्थावरनामा (इगत्ति) एकेन्द्रियजातिर्विकलाः पञ्चेन्द्रियजात्यपेक्षया असंपूर्णद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातय इत्यर्थः / इत्येतासां नवानां प्रकृतीनां सास्वादनेऽन्त उदयमाश्रित्य भवति / इयमत्र भावना / अनन्ताऽनुबन्धिनामुदये हि सम्यक्त्वलाभ एव न भवति / यदाहु: श्रीभद्रबाहु स्वामिपादाः "पढमिल्लुयाण उदये, नियमा संजोयणा कसायाण। सम्भईसण- लंभ, भवसिद्धीया वि न लहति'' नापि सम्यग्मिथ्यात्वं कोऽप्यनन्तानुबन्ध्युदये गच्छति योऽपि पूर्वप्रतिपन्नसम्यक्त्वोऽनन्तानुबन्धिनामुदयं करोति सोऽपि सास्वादन एव भवतीत्युत्तरेप्वासामुदयाभावः / स्थावर एकेन्द्रियजातिविकलेन्द्रियजातयस्तु यथास्वमेकेन्द्रियविकलेन्द्रियवेद्या एव उत्तरगुणस्थानानितु संज्ञिपञ्चे-न्द्रिय एव प्रतिपद्यन्ते पूर्वप्रतिपन्नोऽपि पञ्चेन्द्रियेष्वेव गच्छतीत्युत्तरेष्वासामुदयाभाव इति॥ मीसे सयमणुपुव्वी-णुदयामीसोदएण मीसंतो। चउसयमजए समाणु पुविखेवावि अकसाया / / 15 / / मिश्रे सम्यग्मिथ्यादृष्टौ शतमुदये भवति-कथमित्याह / (अणुपुव्वीणुदयत्ति) इहानुपुवीं शब्देन नरानुपूर्वीतिर्यगानुपूर्वीदेवानुपूर्वीलक्षणा आनुपूर्वीत्रयी गृह्यते तस्या अनुदयान्मिश्रोदयेन च / अयमत्र भावः / नरकानुपूर्वी तावदुदयमाश्रित्य सास्वादने व्यवच्छिन्ना / इह सा न गृह्यते शेषमानुपूवींत्रिकं मिश्रदृष्ट!देति तस्य मरणाभावात्। "नसम्ममीसो कुणइ कालमिति" वचनात् मिश्रप्रकृतिः पुनरत्रोदये प्राप्यते।ततः सास्वादनव्यवच्छिन्न प्रकृतिनवकर्मानुपूर्वीत्रिकं च पूर्वोक्तैकादशशतादपनीयते शेषातिष्ठति प्रकृतीनां नवनवतिः। तत्र मिश्रप्रकृतिप्रक्षेपं जात शतमिति (मीसंतुत्ति) मिश्रगुणस्थाने मिश्रप्रकृतेरन्तो भवति / एतदुदये हि मिश्रदृष्टिरेव भवति नान्य इति (3) (चउसयमजए समाणुपुस्विखिवत्ति) चतुर्भिरधिकं शत चतुः शतमुदये भवति क्वेत्याह / अयते अविरतिसम्यग्दृष्टौ कथमित्याह। (सम्मत्ति) सम्यक्त्वम् (अणुपुस्वित्ति) आनुपूय॑श्वतस्रः तासां क्षेपात्प्रक्षेपात् / इदमुक्तं भवति पूर्वोक्तशतान्मिश्रगुणस्थान