SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ उज्जुसुत्त 772 - अमिधानराजेन्द्रः - भाग 2 उज्जोय तेरसत्त्वं सह कार्युपढौकितातिशयमनङ्गीकुर्वतस्तदपेक्षायोगाद-क्षेपेण कार्यकारिणस्सर्वकार्यमकदैव विदध्यादिति न क्रमकर्तृत्वम् न वा कदाचनापि स्वं कार्यमुत्पादयेत् निरपेक्षस्य निरतिशयत्वान्न हि निरपेक्षस्य कदाचित्करणमकरणं वा विरोधात् तत्कृतानुकारं | स्वभावभूतमङ्गीकुर्वतः क्षणिकत्वमेव / व्यतिरिक्तत्वे वा संबन्धासिद्धिरपरोपकारकल्पनेऽनवस्थाप्रसक्तिः / युगपदपि न नित्यस्य कार्यकारित्वं द्वितीयेऽपि क्षणे तत्स्वभावात् / ततस्तदुत्पत्तितः तत्क्रमप्रसक्तेः क्रमाक्रमव्यतिरिक्तप्रकारान्तरभावाच्च न नित्यस्य सत्वमर्थक्रियाकारित्वलक्षणत्वात्तस्य प्रध्वंसस्य च निर्हेतुकल्वेन स्वभावतो भावात् स्वरसभङ्गुरा एव सर्वे भावाः इति पर्यायाश्रितर्जुसूत्राभिप्रायस्तदुक्तम्। अतीतानागता देव, कालसंस्पर्शिव-र्जिजम्। वर्तमानतया सर्व-मृजुसूत्रेण सूत्र्यते // सम्म० / स्था० (अयं च नयो मूलनयत्वेनानुयोगद्वारादिषूक्तः संमतिकृता पुनः पर्यायनयभेदत्वेनाभ्युपगतः पञ्जायणय शब्देऽस्य विस्तरतो वर्णनं करिष्यते) (क्षणिकवादः खणियवायशब्दे) एकत्वानेकत्वसमस्तधर्मकलापविकलतायास्तदपि विज्ञानवादिपरिकल्पितम् विज्ञानशून्यरूपेण ऋजुसूत्रयतीति ऋजुसूत्रः / माध्यमिकदर्शनाऽवलम्बिनि सर्वभावानां नैरात्म्यं प्रतिपादयति पर्यायास्तिकनयभेदे, (तन्मतं सुण्णवाय शब्द) उज्जुसुत्त(य)वयणविच्छेद पुं०(ऋजुसूत्रवचनविच्छेद) ऋजुवर्तमानसमयं वस्तुस्वरूपावच्छिन्नत्वात्तदेव सूत्रयति परिच्छिनत्ति नाजीतानागतं तस्यासत्त्वेन कुटिलत्वात् तस्य वचनं पदं वाक्यं वा तस्य विच्छेदोऽन्तःसीमेति यावत् ऋजुसूत्रवचनस्येति कर्मणि षष्ठी। ऋजुसूत्रस्यैवायमर्थो नान्यस्येति प्ररूपयतो विच्छिद्यमाने वचने, "मूलणिमेणं पज्जव–णयस्स उज्जुसुयवयणविच्छेदो, तस्स उ सद्दाई आसाहपसाहासुहमभेआ" सम० उज्जुसुत्ता(या)मास पुं०(ऋजुसूत्राभास) ऋजुसूत्रवदाभासते ऋजुसूत्राभासः / सर्वथा द्रव्यापलापिनि, ऋजुसूत्रवदाभासमाने नयाभासे, र०॥ उज्जुसेढि स्त्री०(ऋजुश्रेणि) ऋजुः सरला चासौ श्रेणी च / सरलाकाशप्रदेशपङ्क्तौ, / (उज्जुसेढिपत्ते अफुसमाणगई अड्ढे एगसमइएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ) उत्त० 26 अ01 उज्जेणी स्त्री०(उज्जयिनी) अवन्तीजनपदराजधान्याम् "उज्जेणीए नयरीए अवंति नामेण य विस्सुओ" संस्था०(उज्जेणि अदृणे खलु०) आव०४ अ०॥ उज्जेणगपुं०(उज्जयनक) स्वनामख्याते श्रावकभेदे, उज्जेणगस्स सावगस्स तत्थ णियलिंगणं कालगयस्स मिच्छत्तं जायं, आव०४ अ०॥ उज्जोइय त्रि०(उद्योतित) उत् द्युत्क्त 0 रत्नप्रदीपादिभिः प्रकाशिते, ग०१अधि० ध०। तं०। औ०॥ उज्जोएमाण त्रि०(उद्योतयत्) प्रकाशयति, "दसदिसाउ उज्जोएमाणा पभासेमाणा" जीवा०३ प्रति० / स्थूलवस्तूपदर्शनतः प्रकाशयति, स्था०८ ठा०। सूत्र० ! औ० / उपा०॥ उज्जोय पुं०(उद्योत) उद् द्युत्- अच् / वर्तितृणचुडाकाष्ठादिभिः अग्निप्रकाशने, आचा०१ श्रु०२ अ०५ उ० / वस्तुप्रभासने, स्था० 4 ठा०। वस्तुविषये प्रकाशे, नं0। आ० म०प्र० / औ०। "देवुञ्जोयं करेंति" रा०। "उज्जोओ तह य अंधकारोपएसो दुसालाभं परिणामो" सूत्र०१ अ०।अस्य निक्षेपः। सांप्रतमुद्योत उच्यते तत्राहदुविहो खलु उज्जोओ, नायव्वो दय्वभावसंजुत्तो। अग्गीदव्वुजोओ, चंदो सूरो मणी विज्जू / / द्विविधो द्विप्रकारः खलुशब्दो मूलभेदापेक्षया न वक्त्रपेक्षयेति विशेषणार्थः / उद्योत्यते प्रकाश्यते अनेनेति उद्योतो ज्ञातव्यो वि-ज्ञेयो द्रव्यभावसंयुक्तः / द्रव्योद्योतो भावोद्योतश्चेति भावः / तत्र द्रव्योद्योतोऽग्निश्चन्द्रः सूर्यो मणिश्चन्द्रकान्तादिलक्षणो विद्युत् प्रतीता। एते द्रव्योद्योताः / एतैर्घटादीनामुद्योतनेऽपि तद्गतायाः सम्यक् - प्रतीतेरभावात् सकलवस्तुधानुद्योतना च न ह्यन्यादिभिः सदसन्नित्याद्यनन्तधर्मात्मकस्य वस्तुनः सर्व एव धर्माधर्मास्तिका यादयो वा द्योत्यन्ते तस्मादग्न्यादयो द्रव्योद्योता इति। अधुना भावोद्योतमाह। नाणं भावुजोओ, जह भणियं सव्वभावदंसीहिं। जस्स उवओगकरणे, भावुजोयं वियाणाहि॥ ज्ञायते यथावस्थितं वस्त्वनेनेति ज्ञानम् / सतो भावोद्योतः तेन घटादीनामुद्योतने तद्गतायाः सम्यक् प्रतिपत्तेः स्वभावात्तस्य तदात्मकत्वात् / एतावता वा विशेषेणैव ज्ञानं भावोद्योत इति प्राप्तमत आह यथा भणितं यथावस्थितं सर्वभावदर्शिभिस्तथा यद् ज्ञानं सम्यग्ज्ञानमिति भावः / तत्रापि विशेषेणोद्योतः किं तु तस्य ज्ञानस्योपयोगकरणे सति भावोद्योतं विजानीहि नान्यदा तदेव तस्य वस्तुनोऽतत्वसिद्धेः / इत्थमुद्योतस्वरूपमभिधाय सांप्रतं येनोद्योतेन लोकस्योद्योतकरा जना भवन्ति किंतु तीर्थकरनाम-कर्मोदयतोऽनु सत्वार्थसंपादनेन भावोद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति। अत्र पुनःशब्दो विशेषणार्थः / स चैतत् विशिनष्टि। आत्मानमधिकृत्य के वलज्ञानेनो द्योतकरा लोक प्रकाशकवचनप्रदीपोपेक्षया तु शेषकतिपयभव्यविशेषादधिकृत्योद्योतकरा अत एवोक्तं भवन्ति कोऽर्थः न भवन्ति न तु भवन्त्येवं कांश्चनप्राणिनोऽधिकृत्योद्योतकरत्वस्यासंभवात् / चतुर्विशतिग्रहणमधिकृतावसर्टिपणीगततीर्थकरसंख्याप्रतिपादनार्थमुद्योतनाधिकारे एव द्रव्योद्योतः। द्रव्योद्योतोद्योतभावोद्योतोद्योतयोर्विशेषप्रतिपादनार्थमाह। दव्वुजोओजोओ, पभासई परमियम्मि खित्तम्मि। भावुलोओजोओ, लोगालोग पगासेइ॥ द्रव्योद्योतोद्योतो द्रव्योद्योतप्रकाशः पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच प्रकाशयति / पाठान्तरं प्रभासते परिमिते क्षेत्रे अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्तु अध्याहियते यदा तुप्रभासते तदा स एव दीप्यते इति गृह्यते भावोद्योताधोतोलोकं प्रकाशयति प्रकटार्थम्। उक्तः उद्योतः। आ०म०द्वि०॥ आ०चूला उद्योतो यद्यपि लोके भेदेन प्रसिद्धो यथा सूर्यगत आतपः चन्द्रगतः प्रकाश इति तथाप्यातपशब्दश्चन्द्रप्रभायामपि वर्तते इति / सूत्रकृदाह "उज्जोवेंति तवंति पगासेंति आहितेति वदेज्जा''चं०३ पाहु०। दिवा उद्योतो रात्रावन्धकार इति दण्डकश्च अंधयार शब्दे उक्तः। ऊर्ध्वलोके तिर्यग्लोके च उद्योतः॥ उडलोगेणं चत्तारि उज्जोयं करेंति तंजहा देवा देवीओविमाण आभरणा तिरिक्खलोगेणं चत्तारि उज्जोयं करेंति चंदा सूरामणी जोती। स्था०४ ठा०॥ उज्जोयकरण न०(उद्योतकरण) प्रकाशकरणे, आचा०१ श्रु०१ अ०४ उ०॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy