________________ उत्तरकुरा ७५७-अमिधानराजेन्द्रः - भाग 2 उत्तरकुरा मरमणिज्ज भूमिभागे पण्णत्ते वण्णओ जाव आसयंति। क्व भदन्त। उत्तरकुरुषु कुरुषु यमकौ नाम द्वौ पर्वतौ प्रज्ञप्तौ ? भगवानाह गौतम ! नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याचर- मान्ताच्चरम रूपात् पर्यन्तादष्टौ योजनशतानि चतुस्विशानि चतुस्त्रिंश दधिकानि चतुरश्च योजनस्य सप्त भागान अबाधया कृत्वा अपान्तराले मुत्तवेति भावः। अत्रांतरे शीताया महानद्याः पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोरत्र एतस्मिन् प्रदेशे यमकौ नाम द्वौ पर्वतौ प्रज्ञप्तौ। तद्यथा एकः पूर्वकूले एकः पश्चिमकूले प्रत्येकंयोजनसहस्रमुच्चैस्त्वेन अर्द्धतृतीयानियोजनशतानि ऊधिन अवगाहेन मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामपि शेषेणोचैस्त्वापेक्षया चतुर्भागस्यावगाहभावात् मूले एकं योजनसहस्रं विष्कम्भः (1000) मध्ये अर्द्धशतोनाष्ट योजनशतानि (750) उपरि पञ्चयोजनशतानि (500) मूले त्रीणि योजनशतानि एकं च द्वाषष्टं द्वाषष्ट्यधिक योजनशतं किश्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्तौ (3162) मध्ये द्वे योजनसहस्रे त्रीणि योजनशतानि द्वासप्तत्यधिकानि (2372) किञ्चिद्विशेषाधिकानिपरिक्षेपेण प्रज्ञप्तौ ! उपरि एकं योजनसहस्रं पशशतानि एकाशीतीनि एकाशीत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि (1581) परिक्षेपेण एवं च तौ मूले विस्तीर्णी मध्ये संक्षिप्तौ उपरि तनुकावत एव गोपुच्छसंस्थानसंस्थिती (सव्वकणगमया इति) सर्वात्मना कनकमयौ (अच्छा जाव पडिरूवा इति) प्राग्वत् तौ च प्रत्येक 2 पद्मवरवेदिकया परिक्षिप्तौ प्रत्येकं 2 वनखण्डपरिक्षिप्तौ पद्मवेदिका वर्णको वनखण्डवर्णकश्च जगत्युपरि पद्मवरवेदिकावनखण्ड- वर्णकवत्वक्तव्यः (जमकपव्वयाणमित्यादि) यमकपर्वतयोरुपरि प्रत्येकं बहुसमरणीयो भूमिभागः प्रज्ञप्तः भूमिभागवर्णनं च "से जहानामए आलिंगपुक्खरेइवा'' इत्यादि प्राग्वत् तावद्वक्तव्यं यावद्वाणमंतरा देवा देवीउ य आसयंति सयंति जाव पचणुब्भवमाणा विहरंति॥ तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं 2 पासायबर्डे सका पण्णता तेणं पासायबर्डेसका वावट्टि जोयणाई अद्धजोयणं च उद्धं उच्चतेणं एकतीसं जोयणाई कोसं च विदखंभेणं अन्भुग्गतभूसित वण्णाओ भूमिभगाओ उल्लोत्ता दो जोयणाई मणिपेढियाओ उवरि सीहासणा सपरिवारा जाव जमगा चिटुंति। (तेसिणमित्यादि)तयोर्बहुसमरमणीययोभूमिभागयोर्बहु मध्यदेशभागे प्रत्येक प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः / तौ च प्रासादावतंसको द्वाषष्टिोजनानि अर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन एकत्रिंशद्योजनानि क्रोश चैकं विष्कम्भेन "अब्भुग्गयं मूसिय पहसियाइवे" त्यादियावत्पडिरूवा इति प्रासादावतं-सकवर्णनमुलोचवर्णनं भूमिभागवण्णानं मणिपीठिकावर्णनं सिंहासनवर्णनं विजयदूष्यवर्णनमङ्कुशवर्णनं दामवर्णनं च निरवशेषं प्राग्वद्वक्तव्यं नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्भाभ्या द्वे योजने बाहल्येन एकं योजनं शेषं तथैव (तेसिणं सिंहासणाणमित्यादि) तयोः सिंहासनयोः प्रत्येक (अवरुत्तरेणंति) अपरोत्तरस्यां वायव्यामित्यर्थः उत्तरपूर्वस्यां च दिशि अत्र एतासु तिसृषु दिक्षु यमकयोर्यमकनाम्नो र्यमकपर्वतस्वामिनोदैवयोः प्रत्येक प्रत्येकं चतुण्ाँ सामानिक- सहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि। एवमेतेनक्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राक् विजयदेवस्य (तेसिणमित्यादि) तयोः प्रासादावतंसकयोः प्रत्येकमुपरि अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि इत्याद्यपि प्राग्वत्तावद्वत्तव्यं यावत् सयसहस्सपत्तगा इतिपदम्। सम्प्रति नामनिबन्धनं पिपृच्छिषुरिदमाहसे केणढे णं भंते एवं वुचंति जगमा पव्वया 2 गोयमा! जमगेसु णं पव्वतेसु तत्थ 2 देसे 2 तर्हि 2 बहूउ खुड्डियाउवावीउजाव विलवंतियाउ तासुणं खुड्डा खुड्डिया जाव पिलवंतियासु बहूई उप्पलाई जाव सतसहस्सपत्ताइं जमगप्पभाई जमगवण्णाई जमगा पत्थ णं दो देवा महिड्डिया जाव पलिओवमट्ठितिया परिवसंति तेणं तत्थ पत्तेयं 2 चउण्हं सामाणियसाहस्सीणं जाव जमगाणं पव्वयाणं जमिगाण य रायहाणीणं अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव पालेमाणा विहरति / से तेणटेणं गोयमा ण्वं वुबइ जमगपव्वया 2 अदुत्तरं चेणं गोयमा / जाव णिचा। अथ केनार्थेन केन कारणेन एवमुच्यते यमकपर्वतो यमकपर्वता- विति भगवानाह गौतम ! यमकपर्वतयोःणमिति वाक्यालंकारे क्षुल्लिकासु वापीषु पुष्करिणीषु यावद्विलपंक्तिषु बहूनि उत्पलानि यावत्सहस्रपत्राणि यमकप्रभाणि यमका नाम शकुनिविशेषास्तत्प्रभाणि तदाकाराणि एतदेव व्याचष्टे यमकवर्णभानि यमकसदृशवर्णानीत्यर्थः यमको च यमकनामानौ च तत्र तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवौ महर्द्धको यावन्महाभागौ पल्योपमस्थितिको परिवसतस्तौ च तत्र प्रत्येक प्रत्येक चतुर्णां सामानिकसहस्राणां चतसृणा- मग्रमहिषीणां सपरिवाराणां तिसृणामभ्यन्तरमध्य बाह्यरूपाणां यथासंख्यमप्यादश द्वादशदेवसहस्रसंख्याकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकदेवसहस्राणां (जमगपव्व-याणां जमगाण य रायहाणीयमिति) स्वस्य स्वस्य यमकपर्वतस्य स्वस्या यमिकाभिधाया राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानां देवीनां च स्वस्वयामिकाभिध राजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः यावत्करणात् 'पारेवचं सामित्तं भट्टित्तमित्यादि" परिग्रहस्ततो यमकाकारय-मवर्णोत्पलादियोगात् यमकाभिधदेवस्वामिकत्वाच्च तौ यमकपर्वतावित्युच्यते / यथा चाह (सेएणढणमित्यादि)। संप्रति यमकाभिधराजधानीस्थानम् / कहिणं भंते जमगाणं देवाणं जमगाओ नाम रायहाणीओ पण्णत्ताओ / गोयमा ! जमगाणं पय्वयाणं उत्तारणंति तिरि यमसंखेजदीवसमुहे वितिकमित्ता अण्णम्मि जंबूद्दीवे 2 वार सजोयणसहस्साई उगाहित्ता एत्थणं जमगाणं देवाणं जमिगाओ णाम रायहाणीओ पण्णत्ताओ वारसजोयणसहस्साई जहा विजयस्स जाव महिड्डिया। जमगा देवाः क्व भदन्त / यमकयोर्देवयोः संबन्धिन्यौ यमिके नामराजधान्यौ प्रज्ञप्ते भगवानाह गौतमयमकपर्वतयोरुत्तरतोऽन्यस्मिन् असंख्येयतमे जम्बूद्वीये 2 द्वादशयोजनसहस्राण्यवगाह्य अत्रांतरे यमकदेवयोः संबंधिन्यौः यमकराजधान्यौः प्रज्ञप्ते ते चाविशेषण विजयराजधानीसदृश्यौ वक्तव्ये जी०३ प्रति०॥ संप्रति हृदवक्तव्यतामभिधित्सुराहजंबूमंदरउत्तरेणं उत्तरकुराए कुराए पंचमहहहा पण्णत्ता तंजहा नीलवंतदहे एरावणदहे उत्तरकुरुदहे चंददहे माल वंतदहे। नीलवंतमहाहृदो विचित्रचित्रकूटपर्वतसमवक्तध्याताभ्यां यम