________________ उत्तरकुरा 786 - अमिधानराजेन्द्रः - भाग 2 उत्तरकुरा प्रतिरूपं यावम् करणात् 'सण्हे जण्हे घटे मढे इत्यादि परिग्रहः / / (तस्सणमित्यादि) तस्य भवनस्य त्रिदिशि त्रिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञाप्तानि तद्यथा पूर्वस्यामुत्तरस्यां दक्षिणस्यां (तेणं दारा इत्यादि ) तानि द्वाराणि पञ्चधनुःशतानि ऊर्द्धमुस्त्वेन अर्द्धतृतीयानि धनुःशतानि विष्कम्भेन तावदेव अर्द्धतृतीयानि धनुःशतानीति बावः प्रदेशेन (सेयावरकणगयूभियागा इत्यादि) द्वारवर्णनं विजयद्वारस्येव तावदे विशेषेणावसातव्यं यावत् 'वण्णमालाओ' इतिवनमालावक्तव्यता परिसमाप्तिः (तस्सणमित्यादि) तस्य भवनस्य उल्लोचान्तर्बहुसमरमणीये भूमिभागे मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् (तस्सेत्यादि) तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे मणिपीठिका प्रज्ञप्ता पश्चधनुःशतानि आयामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि बाहुल्येन सर्वात्मना मणिमयी अच्छा यावत् प्रतिरूपा इति प्राग्वत्॥ तीसेणं मणिपेढियाए उवरि एत्थणंएगे महं देवसयणिज्जे पण्णत्ते देवसयणिज्जस्स वण्णओ से णं पउमे अण्णे णं अहसत्तेणं त्तदद्धचत्तप्पमाणमेत्तेणं पउमाणं सव्वतो समंता संपरिक्षिात्ते तेणं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दसजोएणाई उवेहेणं कोसं ऊसिया। जलं ताओ सातिरेगर्ति दसजोयणाति सव्वग्गेणं पण्णत्ताई पउमाणं अयमेतारूवे वण्णोवासे पण्णत्ते तंजहा वतिरामयामूला जाव णाणामणिमया पुक्खलत्थिगया ता उणं कणिया उक्कोसं आयामविक्खंभेणं तं तिगुणसपरिक्खेवेणं अद्धकोसं बाहलेणं सवकणगामईउ अच्छउ जाव पडिरूवाउ तासिणं कण्णिया उप्पि बहुसमरमणिज्जा भूमिभागा जव मणीणं वण्ण गंधो फासो तस्सणं पउमस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं एत्थणं नीलवंत दहकुमारस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारिपउम साहस्सीउ पण्णत्ताउ एवं सव्वो परिवारो नवरिपउमाणं माणियव्वो / सेणं पउमे अण्णे हिं ते हिं पउमपरिक्खेवेणं सव्वोसमंतासंपरिक्खित्ते तंजहा अमितरएणं मज्झिमएणं बाहिरएणं अमितरएणं पउमपरिक्खेवे बत्तीसं पडमसयसाहस्सीउ पण्णत्ताउ मज्झिमएणं पउमपरिक्खेवो चत्तालीसं उपउमसयसाहस्सी ओपण्त्ताओ बाहिरएणं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीउपण्णत्ताओ एवोमवस पुवावरेणं एगापउमकोडीउ वीसंचपउमसतसहस्सा भवंती तिमक्खाया।से केण?णं मंते एवं वुचतिनीलवंतहहे ? गोयमा ! णीलवंतहहेणं तत्थ 2 जाव उप्पले ति जाव सयसहपत्ताई नीलवंतप्पभाति नीलवंतवण्णाभार्ति नीलवंतहहकुमारेय एत्थ सो चेव गमो जाव णीलवंतहहे 2 // (तीसेणमित्यादि)तस्या मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तम्। शयनीयवर्णकः प्राग्वत्। (तस्सणमित्यादि) तस्य भवनस्योपरि अष्टावष्टौ स्वस्तिकादीनिमङ्गलकानि इत्यादि पूर्ववत्तावद्वक्तव्यम् यावत् बहवः सहस्रपत्रहस्तका इति मूलत इदमधिकं दृश्यते" (सेणमित्यादि) तत् पद्ममन्येन अष्टशतेन पद्मानां तदोच्चत्वप्रमाणमात्राणां तस्य मूलपद्मप्रमाणास्यार्द्ध तदर्द्ध तच तदुच्चत्वप्रमाणं च तदोच्चत्वप्रमाणं तदोचप्रमाणं मात्रा येषां तानि तथा तेषां सर्वासु दिक्षु समन्ततः सामस्त्येवन संपरिक्षिप्तं तदोच्चत्वप्रमाणमेव तेषां भावयति (पउमा इति) तानि पद्मानि प्रत्येकमर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहुल्येन दशयोजनानि उद्वेधेन क्रोशमेकं जलपर्यन्तादुच्छ्रितं सातिरेकाणि दशयोजनानि सर्वाग्रेण (ते सिणमित्यादि) तेषा पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञाप्तः वज्रमयानि मूलानि रिष्टरत्नमयाः कन्दा वैडूर्यरत्नमया नालाः तपनीयमयानि बाह्यपत्राणि जाम्बूनदमयानि बाह्यपत्राणि तपनीयमयानि के सराणि कनक मय्यः कर्णिका नानामणिमयाः पुष्करास्थिभागाः (ताउणं कन्नियाउ इत्यादि) ताः कर्णिकाः क्रोशमायामविष्कम्भाभ्यामर्द्ध क्रोशं बासुल्येन सर्वात्मना कनकमय्यः अच्छाउ जाव पडिरूव इति प्राग्वत् / (तेसिणं कन्नियाणमित्यादि) तासां कर्णिकानामुपरि बहुसमरणीयो भूमिभागः प्रज्ञप्तः तस्य वर्णकः पूर्ववत्तावद्धक्तव्यो यावन्मणीनां स्पर्शः (तस्सणमित्यादि) तस्य मूलभूतस्य पद्मस्य अपरोत्तरेण अपरोत्तरस्यामेवमुत्तरस्यामुत्तरपूर्वस्यां सर्वसंकलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागनुमारराजस्य चतुर्णां सामानिकसहस्राणा योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञतानि (एतेणमित्यादि) एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथा इहापि पद्मपरिवारो वक्तव्यस्तद्यथापूर्वस्यां दिशि चतसृणामग्रमहिषीणां योग्यानि चत्वारि महापद्यानि दक्षिणपूर्वस्याम भ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टौ पद्मसहस्त्राणि दक्षिणस्यां मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दशपद्मसहस्राणि दक्षिणापरस्यां बाह्यपर्षदो द्वादशानां देवसहस्राणं द्वादश पद्मसहस्राणि पश्चिमायां सप्तानामनीकाधिपतनां योग्यानि सप्तमहापद्मानि प्रज्ञप्तानि तदनन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडशपद्मसहस्राणि प्रज्ञप्तानि / तद्यया चत्वारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसहस्राणि उत्तरस्यामिति। तदेवं मूलपत्रस्य त्रयः पद्मपरिवेषा अभूवन अन्येऽपि च त्रयो यिद्यन्ते इति तत्प्रनिपादनार्थमाह / (सेणंपउमे इत्यादि) तत्पद्ममन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तैस्त्रिभिः पद्मपरिवेषैः सर्वतः सर्वासु दिक्षु समन्ततः सामस्त्येन संपरिक्षिप्तम् / तद्यथा अभ्यन्तरेण मध्यमेन बाह्येन च / तत्राभ्यन्तरपद्मपरिक्षेपे सर्वसंख्यया द्वात्रिंशत् पद्मशतसस्राणि प्रज्ञप्तानि (3200000) मध्यमे परिक्षेपे चत्वारिंशत् पद्मशतसस्त्राणि (4000000) बाह्यपद्मपरिक्षेपे अष्टाचत्वारिंशत्पाशत सस्राणि प्रज्ञप्तानि (4800000) एवमेव अनेनैव प्रकारेण (सव्वावरेणंति) सह पूर्वं यश्च येन वा सपूर्वं तत् अपरं च सपूर्वापरं तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः एका पद्मकोटि विंशतिश्च पद्मशतसस्राणि भवतीत्याख्यातं मया शेषैश्च तीर्थकृद्भिरेतेन सर्वतीर्थ कृ तामविसं वादिवचनतामाह / कोट्यादिका च संख्या स्वमीलितायां द्वात्रिंशतादिशतसस्राणामेकत्र मीलने यथोक्तसंख्याया अवश्यं भावात् संप्रति नामान्वर्थ पिपृच्छिषुराह। अथ केनार्थेन एवमुच्यते नीलवद्धदो नीलवद्धद इति भगवानाह। गौतम / नीलवद्धदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि उत्पलानि पद्मानि यावत् सहस्रपत्राणि नीलवद्धदप्रभाणि नीलवन्नाम हृदाकाराणि नीलवद्वर्णानि नलिवन्नाम वर्षधरपर्वतस्तद्वण्र्णानीति भावः / नीलवन्नामा च नागकुमारेन्द्रो नागकुमार