________________ उत्तरकुरा 786 - अभिधानराजेन्द्रः - भाग 2 उत्तरकुरा रुकथनं ततः पार्श्वस्थौ विद्युत्प्रभसौमनसौ विहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणं भरतासन्नविजयान् विहाय कच्छमहाकच्छादिविजयकथनं चेति / अथैतासां जीवानाह (तीसेइत्यादि)तासामुत्तरकुरूणां सूत्रे एकवचनं प्राकृतत्वाञ्जीवा उत्तरतो नीलवर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं स्पृष्टा एतदेव विवृणोति / तद्यथा पौरस्त्यया कोट्या पौरस्त्वं वक्षस्कारपर्वतं माल्यवंतं स्पृष्टा पाश्चात्यया पाश्चात्यं गंधमादननामानं वक्षस्कारपर्वतं स्पृष्टा त्रिपञ्चाशद्योजनसहस्राणि आयामेन तत्कथमित्युच्यते। मेरोःपूर्वस्यां दिशि भद्रशालवनमायामतो द्वाविंशतियोजन- सहस्राणि एवं पश्चिमायामपि उभयोर्मीलने जातं चतुश्चत्वारिंशत्सहस्राणि मेरुविष्कम्भे दशसहस्रयोजनात्मके प्रक्षिप्ते जातं चतुःपञ्चाशत्योजनसहस्राणि एकैकस्य वक्षस्कारगिरेः वर्षधरसमीपे पृथुत्वं पञ्चयोजनशतानि ततो द्वयोर्वक्षस्कारगिर्योः पृथुत्वपरिमाणं योजनसहसंततः पूर्वराशिरपनीयते जातः पूर्वराशिस्त्रिपञ्चाशद्योजनसहस्राणीति। अथैतासांधनुः पृष्ठमाह (तीसेणं धगुंदाहिणेणमित्यादि) तासां धनुः पृष्ठं दक्षिणतो मेरोसिन्न इत्यर्थः / षष्टियोजनसहस्राणि चत्वारि च योजनशतानि अष्टादशानि अष्टादशाधिकानि द्वादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण / तथाहि एकैकवक्षस्कार गिरेरायामस्त्रिंशद्योजनसहस्राणि द्वे च नवोत्तरे षटं च कलाः / ततो द्रयोर्वक्षस्कारयोरायाममीलने यथोक्तं मानमिति॥ जं०४ वक्ष०। अर्थतासां स्वरूपप्ररूपणायाह / / उत्तरकुराएणं भंते ! कुराए केरिसए आगारभावपाडोयारे पण्णत्ते ! गोयमा / बहुसमरमणिभूमिमागे पण्णत्ते से जहाणामए आलिंगपुक्खरेति वा जाव एवं एगोरुगदीव दत्तव्वया जाव देवलोगपरिग्गहाणं ते मणुयगणा पण्णत्ता समणाउसो॥ (उत्तरकुराएणं भंते इत्यादि) उत्तरकुरूणां सूत्रे एकवचनं प्राकृतत्वात् कीदृश आकारभावस्य स्वरूपस्य प्रत्यवतारसंभवः प्रज्ञप्तः! भगवानाह गौतम ! बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्रज्ञप्तः (सेजहानामाए इत्यादि) जगत्युपरिवनखण्डवर्णकवत्तावद्वक्तव्यं यावत्तृणानां मणीनां च वर्णो गन्धः स्पर्शः शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति / / पर्यंतसूत्रं चेदं दिव्वं नट्टसज्जं गेयं पगीयाणं भवे एयारूवे सिया हंता सिया इति" जी०३ प्रति।। अत्रेदमवधेयम्॥ (सूत्रपाठे जाव एवं एगोरुगदीववत्तव्वया इति / एकोरुकद्वीपवर्णक एव स्मारितः वृत्तिकृता तु एतादृशं पाठममन्यमानेन एकोरुकवक्तव्यतायाम किश्चिदुक्त्वा इहैव व्याख्यातमित्यस्माभिरपि अन्तरदीपशब्दे एकोरुकवक्तव्यतामूलसूत्रैरेय प्रदर्शिता इह तुतादृशानि सूत्राणि परिकल्प्य टीका संयोजिता) उत्तरकुरुषु आकारप्रत्यवतारस्य वर्णकः सुषमसुषमाभरतवर्षस्येव भावनीया सा ओसप्पिणीशब्दे व्याख्यास्ते नवरम्॥ उत्तरकुराणं कुराए छविधा मणुस्सा अणुसज्जंति / तंजहा पम्हगंधा 1 मियकांधा 2 अममा 3 सहा / तेयली 5 सणिचारी 6 (उत्तरकुराएणं भंते इत्यादि) उत्तरकुरूषु कुरुषु भदन्त ! कतिविधा जातिभेदेन कतिप्रकारा मनुष्या अनुसञ्जति संतानेनानुवर्त्तन्ते भगवानाह-गौतमा षड्विधा मनुजा अनुसजेतितद्यथा पद्मगंधा इत्यादि जातिवाचका इमे शब्दाः अत्र विनेयजनानुग्रहाय उत्तरकुरुविषयसूत्रसंकलनार्थं संग्रहणीगाथात्रयमाह इसुजीवा धणुप४, भूमी गुम्मा य हेरुउद्दाला। निलगलयावणराई, लुक्खामणुया य आहारे।। गेहा गामाय असी, हिरण्णरायाय दासमाया य। आरवरण्णा मत्तवि, वाहमहनट्ठसगडा य॥ आसागावो सीहा, सालीथाणुयगडदंसाही। गहजद्धरोगट्टिइ, उबट्टणा य अणुवट्टणा चेव॥ अस्य व्याख्या प्रथममुत्तरकुरुविषयमिषुजीवाः धनुःपृष्ट प्रतिपादनेक सूत्रं तदनंतरं (भूमिरित्त) भूमिविषयं सूत्रं ततो (गुम्मा इति) गुल्मविषयं सूत्रं तदनंतर हेरुतालवनविषयं सूत्रं ततः। (उद्दाला इति) उद्दालाविषयं तदनंतरं (तिलग इति) तिलकपदोपलक्षितं ततो लताविषयं तदनंतरं वनराजिविषयं ततो (रुक्खाइति) दशविधकल्पपादपविषया दश सूत्रदण्डका (मणुया य इति) त्यो मनुष्यविषयाः सूत्रदण्डकास्तद्यया आद्यः पुरुषविषयो द्वितीयः स्त्रीविषस्तृतीयः सामान्यतः उभयविषयः। तत (आहारे इति) आहारविषयस्तदनंतरं (गेहा इति) गृहविषयौ दण्डको आधो गृहकारवृक्षाभिधायी अपरो गेहाद्यभावविषय इति ततो (गामा इति) ग्रामाधभावस्तदनंतरम् (असीति) अस्याद्यभावविषयस्ततो हिरण्याद्यभावविषयस्तदनंतरं राजाद्यभावविषयस्ततो दासाद्यभावविषयस्ततो मात्रादिविषय स्तदनंतरमरिवैरिप्रभृतिविषयस्तदनंतरं मित्राद्यभावविषय- स्तदनंतरं विवाहपदोपलक्षितस्तत्प्रतिषेधविषयः तदनंतरं महप्रतिषेधविषयः ततो नृत्तपदोपलक्षितप्रेक्षाप्रतिषेधः तदनंतरं शकटादिप्रतिषेधविषयः ततो ऽश्वादिपरिभोगप्रतिषेधविषयः तदनंतरं स्त्रीगत्यादिपरिभोगप्रतिषेधविषयः। ततः सिंहादिश्वापदविषयः तदनंतर शाल्याधुपभोगप्रतिषेध विषयस्ततः स्थाण्वादिप्रतिषेधविषयस्तदनंतरं गादिप्रतिषेधविषय स्ततो दंशाद्यभावविषयस्ततोऽह्यादिविषयस्तदनंतरं ग्रह इतिग्रहदण्डादिविषयस्ततो युद्ध इति युद्धपदोपलक्षितो डिम्बादिप्रतिषेधविषयः सूत्रदण्डकस्तता रोगइति रोगपदोपलक्षितो दुर्भूतादिप्रतिषेधविषयस्तदनंतरं स्थितिसूत्रं ततोऽनुषञ्जनसूत्रमिति॥ संप्रति उत्तरकुरुभावियमकपर्वतवक्तव्यतामाह-- कहिणं भंते ! उत्तरकुराए जमगा नाम दुवे पव्वता पण्णता ? गोयमा ! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं अट्ठचोत्तीसं जोयणसत्ते चत्तारिय सत्तभागे जोयणसहस्स आबाधाए सीताए महाणतीए उभओ कूले एत्थ णं उत्तरकुराए जमगा णाम दुवे पव्वता पण्णता एगमेगेणं जोयणसहस्सउर्ल्ड उच्चत्तेणं अवजाई जोयणसयाई उवे हेणं मूले एकमेकं जोयणसहस्सं आयामविक्खं भेणं मज्झे अद्धट्ठमाइं जोयणसताई आयामविक्खंभेणं उवरिपंचजोयणसयाइं आयामविक्खंभेणं मूले तिण्णि जायण-सहस्साइं एकं वा वटुंजोयणसयं किंचि विसेसाहियं परिक्खेवेणं दो जायणसहस्साई तिण्णि य वावत्तरे जायणसत्ते किंचि विसेसूण परिक्खेवेणं उवरिं पण्णरस एक्कासीते जोयणसते किंचि विसेसाहिया परिक्खेवेणं पण्णत्ता मूलविच्छिण्ण मज्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिता सटवकणगामया अच्छा सण्हा जाव पडिरूवा पत्तेयं २पउ मवरवेतिया परिक्खत्ता पत्तेयं 2 वणसंडपरिक्खित्ता वण्णओ दोण्णं वि ते सिणं जमगपव्वयाणं उपि बहुस