________________ उदय 805 - अभिधानराजेन्द्रः - भाग 2 उदय तत्स्थानमप्राप्तस्य पुनरनादिः / ध्रुवाध्रुवौ पूर्ववत् / तथा अमूषा-मेव सप्तचत्वारिंशत् प्रकृतीनामुत्कृष्टः प्रदेशोदयः। स चैकसामा-यिक इति कृत्वासादिरध्रुवश्चततोऽन्य सर्वोऽप्यनुत्कृष्टः सचाना-दिसदैव भावात्। धुवाधुवौ पूर्ववत् / तथा मिथ्यात्वे मिथ्यात्वस्य जघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः तद्यथा सादिरनादिधुवोऽधु-वश्च / तथाहिक्षपितकशिस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्य औपशमिकस्य सम्यक्त्वात्प्रच्युतस्य मिथ्यात्वं गतस्यान्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्र-दलिकान्त समये वर्तमानस्य जघन्यतः प्रदेशोदयः स चैकसामायिक इति कृत्वा सादिरध्रुवश्च ततोन्यः सर्वोप्यजघन्यः सोपि द्वितीयसमये भवन् सादिः वेदकसम्यक्त्वाद्वा प्रतिपतितः सादिः तत्स्थानमप्राप्तस्य पुनरनादिः ध्रुवाध्रुवौ पूर्ववत् / तथा कश्चिद्गुणितकर्माशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते ततस्तन्निमित्तांगुणश्रेणिं करोतीति कृत्वा च तावगतो यावत् द्वयोर्गुणश्रेण्योर्मस्तके तदानीं च कश्चिन्मिथ्यात्वं गच्छति। ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः स चैकसामायिक इति कृत्वासादिरधुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः सोऽपि ततोद्वितीयसमये भवन् सादिः वेदकसम्यक्त्वाद्वा प्रतिपतति सादिः तत्स्थानमप्राप्तस्य पुनरनादिः धुवाधुवौ पूर्ववत् / एतासां च सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य च उक्तशेषौ विकल्पौ जधन्योत्कृष्टरूपौ द्विधा द्विप्र-कारौ तद्यथा सादी अध्रुवौ तौ च भावितावेव शेषाणामधुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्यो-त्कृष्टानुत्कृष्टरूपा द्विधा ज्ञातव्याः तद्यथा सादयोऽध्रुवाश्च सा च साद्यधुवता च अध्रुवोदयत्वादवसेया कृता साद्यनादिप्ररूपणा। सम्प्रति स्वामित्वमप्यभिधानीयंतच द्विधा उत्कृष्टप्रदेशोदय-स्वामित्वं जघन्यप्रदेशोदयस्वामित्वं च / तत्रोत्कृष्टप्रदेशोदयस्वा-मित्वप्रतिपादनार्थं संभवतीति गुणश्रेणिः सर्वा अपि प्ररूपयति।। सम्मत्तुप्पासाविय, विरए संजोयणाविणासे य। दंसणमोहक्खवगे, कसायओ सामगुवसंते॥३६॥ खवगे य खीणमोहे, जिणे य दुविहे असंखगुणसेढी। तदओतव्विवरीओ, कालो संखेजगुणसेढी॥३६६|| इह एकादशगुणश्रेणयः तद्यथा सम्यक्त्वोत्पादे प्रथमा, द्वितीया श्रावके देशविरततृतीया विरते सर्वविरते, प्रमत्ते चतुर्थी , संयोजना / नामनन्तानुबन्धना विसंयोजने पञ्चमी, दर्शनमोहनीयतृतीयक्षपणे षष्ठी, चारित्रमोहनीयोपशमके सप्तमी, उपशान्तमोहनीये अष्ट-मी, मोहनीयक्षपके नवमी, क्षीणमोहे दशमी, सयोगिके वलिनि अयोगिके वलिनित्वेकादशीति (असंखगुणसेढी उदयओत्ति) सर्वस्तोकसम्यक्त्वोत्पादगुणश्रेण्यां दलिकं ततोऽपि देशविरतिगुणश्रेण्यामसंख्येयगुणं ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्यैयगुणमेवं तावद्वाच्यं यावदयोगिकेवलि गुणश्रेण्यां दलिकमसंख्येयगुणं तस्मात् प्रदेशोदयमप्याश्रित एता गुणश्रेणयो यथाक्रममसंख्येय गुणा वक्तव्याः (तव्विवरीओत्ति) सर्वास्वपि एतासुगुणश्रेणिषु कालस्तद्विपरीत उदयविपरीतः संख्येयगुणश्रेण्या तद्यथा अयोगिकेवलिगुणश्रेणिकालसंख्येयगुण एवं तावद्वाच्यं यावत् सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयः / गुणस्थापना एषा सम्यक्त्वोत्पादगुण-श्रेणिः / पुनर्यथोत्तरमसंख्येयगुणदलिकाकालतश्च संख्येयगुणाः उपरिष्टाच पृथक्त्वेन यथोत्तरं विशाला विशालतराः / अथोच्यते कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते उच्यते / सम्यक्त्वंयु-त्पादयन् / मिथ्यादृष्टिर्भवति ततस्तस्य स्तोकं गुणश्रेणिदलिकं सम्यक्त्वोत्पत्तौ सत्यां पुनः प्रागुक्तगुणश्रेण्यपेक्षया संख्येयगुणदलिका गुणश्रेणिः विशुद्धत्वात् ततोप सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका तस्यातिविशुद्धत्वात् / एवमुत्तरोत्तरविशुद्धप्रकर्षवशात् यथोक्तमसंख्येयगुणदलिका भावनीया / / संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यते इत्येतन्निरूपणार्थमाह। तिनविमपढममल्लिओ, मिच्छत्तगए वि होज अन्नभवे / / पगयं तु गुणियकम्मे, गुण सेढी सीसगाणुदये // 367|| आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविरतिनि-मित्ता झटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन चरममरणे झटित्येव मृतस्य अन्यभवे नारकादिरूपपराभवे किञ्चित्कालमुदयमाश्रित्य प्राप्यन्ते शेषास्तु गुणश्रेणय परभवनारकादिरूपे न प्राप्यन्ते नारकादिभवो हि अप्रशस्ते मरणे न प्राप्यते न च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंभवः किन्तु क्षीणास्वेव / तथा चोक्तम्। "झत्तिगुणाओ पडिए, मिच्छत्तगयम्मि आइमा तिन्नि / लब्भंति न सेसा साओ, जं हीणासु असुभमरणं" तथा प्रकृतमत्र उत्कृष्ट-प्रदेशोदयस्वामित्वे गुणितकम्माशेन गुणश्रेणिशिरसामुदये वर्तमानेन। आवरणविग्घमोहाणं, जिणोदइयाण वा वि नियगंते। लहुखवणाए ओहीणणो हिलद्धिस्स उक्कस्स // 39|| आवरणं पञ्चप्रकारं ज्ञानावरणं चतुःप्रकारं दर्शनावरणं (विग्धत्ति) पञ्चप्रकारमन्तरायमेतासां चतुर्दशप्रकृतीनां लघुक्षपणायां शीघ्रक्षपणायामर्थमभ्युद्यतस्य। द्विविधा हि क्षपणा लघुक्षपणा चिरक्षपणा च। तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकं संयम प्रतिपन्नस्तत्प्रतिपत्त्यनन्तरं चान्तर्मुहूर्त्तन क्षपक श्रेणिमारभते तस्य या क्षपणा सा लधुक्षपणा। यत्तु प्रभूतेन कालेन संयमं प्रतिपद्यते संयमप्रतिपत्ति-रप्यूज़ प्रभूतेन कालेन क्षपकगुणश्रेणिमारभते तस्य या क्षपणा सा चिरक्षपणा तया च प्रभूताः पुद्गलाः परिसटन्ति स्तोका एव च शेषीभवन्ति ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते। उक्तं लघुक्षपणया अभ्युत्थितस्येति तस्या गुणितकशिस्य क्षीणमोह-गुणस्थानकं चरमसमये गुणश्रेणिशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो भवति नवरम् / (ओहीणणोहिलद्धिस्सति) अबध्योऽवधिज्ञानमुत्पादयतो बहवः पुद्रलाः परिक्षीयन्तो ततो नावधि-युक्तस्योत्कृष्ट प्रदेशोदयद्रव्यलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम्। तथा मोहानां मोहनीयानां प्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टय-वेदनयाख्यातमष्टानां गुणितकाशस्य क्षपकस्य स्वस्वोदयचरम-समये उत्कृष्टः प्रदेशोदयः / तथा जिने के वलिनि उदयो यासां ता जिनोदयकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषट्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातादिगुरुलघुविहायोगतिद्विकपर्याप्त प्रत्येक स्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृतीनां गुणितकाशस्यायोगिकेवलिगुणस्थानक-चरमसमये उत्कृष्टः प्रदेशोदयः सुस्वरदुःस्वरनिरोधकालोच्छवासनाम्नः पुनरुच्छ्वासनिरोधकाले तथा अन्यतरवेदनीयमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशः कीर्तितीर्थकरोच्चैर्गोत्राणां द्वादशप्रकृतीनां गुणितकाशस्यायोगिकेवलिनश्वरमसमये उत्कृष्टः प्रदेशोदयः। उवसंतपढमगुणसेढीए, निहादुगस्स तस्सेव। यावइ सीसगमुवयंति, जाव देवस्स सुरनवगे॥३६६ उपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनवकस्य वैक्रियसप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः। तथास्य वोपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशीर्षकोदयानन्तरसमये-- प्राप्यतीति तस्मिन् पाश्चात्यसमये जाते देवस्य ततः स्वप्रथमगु