________________ उदय 804 - अमिधानराजेन्द्रः - भाग 2 उदय सतितम्मिभाववीओ, पओगउदीरणा उदओ। इह उदयो द्विधा / तद्यथा स्थितिक्षयेण प्रयोगेण वा / तत्र स्थितिरबाध्यकालरूपा तस्याः क्षयेण इत्यक्षेत्राकालभवभावरूपाणा-- मुदयहेतूनामप्राप्तौ सत्यां यः स्वभावत उदयः स स्थितिक्षयेणो-दय उच्यते।यो पुनस्तस्मिन्नुदये प्रवर्तमाने सति प्रयोगत उदीरणाकरणरूपेण प्रयोगेण दलिकमाकृप्यानुभवति स द्वितीया उदीरणोदयाभिधान उच्यते / स च उदयसामान्यतो द्विधा / तद्यथाजधन्य उत्कृष्टश्च / तत्रोत्कृष्टस्थित्युदीरणादुत्कृष्टस्थित्युदयस्थि-त्याभ्यधिकस्तथा चाहउदीरणाजोग्गाणं, अइंदिहिइए य जोग्गो उ। हस्सुंदएगट्टिईणं, निहण्णा सगिलाणए। उदीरणायोग्यानामुत्कृष्टस्थितीला प्रकृतीनामुदीरणायोग्येभ्यः स्थितिभ्यः उदययोग्याः स्थितय एकया उदययोग्यया स्थित्या अभ्यधिका वेदितव्याः / तथा द्युत्कृष्टायां स्थितौ बध्यमानायामवधिकालेऽपि यावद्दलिकं प्ररूपयति तथा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकान्त उप रिवर्तिनीः सर्वा अपि स्थितीरुदीरयति उदीर्य च वेदयते ततो बन्धावलिकाहीनयो शेषयोः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये वेद्यमानायां च स्थितौ उदीरणा न प्रवर्तते किन्तूदय एव केवलस्ततो वेद्यमानायां समयमात्रस्थितिभ्योऽधिका उत्कृष्टस्थित्युदीरणा / तत उत्कृष्टस्थित्युदयाबन्धावलिकोदयावलिकादीनाश्चानुत्कृष्ट-स्थित्युदय उदयोत्कृष्ट प्रधानप्रकृतीः वेदितव्याः / शेषाणां तु यथायोगं तत्राप्युक्तनीत्या उदयस्थित्याऽभ्यधिकोऽवगन्तव्यः / संप्रति जधन्यस्थित्युदये विशेषमाह / (हस्सुदएइत्यादि) प्रागुक्तानां मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशः कीर्तितीर्थकरनामोच्चैर्गोत्रायुश्चतुष्टयसातासातवेदनीयनिद्रापञ्चकज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयसंज्वलनलोभवेदत्रयसम्यक्त्वमिथ्यात्वरूपाणामेकचत्वारिंशत्संख्याकानां प्रकृतीनां निद्रापञ्चकोनानां सतीनां षट्त्रिंशत्संख्यानां ह्रस्वो जघन्यः स्थित्युदय एकस्थितिरवसेया। निद्रायांपुनरेकैकस्थितीनां समये वेदितव्यः। किमुक्तं भवति / उक्तरूपाणां षट्त्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रैकस्थित्युदयप्रमाणो वेदितव्य इति / समयमात्रा चैका स्थितिश्चरमा स्थितिरवसेया। निद्रापञ्चकस्य खुदीरणाया अभावेऽपि शरीरपर्याप्त्यनन्तरं विपाकोदयकाले अपवर्तनाऽपि प्रवर्तते / तत एका स्थितिर्न प्राप्यते इति / तदर्जनशेषं तु सर्वमपि साद्यादिप्ररूपणादिक स्थित्युदीरणायामेव निरवशेष-मवगन्तव्यम्। उक्तः स्थित्युदयः।। (3) सम्प्रत्यनुभागोदयमाह। अणुभागुदओ वि उदीरणाए तुल्लो जहण्णए नवरं। आवलिगंतेन सम्मत्तं वेयखीणंतलोभाणं // अनुभागोदयोऽप्युदीरणायास्तुल्यो यथानुभागोदीरणा सप्रपञ्चमत्र वक्ष्यतेतथाऽनुभागोदयोऽपि वक्तव्य इति भावः / किं सर्वथा साम्यमिति चेदत आह / नवरमयं विशेषोऽजघन्यमनुभागो-दयं सम्यक्त्ववेदानां क्षीणान्तानां क्षीणमोहगुणस्थानकपर्यव-सानानां ज्ञानावरणपञ्चकान्तरायदर्शनावरणचतुष्टयरूपाणां चतुर्दशानां प्रकृतीनां संज्वलनलोभस्य च आवलिकान्ते जानीयात् / इयमत्र भावना / ज्ञानावरणपञ्चकान्तरायपञ्चक दर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोभसम्यक्त्वरूपाणामेकोनविंशतिप्रकृतीनां स्वस्वपर्यवसानसमये उदीरणायाव्यवच्छेदे सति परत आवलिकां गत्वा आवलिकाचरमसमये जघन्यानुभागोदयस्य प्राप्यमाणत्वादिति / तदेवमुक्तोऽनुभागोदयः। पं०सं०। (4) संम्प्रति प्रदेशोदयाभिधानावसरस्तत्र चेमौ अर्थाधिकारौ-तद्यवा साधनादिप्ररूपणास्वामित्वं / साद्यनादिप्ररूपणा द्विविधा / मूलप्रकृतिविषया उत्तरप्रकृतिविषया च / तत्र मूलप्रकृतिविषय साधनादिप्ररूपणार्थमाह। अजहण्णाणुकोसा, चउव्विहा छिण्हचउव्विहा मोहे। आउस्स साइअधुवा, सेसविगप्पायसवेवि।।३९३|| मोहनीयायुर्वर्जानां षण्णां कर्मणामजधन्यः प्रदेशोऽयं चतुर्विधस्तद्यथा सादिरनादिधुवोऽध्रुवश्च / तथाहि कश्चित् क्षपितकम्शो देवलोके देवो जातः स च तत्र संक्लिष्टो भूत्वा उत्कृष्टां स्थिति बघ्नन् उत्कृष्टप्रदेशाग्रमुद्वर्त्तयति ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषु उत्पन्नस्तस्य प्रथमसमये प्रागुक्तानां षण्णां कर्मणां जघन्यप्रदेशोदयः। स चैकसामायिक इति कृत्वा सादिर-नादिधुवश्च / ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि तस्य द्वितीयसमये भवन् सादिः तत्स्थानमप्राप्तस्य पुनरनादिधुंवाध्रुवौ पूर्ववत् / तथा तेषामेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्विधा त्रिप्रकारस्तद्यथा अनादिधुंवोऽध्रुवश्च / तथाहि अमीषां षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयः प्रागुक्तस्वरूपस्य गुणितकाशस्य स्वस्वोदयान्तगुण-श्रेणिविवर्तमानस्य प्राप्यते सचैकं सामायिक इति कृत्वा सादिरध्रुवश्च / ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चानादिः सदैव भावात् / ध्रुवाध्रुवौ पूर्ववत् / तथा मोहे मोहनीये अजघन्योत्कृष्टश्च प्रदेशोदयश्चतुर्विधस्तद्यथा सादिरनादिधुवोऽधुवश्च / तथाहि- क्षपितकाशस्यान्तरकरणे कृते अन्तरकरणे पर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्रदलिकान्तसमये मोहनीयस्य जघन्यप्रदेशोदयः / स चैकसामायिक इति कृत्वा सादिरध्रुवश्च / ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि ततो द्वितीयसमये भवन् सादिः तत्स्थानमप्राप्तस्य पुनरनादि ध्रुवाधुवौ पूर्ववत् / तथा गुणितकर्माशस्य सूक्ष्मसंपरायगुणस्थानकान्तसमये उत्कृष्टप्रदेशोदयः। स चैक-सामायिक इति कृत्वा सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चोपशमश्रेणीतः प्रतिपतितो भवन् सादिस्तत्स्थानमप्राप्तस्य पुनरनादिधुंवाध्रुवौ पूर्ववत् / आयुषि चत्वारोऽपि भेदा उत्कृष्टा जघन्यारूपाः साद्यधुवाः / चतुर्णामपि भेदानां यथायोगं नियत-कालं भावात् / तथा सर्वेषां कर्मणां प्रागुक्तानां षण्णां मोहनीयस्य उक्तशैषौ विकल्पौ उत्कृष्टजघन्यरूपौ साद्यध्रुवौ तौ च प्रागेव भावितौ कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा। संप्रत्युत्तरप्रकृतीनां चिकीर्षुराह। अजहण्णाणुकोसो, सगयाला एगचउतिहाचउहा। मिच्छत्ते सेसाणं, दुविहा सव्वे य सेसाणं // 364|| तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्माणागुरुलघुशुभाशुभज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजधन्यप्रदेशोदयश्चतुर्विधस्तद्यथार सादिरनादिध्रुवोऽध्रुवश्च / तथाहि-क्षपितकर्माशो देव उत्कृष्ट संक्लेशे वर्तमान उत्कृष्टा स्थिति बध्नन् उत्कृष्ट प्रदेशमुद्वर्तयति / ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पद्यते तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यप्रदेशोदयः / नवर-मधिकृत्य ज्ञानावरणावधिदर्शनावरणयोर्बन्धावलिकाचरमसमये देवस्य जधन्यप्रदेशोदये वेदितव्यः / सचैकसामायिक इति कृत्वा सादिरध्रुवश्व ततोऽन्यः सर्वोऽप्यजघन्यः / सच द्वितीयसमये भवन् सादिः /