SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ उज्जुसुत्त 771 - अभिधानराजेन्द्रः - भाग 2 उज्जुसुत्त स्याऽस्ति अन्यत्तु शेषमतीतानागतं परकीयं च यद्यस्मादसदवि-द्यमानं ततोऽसत्वादेव तद्वक्तुमिच्छत्यसाविति अत एवोक्तं नियुक्तिकृता एतन्मतमेव प्रमाणतःसमर्थयन्नाह! न वि गयमणागयं वा, भावो णुवलंमओ खपुष्पं च / नय निप्पओयणाउ, परकीयं परधणमिवत्थि।। विगतं विनष्टमतीतमनागतं त्वनुत्पन्नम् / एतदुभयरूपमपि न भावे न वस्त्वनुपलम्भात्खपुष्पवदिति / न च परकीय वस्त्वति निष्प्र-- योजनत्वात्प्रयोजनाकर्तृत्वात्परधनवदिति। अथ व्यवहारनयं युक्तितः स्वपक्षं ग्राहयन्नाह। जइन मयं सामन्नं, संववहारोवलद्धिरहियंति। नाणुगयमस्स व तहा, परक्कमवि निप्फलतणओ॥ हेव्यवहारनयवदिन्! यदि तव व्यवहारानुपयोगादनुपलम्भाच सामान्य न मतं संग्रहस्य सम्मतमपि नेष्टमित्यर्थः / ननु तथा तेनैव प्रकारेणैव व्यवहारानुपयोगादनुपलम्भाच गतमतिक्रान्तमेष्यच्चा-नागतं वस्तु नाभ्युपगतस्त्वंयुक्तेः समानत्वात्तथापरकमपि परकीयमपि वस्तुमैषीः स्वप्रयोजनासाधकत्वेन निष्फलत्वात्पर-धनवदिति / अथ यदसौ नयोऽभ्युपगच्छतितत्सर्वमुपसंहृत्य दर्शयति।। तम्हा निययं संपय-कालीणं लिंगवयणमिन्नं पि। नामाइभेयविहियं, पडिवज्जइ वत्थुमुज्जुसुओ॥ तस्मादृजुसूत्रनयः प्रतिपादितयुक्तितो वस्तु प्रतिपद्यते / कथं भूतं निजकमात्मीयं न परकीयं तदपि सांप्रतकालीनं वर्तमानं न त्वतीतानागतरूपम्तच्च निजं वर्तमानंच वस्तु लिङ्गवचनभिन्नमपि प्रतिपद्यते। तत्रैकमपि त्रिलिङ्गं यथा तटस्तटी तटमित्यादि / तथैकमप्येकवचनं बहुवचनवाच्यं यथा गुरुर्गुरवः आपो जलं दाराः कलत्रमित्यादि। तथा नामादिभेदविहितमप्यसौ वस्तु अभ्युपगच्छति / नामस्थापनाद्रव्यभावरूपाश्चतुरोऽपि निक्षेपान् सामान्यत इत्यर्थः तदिह लिंगवयणेत्यादिना अभ्युपगमद्वयोपन्यासेन वक्ष्यमाणशब्दनयेन सहास्याभ्युपगमभेदोदर्शितःशब्दनयो हि लिङ्गभेदाद्वचनभेदाच वस्तुनो भेदमेव प्रतिपत्स्यते न पुनरेकत्वम् / तथा नामादिनिक्षेपेऽप्येकमेव भावनिक्षेपं मंस्यते न तु शेषनिक्षेपत्रयमिति तदेवमुक्तः ऋजुसूत्रनयः विशे०। (एतन्मतदूषणं सद्दनयशब्दे)। भावत्वे वर्तमानत्व-व्याप्तिधीरविशेषिता। ऋजुसूत्रश्रुतः सूत्रे, शब्दार्थस्तु विशेषितः॥२६॥ भावत्वे वर्तमानत्वव्याप्तिधीरतीतानागतसंबन्धाभावव्याप्यत्वोपगन्तृता अविशेषिता शब्दाद्यभिमतविशेषापक्षपातिनी सूत्रे ऋजुसूत्रनयः श्रुतः सूत्रं च "पचुप्पण्णग्गाही, उज्जुसूओयण विहि मुणेयव्वोत्ति' अत्र प्रत्युत्पन्नमेव गृहातीत्येवं शीलः इत्यत्रार्थे तात्पर्यादुक्तार्थलाभः / अविशेषितपदकृत्यमाह शब्दार्थस्तु विशेषित इति / तथाच विशेषितार्थग्राहिणि शब्दादिनये नातिव्याप्तिरिति भावः / सतां सांप्रतनामाद्यर्थानामभिधानपरिज्ञानमृजुसूत्र इति तत्वार्थभाष्यम्। व्यवहारातिशायित्वलक्षणमभिप्रेत्य तदतिशयप्रतिपादनीयमेतदुक्तं व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहते कथं तह्यर्थमपि परकीयमतीतमनागतं चाभिधानमपि तथाविधार्थवाचकं ज्ञानमपि तथाविधार्थविषयमविचार्य सहेतेत्यस्याभिमानो न चायं वृथाभिमानः स्वदेशकालयोरेव सत्ताविश्रामात् / यथा कथंचित्संबन्धस्य सत्ताव्यवहाराङ्गत्वे प्रतिप्रसङ्गात् / नच देशकालयोः सत्त्वं विहायान्यदतिरिक्तंसत्वमस्ति तद्योग्यता प्रकृते स्यादसत्ताबोधोऽपि चात्र तत्र खरशृङ्गादाविव सत्ताप्रतिक्षेपी। विकल्पसिद्धेऽपि धर्मिणि निषेध प्रवृत्ते-स्तत्र तत्र व्यवस्थापितत्वादिति दिग्॥२६॥ अन्यमप्यत्र विशेषमाह। इष्यतेऽनेने नैकत्रा-वस्थान्तरसमागमः। क्रियानिष्टाभिदाधार-द्रव्यभावाद्यथोच्यते॥३०॥ अनेनर्जुसूत्रनयेनैकधर्मिणि अवस्थान्तरसमागमः भिन्नावस्थावाचकपदार्थान्वयो नेष्यतेन स्वीक्रियते कुतः क्रिया साध्यावस्थाऽनिष्ठा घ सिद्धावस्था तयोर्या भिदा भिन्नकालसंबन्धस्तदाऽऽधारस्यैकद्रव्यस्याभावादत्रार्थेऽभियुक्तसंमतिमाह यथोच्यतेऽभियुक्तैः पलालं न दहत्यनि-भिद्यते न घटः क्वचित् / नासंयतःप्रव्रजति, भव्यासिद्धो न सिध्यति॥३१॥ अत्र दहनादिक्रियाकाल एव तन्निष्ठाकाल इति, दह्यमानादेर्दग्धत्वाद्यव्यभिचारात्तदबस्थाविलक्षणपलालाद् व्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात्पलालंन दहयाग्निरित्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते। विधिभुखस्तु व्यवहारोऽत्रापलालं दह्यतेऽघटो भिद्यते संयतःप्रव्रजति सिद्धः सिध्यतीत्येवमाकार एव दृष्टव्यः / अत एव "सो समणे पव्वइओइ'" चेति नये कृतकरणपरिसमाप्तिः सिद्धस्याऽपि साधने करणव्यापारानुपरमादिति / नयो०।। अथऋजुसूत्रनयस्य भेदमाह। स्वानुकूलं वर्तमान-मृजुसूत्रो हि भाषते। तत्र क्षणिकपर्यायं, सूक्ष्मः स्थूलो नरादिकम् // 13 // हि निश्चितं ऋजुसूत्रो नयः / वर्तमानं केवलमतीतानागतकाल-रहित भाषते मनुते। तदपि कीदृशं स्वानुकूलं स्वस्यात्मनोऽनुकूलं कार्यप्रत्ययं मनुते परंतु परप्रत्ययं न मनुते / सोऽपि ऋजुसूत्रो द्विभेदो द्विप्रकारः / एकः सूक्ष्म ऋजुसूत्रः / 1 / अपरः स्थूल ऋजुसूत्रः / / तत्र सूक्ष्मस्तु क्षणिकपर्यायं मनुते क्षणिकाः पर्यायाः परतोऽव-स्थान्तरभेदात्पर्यायाणां स्ववर्त्तमानतायां क्षणावस्थायित्वमेवो-चितमिति / स्थूलस्तु मनुष्यादिपर्यायं वर्तमानं मनुते अतीताना-गतादिनारकादिपर्यायं न मनुते यो हि व्यवहारनयः कालत्रयवर्ति--पर्यायग्राहकस्तस्मात् स्थूल ऋजुसूत्रव्यवहारनयेन शंकरत्वं न लभते / अथ च ऋजुवर्तमानक्षणस्थायिपर्यायमात्रप्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रनय इति अतीतानागतकाललक्षणकौटिल्यवैकल्यात्प्राञ्जलमिति॥द्र०६अ। पर्यायनयभेदाः / ऋजुसूत्रादयः। "तत्रर्जुसूत्रनीतिः स्याच्छुद्धपर्यायसंश्रिता। नश्वरस्यैव भावस्य, भावास्थितिवियोगतः।। देशकालान्तरसंबन्धस्वभावरहितं वस्तुतत्वं सांप्रतिकमेकस्वाभावमकुटिलमृजुसूत्रयतीति / ऋजुसूत्रः न ह्येकस्वभावस्य नानादिकालसंबन्धित्वस्वभावमनेकत्वं युक्तमेकस्यानेकत्वविरोधात्। न हि स्वरूपभेदादन्यो वस्तुभेदः स्वरूपस्यैव वस्तुत्वापत्तेः / तथाहि विद्यमानेऽपि स्वरूपे किमपरमभिन्नं वस्तु यद्रूपनानात्वेऽप्येकं स्यादिति / यद्वस्तुरूपं येन स्वभावेनोपलभ्यते तत्तेन सर्वात्मना विनश्यति न पुनः क्षणान्तरसंस्पर्शीति क्षणिक क्षणकान्तरसम्बन्धे तत् क्षणकान्तरस्य क्षणान्तराकारविशेषाप्रसङ्गात् अतो जातस्य यदि द्वितीयक्षणसंबन्धः प्रथमक्षणस्वभावं नापनयति तदा कल्पान्तरावस्थानसंबन्धोऽपि तत्रापनयन स्वभावभेदे वा कथं न वस्तुभेदः अन्यथा सर्वत्र सर्वदा भेदा भावप्रसक्तिः / अक्षणिकस्यक्रमयोगपद्याभ्यामर्थक्रियानुपप
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy