________________ उदय ८०३-अमिधानराजेन्द्रः - भाग 2 उदय क्ष्यते। ततो ध्रुवोदयाः प्रकृतयोऽष्टचत्वारिंशत्संख्या वेदितव्यास्त-द्यथा ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयं मिथ्यात्वं वर्णादिविंशतिस्तैजसकार्मणसमकस्थिरास्थिरेषु शुभाशुभे अगुरुलघुनिर्माणमिति / एतासामष्टचत्वारिंशत्संख्या-कानां प्रकृतीनामुदयो द्विधा। तद्यथा अनाद्यनन्तः अनादिसपर्य--वसानस्तत्र अभव्याश्रितानां च ततः कदाचिदपि व्यवच्छेदासंभवात् भव्यानधिकृत्यानादिसपर्यवसानः तेषां मोक्षं प्रतिस्थिताना-मवश्यमुदयव्यवच्छेदसंभवात्। अधुवाणामध्रुवोदयानां प्रकृतीनामुक्तव्यतिरिक्तानां विंशोत्तरशतसंख्यानामुदयसादिपर्यवसानः अध्रुवोदयतः परावृत्त्य 2 तासामुदयभावात् न केवलमध्रुवोदया नामुदयः सादिसपर्यवसानः किन्तु मिथ्यात्वस्य च। तथाहिसम्यक्त्वात्प्रतिपतितमधिकृत्य मिथ्यात्वस्योदयः / सादिः पुनरपि सम्यक्त्वकल्पाभव्यवच्छेदादध्रुवः। तदेवं मिथ्यात्वस्योदयस्त्रिविध आवेदितस्तद्यआ-अनाद्यनन्तानादिसपर्यवसानः। एतौ च द्वावपि भङ्गो धुवोदयत्वात्तद्ग्रहणेन गृहीतौ तृतीयस्तु भेदाः सादिपर्यवसानलक्षणस्तदयमिच्छसेइत्यनेनावयवेन साक्षादुक्तइति पयडिठिइमाइया भेया, पुवुत्ता इहावि विनेया। उदीरणउदयाणं, जह नाणत्तं तयं वोच्छं। यथा-किल पूर्व बन्धविधौ प्रकृतिस्थित्यादयो भेदा उक्तास्तद्यथा प्रकृतिबन्धः स्थितिबन्धोऽनुभागबन्धः प्रदेशब-न्धश्च / तथा इहाप्युदयाधिकारे ज्ञेयास्तद्यथा प्रकृत्युदयः स्थित्यु-दयोऽनुभागोदयः प्रदेशोदयश्च / तत्राचार्यः स्वयमेवाग्रे सप्रपल्व-मुदीरणकरणं वक्ष्यति उदयोदीरणयोश्च प्रायः स्वामित्वं प्रत्यविशेषः सहभावित्वात्। तथाहियत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदयः। ततो यथा प्रकृत्यादयो भेदा उदीरणाधिकारे वक्ष्यन्ते यच्च स्वामित्वं प्ररूपणादिकं तदेतत्सर्वमन्यूनानतिरिक्तमत्रापि भावनीयम् / यत्पुनानात्वं तदभिधित्सुराह (उदीरणेत्यादि) उदीरणोदययोः प्रकृत्यादिभेदविषये यतो नानात्वं तद्वक्ष्ये शेषं तदुदीरणावद्रष्टव्यमिति भावः। तत्र प्रकृतिभेदविषये नानात्वं दिदर्शयिषुर्गाथाद्वितयमाह। चरिमोदयपुव्वाणं, अजोगिकालं उदीरणा विरहे। देसूणं पुष्वकोडी, मनुयाउगवेयणीयाणं // तइयचिय पज्जत्ती, जातानिहाणहोइ य चउण्डं। उदओ आवलिअंते, तेवीसाए उसेसाणं // चरमोदयानां चरमे अयोगिकेवलिचरमसमये उदयो यासां नामप्रकृतीनां ताश्चरमोदयास्ताश्चेमा नव / तद्यथा मनुष्यगतिपञ्चेन्द्रिय जातित्रसनामबादरनामपर्याप्तनामसुभगनामादेययशः कीर्तिनामतीर्थकृतां च भगवतामयोगिकेवलिनां तीर्थनाम च / एतासां नवानां प्रकृतीनामुचैर्गोत्रस्य च अयोगिकालस्तावत् कालः यावत् उदीरणाविरहेऽपि उदीरणाया अलाभेऽप्युदय एव केवलः प्रवर्तते। तथा मनुष्यायुः सातवेदनीयमसातवेदनीयं चेत्येवंरूपाणां तिसृणां प्रकृतीनां प्रमत्तसंयतगुणस्थानकात्परतः शेषेषु गुणस्थानकेषु वर्तमानानामुत्कर्षतो देशानांपूर्वकोटी यावत् उदीरणामन्तरेण केवलउदयो भवति।सचोत्कर्षत इयान कालः सयोगिकेवलि-गुणस्थानके द्रष्टव्यः शेषस्य गुणस्थानकस्य सर्वस्याप्यन्तर्मुहूर्तप्रमाणत्वात् / अथ कस्मात्सातासातवेदनीयमनुव्यायुषां प्रमत्तसंयतगुणस्थानकात्परत उदीरणा न प्रवर्तते / उच्यते अमीषां खुदीरणा संक्लिष्टाध्यवसायवशतः प्रवर्तते तथा स्वाभाव्यात् विशुद्धविशुद्धतराध्यवसायवर्तिनश्चाप्रमत्तसंयतादयस्ततस्तेषां वेदनीयद्विकमनुष्यायुषोरुदीरणाया अभावः / तथा शरीरपर्याप्त्यापर्याप्तानां सतां शरीरपर्याप्तिं पर्याप्त्यनन्तरसमयादारभ्य यावत्तृतीया पर्याप्तिरिन्द्रियपर्याप्ति परिसमाप्तिमुपैति तावत्पञ्चानामपि निद्राणां तथा स्वाभाव्यात् नोदीरणा प्रवर्तते किन्तूदय एवा केवलस्तथा शेषाणां ज्ञानावरणपञ्चकदर्शनावरण-चतुष्टयान्तरायपञ्चकसंज्वलनलोभवेदत्रयसम्यक्त्वमिथ्यात्वनारकायुषस्तिर्यगायुर्देवायूरूपाणां त्रयोविंशतिप्रकृतीनामावलिकाः। ततोऽन्तर्भूतायामावलिकायामुदय एव केवलोदीरणा / तथाहिपञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरचक्षुरवधिदर्शनावरणरूपस्य दर्शनावरणचतुष्टयस्य क्षीणकषायस्य पर्याप्तावलिकायां वर्तमानस्यावलिकायां प्रविष्टत्वान्नोदीरणेत्युदय एव केवलः / एषामेव संज्वलनलोभस्य सूक्ष्मसंपरायपर्यन्तावलिकायां मिथ्यात्वस्त्रीपुंनपुंसकवेदानामन्तरकरणे कृते प्रथमस्थित्यामावलिका शेषाणां नारकायुस्तिर्यगायुर्देवायुषां स्वस्वभवपर्यन्तावलिकायामुदय एव केवलो नोदीरणा / आवलिकान्तर्गतस्य कर्मणः सर्वस्याप्युदीरणा तदत्वयात् इहमनुष्यायुष उदीरणाविरहेऽप्युदयकालः प्रागेव देशोनपूर्वकोटीप्रमाणमुक्तस्ततो मनुष्यायुषो मिथ्यादृष्ट्यादीनां पर्यन्तावलिकायामुदीरणाविरहेऽपि य उदयकाल आवलिकामात्रः स तदन्तर्गत एव वेदितव्य इति पृथग्नोक्तः / पूर्वकोट्यभिधाने ह्यावलिकामानं तदेक देशतया भूतसामर्थ्यात् उक्तमवशेष शेषाणां तु प्रकृतीनां यावदुदयस्ताव-दुदीरणा यावदुदीरणा तावदुदय इतितदेव दर्शितः प्रकृत्युदये उदीरणातो विशेषः / संप्रत्यत्रैव मायादिप्ररूपणा कर्तव्या सा च द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तां द्विविधामपि चिकीर्षुराह। मोहे चउहा तिविहे, वोससत्तण्डमूलपगईण। मिच्छत्तउदयऊहा, अधुवधुवाणं दुविहतिविहो।। मोहो मोहनीयस्य कर्मण उदयश्चतुर्धा चतुःप्रकारस्तद्यथा सादिरनादिरध्रुवो ध्रुवश्च / तथाहि-उपशान्तगुणस्थानका प्रतिपातिनो भवेत् सादिस्ततस्तत्स्थानमप्राप्तस्यानादिः / धुवा-धुवावभव्यभव्यापेक्षया, अवशेषाणां सप्तानां मूलप्रकृतीनामुदय-स्त्रिविधस्त्रिप्रकारस्तद्यथाऽनादिध्रुवोऽध्रुवश्च / तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणामुदयः क्षीणमोहान्तसमयं यावत् वेदनीयनामगोत्रायुषा सयोगान्तसमयम् / न च क्षीणो भूयः प्रदूर्भवति ततः एतासां सप्तानामप्युदयोऽनादिर्भव्यानामधुवः क्षपक श्रेण्यामाहायथोक्तकाले तथा उदयव्यवच्छेभावादभव्यानां ध्रुवः कदाचिदपि व्यवच्छेदासंभवात्। कृता मूलप्रकृतिषु साद्यादिप्ररूपणा। सांप्रतमुत्तरप्रकृतिभूतां करोति। (मिच्छत्तुदउइत्यादि) मिथ्यात्वस्योदयश्चतुर्दा चतुष्प्रकारस्तद्यथा सादिरनादिधुवोऽधुवश्च / तत्र सम्यक्त्वात्प्रतिपतितस्य भवेत् सादिस्ततस्तत्स्थानमप्राप्तस्य पुनरनादिधुंवाध्रुवावभव्यभव्यापेक्षया। तथा अध्रुवाणामध्रुवादेयानां प्रकृतीनामुदयो द्विविधो द्विप्रकारस्तद्यथा / सादिरध्रुवश्च / सा च साद्यध्रुवता अध्रुवोदयवद्भावनीया। तथा ध्रुवाणां ध्रुवोदयानां प्रकृतीनां प्रागुक्तस्वरूपाणां मिथ्यात्ववय॑शेषसमचत्वारिंशत्प्र-कृतीनामुदयस्विप्रकारस्तद्यथाअनादिधुवोध्रुवश्च तथाहि घातिधुवोदयानां प्रकृतीनां क्षीणमोहगुणस्थानकचरमसमयः यावदुदयानाम ध्रुवोदयानामयोग्यं न समयस्ततस्तत्स्थान-मप्राप्तानां सर्वेषामपि संसारजीवाना मुदयो ध्रुवोदयो नाम नादिधुवाध्रुवौ प्राग्वत्। उक्तः प्रकृत्युदयः / (2) सम्प्रति स्थित्युदयमाहउदयो ठिहक्खएणं, संपत्तीए सभावतो पढमो।