________________ उदय 806 - अभिधानराजेन्द्रः - भाग 2 उदय णश्रेणीशिरसि वर्तमानस्य वैक्रि यसप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः। मिच्छत्ती मीसाणं-ताणुबंधअसमत्थीण गिट्ठीण। तिरिउदय गंताण य, विइया तइया य गुणसेढी / / 400|| इह केनचित् देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता ततः संयम प्रतिपन्नस्ततः संयमप्रत्यया गुणश्रेणिः कृता ततो यस्मिन्काले द्वयोरपि गुणश्रेण्योः शिरसि एकत्र मिलतः तस्तिन् काले वर्तमानो गुणितकाशः कश्चिन्मिथ्यात्वं प्रतिपद्यते तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः यदि पुनः सम्य-ग्मिथ्यात्वं प्रतिपन्नस्तर्हि 3 सम्यमिथ्यात्वस्य स्त्यानद्धित्रिकस्य पुनर्मिथ्यात्वं गतस्यागतस्य वा उत्कृष्टः प्रदेशोदयो वाच्यः / यदि स्त्यानद्धित्रिकस्य प्रमत्तस्य संयतेऽप्युदयः प्राप्यते तथा तिर्यक्षु इव उदय एकान्तेन यासां तास्तिर्यगुदयकान्ता एकद्वित्रिचतुरिन्द्रियस्थावरसूक्ष्मसाधारणनामानस्तयोः पर्याप्तनाम्नश्च तिर्यग्भवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणिशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टः स्वस्वोदये वर्तमानस्योत्कृष्टः प्रदेशोदयः। अंतरकरणे करणं, होहित्ति जयदेवस्स तं मुहुत्तं तो।। अट्ठहकसायाणं, छण्हं पियनो कसायाणं / / 401 / / इह कश्चिदुपशमश्रेणिं प्रतिपन्नोऽनन्तरसमये अन्तरकरणं भवि-व्यतीति तस्मिन् पाश्चात्यसमये कालं कृत्वा देवो जातः तस्य देवस्य उत्पत्त्यर्मुहूर्तात् परतोगुणश्रेणिशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टः स्वस्वोदये वर्तमानस्योत्कृष्टः प्रदेशोदयः / इह कश्चित् उपशमश्रेणिं प्रतिपन्नोऽनन्तरसमये अन्तरकरणं भविष्यतीति एतस्मिन् पाश्चात्यसमये कालं कृत्वा देवो जातः तस्य देवस्य उत्पत्त्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणिशिरसि वर्तमानस्यप्रत्याख्यानाप्रत्याख्यानावरणकषायाष्टके वेदत्रिकवर्जानां षण्णां नोकषायाणामुत्कृष्टः प्रदेशोदयः। हस्सठिई बंधित्ता, अट्ठा जोगाइठिइनिसग्गेणं / उकस्सपएपढमो-देयम्मि सुरनारगाऊणं / / 402|| अद्धा बन्धकालयोगमनोवाक्कायनिमित्तं वीर्यम्। आदिस्थितिः प्रथमा स्थितिः तस्यां दलिकनिक्षेपः आदिस्थितिदलिक निक्षेपः। एतेषामुत्कृष्टपदेसति किमुक्तं भवति उत्कृष्टन बन्धेन कालेन उत्कृष्ट योगे वर्तमानो ह्रस्वां जघन्यां स्थिति बध्वा प्रथमस्थितौ च दलिके निक्षेपस्तमुत्कृष्ट कृत्वा मृतः सन् देवो नारको जातः तस्य प्रथमोदये प्रथमस्थित्युदये वर्तमानस्य देवायुषो नारकस्य नारकायुषउत्कृष्टः प्रदेशोदयः। (अट्ठाजोगुत्ति) भोगभूमिषु तीर्यक्षु मनुष्येषु वा विषये कश्चित् तीर्यगायुः कश्चित् मनुष्यायुरुत्कृष्ट पल्योपमस्थितिकं बध्वा लघुशीघ्रंच मृत्वा त्रिपल्पोपमायुष्के तीर्यक्षु परो मनुष्येषु मध्ये समुत्पन्नस्तत्र च सर्वाल्पजीवितमन्तर्मुहूर्तप्रमाणे वर्जयित्वा अन्तर्मुहूर्तकमपवृत्त्येत्यर्थः शेषमशेषमपि स्वस्वापवर्त्तनाकरणेनापवर्त्तयतस्ततोऽपवर्तमानानन्तरप्रथमसमयस्तयोस्तिर्यङ्मनुष्ययोर्यथासंख्यं तिर्यगपिमनुष्यायुषोरुत्कृष्टः प्रदेशोदयः। दूभगणाएजसगई, दुगअणुपुष्वित्थिसगनीयाणं। दंसणमोहे खवणे, देसविरइए व गुणसेढी॥४०३|| इहाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति / ततः स एव देशविरतिप्रतिपन्नस्ततः सर्वविरति-निमित्तां गुणश्रेणी करोति / तत्करणपरिसमाप्तौ सत्यां संक्लिष्टो भूत्वा पुनरप्यविरतो जातः तस्य तिसृणामपि गुणश्रेणीनां शिरसि वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायशः कीर्तिनी-चैर्गोत्राणामुत्कृष्टप्रदेशोदयः / अथ तिर्यक्षु उत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यग्दिक्सहितानामुत्कृष्टप्रदेशोदयः मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसंहितानामिति। संघयणापंचगस्सय, वियादीतिनि होति गुणसेढी। आहारगउज्जो वा-गुत्तरतणु अप्पमत्तस्स।।४०४|| इह कश्चिन्मनुष्यो देशविरतिप्रतिपन्नस्ततः सदेशविरतिप्रत्ययां गुणश्रेणिं करोति / यतः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिप्रति-पन्नस्ततः सर्वविरतिप्रत्ययां गुणश्रेणिं करोति / ततः स एव तथाविधशुद्धयशसोऽन्तानुबन्धिनां विसंयोजनायोत्थितस्ततस्तन्नि-मित्तां गुणश्रेणिं करोति। एवं द्वितीयादयस्तिस्रो गुणश्रेणयो भवन्ति ताश्च कृत्वा तांसा शिरसि सुवर्तमानस्य प्रथमसंहननवर्जानां पञ्चानां संहननाना यथायोग्यमुदयप्राप्तानामुत्कृष्टप्रदेशोदयः तथा उत्तरतनौ शरीरे आहारके वर्तमानस्याप्रमत्तभावं गतस्य प्रथमगुणश्रेणिशिरसि वर्तमानस्याहारकसप्तकाट्योस्तयोरुत्कृष्टः प्रदेशोदयः।। वेइंदियमावण्णो, कम्म काऊण तस्सिमं खिप्पं / आयावस्स उतचे, पढमसमयम्मि व वस॒तो / / 405 / / गुणितकर्माशः पञ्चेन्द्रियसमयग्दृष्टिर्जातः सम्यक्त्वनिमित्तां गुणश्रेणि कृतवान् / ततस्तस्यां गुणश्रेणितः प्रतिपतितो मिथ्यात्वं गत्वा द्वीन्द्रियमध्ये समुत्पन्नः तत्र च द्वीन्द्रियप्रायोग्यां स्थिति मुक्त्वा शेष सर्वमप्यपवर्त्तयति। ततोऽपि मृत्वा एकेन्द्रियो जातः। तत्र एकेन्द्रियसमां स्थितिं करोति शीघ्रमेव च शरीरपर्याप्तस्तस्य तद्वेदिन आतपवेदिनः खरबादरपृथिवीकायिकस्य शरीरपर्याप्त्यनन्तरप्रथमसमये आतपनाम्नः उत्कृष्टप्रदेशोदयः एकेन्द्रियो द्विन्द्रियस्थिति झटित्येव स्वयोग्यां करोति न त्रीन्द्रियादि स्थितिमिति द्वीन्द्रियग्रहणम् तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी। संप्रति जघन्यप्रदेशोदयस्वाम्यत्वमभिधीयते। पयगं तु खवियकम्मे, जहन्नदेवट्टिईभिन्नमुहत्ते॥ सेसे मिच्छत्तगतो, अतिकिलट्ठो कालयं तु खविगए।॥४०६|| एगेंदियगो पढमे, समये वमईसु पावरणे / / केवलदुगमणपज्जव-चक्खुअचक्खूण आवरणा ||407 / / जघन्यस्यामीति भावप्रधानोऽयं निर्देशः प्राकृतत्वाच्च ततः परस्याः सप्तम्या लुक् ततोऽयमर्थः / जघन्यप्रदेशोदयस्वामित्वे प्रकृतमधिकारः क्षपितकमांशेन सूत्रे चात्र सप्तमी तृतीयार्थे वदितव्या / तत्र कश्चित्क्षपितकाशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुरुत्प-त्यनन्तरं मुहूर्ते गते सति सम्यक्त्वं प्रतिपद्यते तच्च सम्यक्त्वं दशव-र्षसहस्राणि देशोनानि यावत्परिपाल्य अन्तर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः स चातिसंक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुत्कृ-ष्टस्थितिबन्धमारभते प्रभूतं दलिकं तदानीमुद्वर्तयति तायद्यावदन्तर्मुहूर्तम् / ततः संक्लिष्टपरिणाम एव कालं कृत्वा एकेन्द्रियो जातस्तस्य प्रथमसमये मतिज्ञानावरणके वलदर्शनावरणमनः पर्यवज्ञानावरणचक्षुआनावरणाचक्षुर्दर्शनावरणानां जघन्या प्रदेशोदीरणा स्तोका भवति यतस्तस्यानुभागोदीरणा बढी प्रवर्तते। यत्र चानुभागोदीरणा बढी तत्र स्तोका प्रदेशोदीरणा ततो "मिच्छत्तगतो अतिकिलट्ठो' इत्याधुक्तम्॥ ओहीण संजमाउ, देवत्तगए यस्य मिच्छत्तं / / उकोसं बंधठिई बंधे, विकट्टणा आलिगं गंतु // 408|| क्षपितका शः संयम प्रतिपन्नः समुत्पन्नावधिज्ञानदर्शनोऽप्रति