________________ उत्तरचूलिया 792- अभिधानराजेन्द्रः - भाग 2 उत्तरकच्छ . चूलियाए सा" यद्वन्दनकं दत्वा पश्चान्महता शब्देन मस्तकेन वन्दे इति यत्र ब्रूते तदुत्तरचूलिका मन्तव्या। वृ०३ उ०। आव० चू०। उत्तरज्झयणन०(उतराध्ययन) बहुव० उत्तराणि प्रधानानि अध्ययनानि रूढिवशादिनयश्रुतादीनि षट् त्रिंशदुत्तराध्ययनानि सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथापि अभून्येव रूढ्या उत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि। नं० अङ्गबाह्यकालिक-श्रुतभेदे, पा०। उत्तराध्ययनशब्दनिरुक्तिं निर्म्युक्तिकृविस्तरेणाह। णामं ठवणा दविए, खेत्तदिसा ताव खेत्तपण्णवए। पइकालं संचयपहा-णणाणयकमगणणतो भावे // जहण्णं उत्तरं खलु, उक्कोसं वा अणुत्तरं होइ। सेसाइं अणुत्तराई अणुत्तराई च णामाई।। (नामोत्तरव्याख्या उत्तरशब्दे दर्शिता) उत्तरस्थानैकविधत्वेन यदत्र प्रकृतं तदाह। कम उत्तरेण पगयं,आयारस्से व उवरिमाइं तु। तम्हाउ उत्तराखलु, अज्झयणा हॉति णायव्या॥ क्रमापेक्षमुत्तरं क्रमोत्तरं शाकपार्थिवादित्वान्मध्यमपदलोपी समासस्तेन प्रकृतमधिकृतमिह च क्रमोत्तरेणेति भावः क्रमोत्तरेणै--तानि हि श्रुतात्मकत्वेन क्षायोपशमिक भावरूपाणि तद्पस्यैवाचाराङ्गस्योपरिपाठ्यमानत्वेनोत्तराणीत्युच्यन्ते अत आह (आयारस्से व उवरिमाई तु) एवकारो भिन्नक्रमस्ततश्चाचारस्यो-पर्येवोत्तरकालमेवेमानीति हृदि विपरिवर्तमानतया प्रत्यक्षाणि पठितवन्त इति गम्यते। तुर्विशेषणे विशेषश्चायं यथा शय्यंभवं या--वदेष क्रमस्तदाचारतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति (तम्हाउत्ति) तुः पूरणे यत्तदोश्च नित्यमभिसंबन्धस्ततो यस्मादाचा-रस्योपर्यवेमानिपठितवन्तस्तस्मादुत्तराण्युत्तरशब्दवाच्यानि खलुक्यालङ्कारेऽवधारणे वा तत उत्तराण्येषाध्ययनानि विनय-श्रुतादीनि भवन्ति ज्ञातव्यानि अन्यच्च बोद्धव्यानि प्राकृ तत्वाच लिङ्ग व्यत्यय इति गाथार्थः / आह यद्याचारस्योपरि पठ्यमानत्वेनोत्तराण्यमूनि तत्कियन्त एवाचारस्य प्रसूतिरेषामपि तत एवाभिधेयमपि यदेव तस्य तदेवान्यथेतिसंशयापनोदायाह। अंगप्पभवा जिणभा-सियाय पत्तेयबुद्धसंवाया। बंधे मोक्खे य कथा, छत्तीसं उत्तरज्झयणा // अङ्गाद् दृष्टिवादादेः प्रभव उत्पत्तिरेषामित्यङ्गप्रभवानि यथा / परीषहाध्ययनम् / वक्ष्यति हि "कम्मप्पवायपुव्वे, सत्तरसे पाहुड-म्मि जं सुत्तं / सणयं सोदाहरणं, ते चेव इहपि नायव्वं" जिन- भाषितानि यथाद्रुमपत्रकाध्ययनं तद्धि समुत्पन्न केवलेन भगवता महावीरेण प्रणीतं यद्वक्ष्यति "तन्निस्साए भगवं, सीसाणं देइ अणुसट्टि ति" चः समुच्चये | प्रत्येकबुद्धाश्च संवादश्च प्रत्येकबुद्धसंवा-दस्तस्मादुत्पन्नानीति शेषः। तत्र प्रत्येकबुद्धाः कपिलादयस्तेभ्य उत्पन्नानीति। यथा कापिलायाध्ययनम् वक्ष्यति हि "धम्मट्ठयागीअं" तत्र कपिलेनेति क्रमः संवादसंगतः प्रश्नोत्तर-वचनरूपस्तत उत्पन्नानि यथा कैशीगौतमीये वक्ष्यति च / "गौतम केसीओ मा, संवाय समुष्ट्रिय तु जम्हेयमित्यादि मनु स्थविरविरचितान्येवैतानि यत आह चूर्णिकृत् / "सुप्त राण असागभोलि नयध्ययनेऽप्युक्तम् "जस्सजे तिया सिस्सा उप्पतिया एवेणइयाए कम्मयाए पारिणामिया चउविहाए बुद्धीए उववेया तस्स तत्तियाई पइन्नगसहस्साई" प्रकीर्णकानि चामूनि तत्कथं जिनदेशितत्वादि न विरुध्यते / उच्यते तथा स्थितानामेव जिनादिवचसामिह दृष्टत्वेन तद्देशितत्वाधुक्तमिति न विरोधः / बन्धः आत्मकर्मणोरत्यन्तं संश्लेषस्तस्मिन् मोक्षस्तयोरेवात्यन्तिकः पृथग्भावस्तस्मिश्च कृतानि कोऽभिप्रायो यथा बन्धो भवति यथा च मोक्षस्तथा प्रदर्शकानि। तत्र बन्धे यथा "आणाअणिद्देसकरेत्ति'' मोक्षे यथा "आणानिद्देसकरेत्ति" आभ्यां यथाक्रमश्वाविनयो मिथ्यात्याद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरतपोरूपत्वेन मोक्षस्य कारणमिति तत्वतस्तौ यथा भवतस्तदेवोतं भवति मोक्षप्राधान्येऽपि बन्धस्य प्रागुपादान्मनादित्वोपदर्शनार्थम् / यद्वा "बंधे मोक्खेयत्ति'' च शब्द एवकारार्थो भिन्नक्रमश्च / ततो बन्ध एव सति यो मोक्षस्तस्मिन् कृतान्यनेनानादिमुक्तमन्तव्यवच्छेदश्च कृतस्तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवैकल्यापत्तिश्च किमेवं कतिचिदेव नेत्याह / षट्त्रिंशत्संख्यानि कोऽर्थः सर्वाण्येतदुत्तरध्ययनानीति गाथार्थः। उत्त० १अ० ।तानि च षट्त्रिंशदमूनि। छत्तीसउत्तरज्झयणा पण्णत्ता तंजहा। विणयसुयं 1 परीसहा 2 चाउरंगीजं 3 असंखयं 4 अकामसकाममरणीजं 5 पुरिसविज्जा 6 उरमिजं 7 काविलियं 8 नमिपव्वजा दुमपत्तयं 10 बहुसुयपुजा 11 हरिएसज्जिं 12 चित्तसंभूयं 13 उसुयारिनं 14 सभिक्खुगं 15 समाहिट्ठाणाई 16 पायसमणिनं 17 संजइन्छ 18 मियाचारिया 16 अणाहपध्वजा 20 समुद्दपालि-जं 21 रहनेमिज 22 गोयमकेसीजं 23 समितीओ 25 जन्नतिजं 25 सामायारी२६ खलुकेज 27 मोक्खमग्गगई 28 अप्पमाओ 26 तवोमग्गी 30 चरणविही ३१पमायट्ठाणाइं३२ कम्मपयडी 33 लेसज्झयणं 35 अणगारमग्गे 35 जीवाजीवविभत्ती य 36 / / छत्तीसं उत्तरज्झयणा॥ साव्य०। आव०४ अ०) उत्तरज्झाय पुं०(उत्तराध्याय) उत्तरा प्रधाना अध्याया अध्ययनानि। उत्तराश्च ते अध्यायाश्च उत्तराध्यायाः / विनयादिषु षद त्रिंशत्युत्तराध्ययनेषु, "छत्तीसं उत्तरज्झाए भवसिद्धिए सम्मसत्तिवेत्ति" उत्त०३६ अ०॥ उत्तरडकच्छ पुं०(उत्तरार्द्धकच्छ) कच्छविजयस्य वैताट्यपर्वतेन विभक्तस्य उत्तरार्द्ध, || कहिणं भंते जंबूहीवे दीवे महाविदेहे वासे उत्तरडकच्छे णामं विजए पण्णत्ते? गोयमा ! वेअड्ढस्स पटवयस्स उत्तरेण णीलवंतस्स वासहरपव्वयस्स दाहिणेण मालवंतस्स वक्खारपव्वयस्स पुरच्छिणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चच्छिमेणं एत्थणं जंबूद्दीवे दीवे जाव सिज्झंति तहेवणेअव्वं जं०४ वक्ष० / टीकासुगमत्वान्न गृहीता / / (सिन्धुकूटाद्यन्यत्र) कच्छविजयविभाजकस्य वैताङापर्वतस्याष्टानां कूटानामष्टमे कूटे,०४ वक्षन उत्तरबुभरह न०(उत्तरार्द्धभरत) वैताड्यपर्वतेन द्विधा विभक्तस्य भरतवर्षस्य उत्तरार्द्ध। अथोत्तरार्द्धभरतवर्ष वास्तीति प्रश्नसूत्रमाह।