________________ उदय 807- अभिधानराजेन्द्रः - भाग 2 उदय पतितावधिज्ञानदर्शन एव देवो जातस्तत्रचान्तर्मुहूर्त गते मिथ्या-त्वं प्रतिपन्नस्ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धकुमारभते प्रभूतं दलिकं विकर्षयति उद्वर्त्तयति इत्यर्थः। तत आवलिकां गत्वा अतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः अवध्योरवधिर्ज्ञानावरणाबधिदर्शनावरणावधिर्जघन्यः प्रदेशोदयः।। वेयणियंतरसोगा, चउहिय्व निद्दपलायस्स।। उकस्स ठिई बंधो, पडिभागा पवेइया नवरं / / 406 // द्वयोर्वेदनीययोः सातासातयोः पञ्चानामन्तरायाणां शोकारत्युचैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव वेदितव्यो निद्राप्रचलयोरपि तथैव केवलमुत्कृष्टस्थिति बन्धात् प्रतिभग्नस्य प्रतिपतितस्य निद्राप्रचलयोरनुभवितुं लग्नस्य चेति द्रष्टव्यम् / उत्कृष्टस्थितिबन्धो हि अतिशयेन संक्लिष्टस्य भवति नचातिसं-क्लेशे वर्तमानस्य निद्रोदयसंभवस्तत उक्तमुत्कृष्टास्थितिबन्धात्प्रतिभग्नस्येति द्रष्टव्यम्॥ वरिसवरतिरियथावर, नीयंपि मइसमं नवरं। तिन्नि निहानिद्दा, इंदिय पङ्गुत्तिपढमसमयम्मि||१०|| वर्षवरो नपुंसकवेदस्ततो नपुंसकवेदतिर्यग्गतिस्थाक्रनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानावरणस्येवास्य निद्रानिद्रादयोऽपि तिस्रःप्रकृतयो जघन्यप्रदेशोदयविषये मतिज्ञानावरणवत् भावनीयाः / नवरमिन्द्रियपर्याप्त्यापर्याप्त्यप्रदेशप्रथमसमये इति द्रष्टव्यम् / ततोऽनन्तरसमये उदीरणायाः संभवने जधन्यप्रदेशोदयासंभवात्॥ दंसणमो तिविहे, उदीरणुदए य आलिगं गंतुं॥ सत्तण्ह एवमेवं, उवसमित्तागए देवे||४११|| क्षपितकर्माशे तस्य औपशमिकस्य सम्यग्दृष्ट रौपशमिकसम्यक्त्वात्प्रच्यवमानस्य अन्तरकरणेन स्थितेन द्वितीयस्थितेन सकाशात्सम्यक्त्वादीनां दलिकानि समाकृष्ययान्यन्तराणि चरमसमये आवलिकामात्रभागे गोपुच्छाकारसंस्थाने रचितानि। तद्यथा-प्रथमसयं प्रभूतं दलिकं द्वितीयसमये विशेषहीनं तेषामुदयो दीरणोदय उच्यते तस्मिन् उदीरणोदये आवलिकामानं गत्वा आवलिका यावचरमसमये विशेषहीनं तेषामुदयोदीरणा उदय उच्यते तस्मिन् उदीरणोदये आवलिकामात्रं गत्वा आवलिकामानं यावचरमसमये विशेषहीन समये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यप्रदेशोदयः / तथानन्तानुबन्धिवर्जद्वादशकषायवेदपुरुषवेदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपमशय्य देवलोकं गत्वा एवमेवेति उदीरणोदयचरमसमये तासां सप्तदशप्रकृतीनां जघन्यः प्रदेशोदयः / आसां हि सप्तदशोपशमय्य देवलोकं गतस्य एवमेवेति उदीरणानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन् प्रथमसमये एव द्वितीयस्थितेः सकाशात् दलिकमाकृष्योदयसमयादारभ्य गोपुच्छाकारं विरचयति / तद्यथा उदयसमये प्रभूतं, द्वितीयसमये विशेषहीनं तृतीयसमये जघन्यप्रदेशोदयोलभ्यते।। चउरुवसम्मित्तपच्छा, संजोई यदीहकालसम्मत्ता।। मिच्छत्तगए आवलिगाए संयोजयणाणं तु॥१॥ चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः ततोऽपि मिथ्यात्वप्रत्ययेनासंयोजनात् अनन्तानु-बन्धिनो बध्नाति ततः सम्यक्त्वंगतस्तच दीर्घकालं द्वात्रिंशत्सा-गरोपमाणांशतं यावदनुपालयन् समयसम्यक्त्वप्रभावतः प्रभूतान् पुद्रलान् अनन्तानुबन्धिनां संबन्धिनः प्रदेशसंक्रमतः परिसाटयति। ततः पुनरपि मिथ्यात्वं गतः मिथ्यात्वाप्रत्ययेन च भूयोऽप्यनन्तानुबन्धिनो बध्नाति तस्या आवलिकाया बन्धानवलिकायाश्चरमसमये पूर्वबद्धानामनन्तानुबन्धिन्यः जघन्यः प्रदेशोदय आवलिकायाश्चरमसमये इत्युक्तं संसारे चैकजीवस्य चतुष्कृत्व एव मोहनीयस्योपशमनो भवति न पञ्चकृत्या इति चतुःकृत्वो ग्रहणम्। मोहोपशमनेन किं प्रयोजनमितिचेदुच्यते। इह मोहोपशमं कुर्वन् अप्रत्याख्यानादिकषायेण दलिकमन्यत्र गुणसंक्रमेण प्रभूते संक्रमयति ततः क्षीणमोहे शेषाणां तेषामनन्तानुबन्धिषु बन्धकाले स्तोकमेव संक्रमयति ततो मोहोपशमग्रहणम्। इत्थीए संजमभवे, सव्वनिरुद्धम्मिगंतु मिच्छत्तं। देवीए लहुमिच्छी, जेट्टठिई आलिगं गंतु // 413|| संयमेनोपलक्षितो भवः संयमभवस्तस्मिन् सर्वनिरुद्ध अन्तर्मु--- हूर्तावशेषे स्त्रिया मिथ्यात्वं गतायास्ततोनन्तरभवे देवीभूतायाः शीघ्रमेव पर्याप्ताया उत्कृष्टस्थितिबन्धानन्तरमावलिकां गत्वा आवलिकायाश्वरमसमये स्त्रीवेदस्य जघन्यः प्रदेशोदयः। इयमत्रभावना। क्षपितकर्माशा काचित् स्त्री देशोनां पूर्वकोटिं सावत्संय-ममनुपाल्य अन्तर्मुहूर्ते आयुषोऽवशेषेमिथ्यात्वं गत्वा अन्तरभवे देवी समुत्पन्नाशीघ्रमेव पर्याप्ता ततः उत्कृष्ट संक्लेशे वर्तमाना स्त्रीवेद-स्योत्कृष्टां स्थिति बध्नाति। पूर्वबद्धां च उद्वर्त्तयति तत उत्कृष्ट बन्धारम्भे परतः आवलिकायाश्चरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति। अप्पद्धां जोगचियाणं चउणुकस्सगढिईणं ते। उवरित्थोवनिसेगे, चिरंति वासाइ वेईणं॥४१४॥ अल्पया बन्धाद्धया अल्पेन च योगेन चितानां बद्धानां चतुर्णा-मप्यायुषां ज्येष्ठस्थितीनामुत्कृष्टस्थितीनामन्ते वासी अन्तिमे उपरि सर्वोपरितने समये सर्वस्तोकदलिकनिक्षेपे चिरकालं तीव्रा-सातवेदनया ह्यभिभूतानां क्षपितकर्माशानां तत्तदा£वदानां जघन्यप्रदेशोदयः तीव्रासातवेदनया ह्यभिभूतानां बहवः पुद्गलाः परिसटन्तीति कृत्वा तीव्रसातवेदग्रहणम्। संजोयणा वियोजिय, देवभवे जहन्नगे अइनिरुद्ध। बंधियउक्कस्स ठिई,गंतूणो गेंदिया सन्नी॥१५॥ सव्वलहुनरयगए, निरयगई तम्मि सव्वपज्जत्ते। पुण तेअणु पुट्विउ य गई, तुल्ला नेया भवाइम्मि / / 416|| संयोजनात् अनन्तानुबन्धिनो विसंयोगतः विसंयोजने हिशेषा-णामपि कर्मणांभूयांसो पुद्गलाः परिसटन्ति इति तदुपादानं ततो जघन्यदेवत्वं प्राप्तः / तत्र चाभिनिरुद्ध पश्चिमे अन्तर्मुहूर्ते प्रति-पन्नमिथ्यात्व एकेन्द्रियप्रायोग्यांप्रकृतीनामुत्कृष्टां स्थिति बध्वा सर्वसंक्लिष्ट एकेन्द्रियेषु उत्पन्नस्तत्र चान्तर्मुहूर्त स्थित्वा असंज्ञिषु मध्ये समायातः। देवो हि मृत्वा नाऽसंज्ञिषु मध्ये समायातः गच्छतीति कृत्वा एकेन्द्रियग्रहणम् / ततो संज्ञिभवात् लघु शीघ्रं मृत्वा नारको जातः सर्वपर्याप्तिभिश्च शीघ्र पर्याप्तस्तस्मिन् सर्वपर्याप्ति पर्याप्त नारके नरकगतेजघन्यः प्रदेशोदयः / पर्याप्तस्य हि प्रभूताः प्रकृतयो विपाकोदयमायान्ति उदयमागताश्च स्तिबुकसं-क्रमेण न संक्रामन्ति तेन प्रकृत्यन्तरदलिकसंक्रमाभावाजघन्य-प्रदेशोदयः प्राप्यते इति "सव्वपज्जत्त" इत्युक्तम् / आनुपूर्व्यश्च-तस्रोऽपिगतितुल्या भवन्तिस्वस्वगतितुल्याज्ञेया ज्ञातव्याः केवलं भवादौ भवप्रथमसमये वेदितव्याः / तृतीयसमये अन्या अपि बन्धावलिकातीताः कर्मलता उदयमागच्छन्ति ततारे भवप्रथमसमयग्रहणम्! देवगई ओहि समा, उवरि उनो य वेयगो नाहे। आहारजाइअचिर, संजममणुपालिऊणं ते / / 417||