________________ उग्गह 750 अभिधानराजेन्द्रः। भाग 2 उग्गह गृहिणां संबन्धी यः संगारो युष्मदन्तिके अस्माभिरसंयतः कालादूर्ध्व प्रव्रज्या ग्रहीतव्येति संकेतस्तं प्रतीच्छन् संयतः स्वयं च तैः सार्द्ध संगारममुष्मिन् दिनेऽमुष्मान् प्रव्राजयिष्यामीति लक्षणं कुर्वन् हिंसा यावदसौन प्रव्रजतितावते कालं षट्काय- विराधनालक्षणामनुमोदयति स च शैक्षस्तं प्रति विपरिणतो येन प्रावजितस्तस्यैवाभवति न संकेतदायिन इति। किंच। विप्परिणमइ सव्वं व, परओ असण्णअण्ण तित्थीव। मोत्तुं वासावासं,ण होइ संगारतो इहरा।। संकेतकरणनन्तरं शैक्षः स्वयं वा विपरिणमति परतो वा परेण / स्वजनादिनास विपरिणम्येत आसन्नविहारिषु वा प्रव्रजेत् अयन्तीर्थिको भवेत् / अतो वर्षावासं मुक्तवा इतरथा पुष्टालम्बनं विना संगारो न प्रतीच्छनीयो न वा कर्त्तव्यः किमर्थं पुनः संगारमसौ करोतीत्याह। संखडसण्णयावी, खित्तं मोत्तध्वयं वमा होजा। एएहिं कारणेहिं, संगारकरंति चउगुरुगा।। संखडिस्तत्रा ग्रामे उपस्थितानां परिहर्तुं न शक्रोति संज्ञातका वा तस्य तत्र भूयांसस्तेषामाग्रहात् शक्रोति गन्तुं क्षेत्रां वा तदतीव सस्निग्धमधुराहारादिलभापन्नं शैक्षस्य चतत्र सागारिकं ततस्तमोक्तव्यं माभूत। एतैरेवामदिभिः कारणैः। शैक्षस्य संगारं यः करोति तस्य चतुर्गुरु / अथ गृहस्थाः किमर्थं संगारं कुर्वन्तीत्याह। रिणवाहि मोक्खेउं, कुडुंबवित्तिं वतिथि ते गिण्हे। एमादि अणाउत्ते, करिति गिहिणो उ संगारं।। ऋणं वा व्याधिंवा मोक्षयितुं अपनेतुं कुटुम्बस्य वापश्चान्निर्यह णायोग्यां वृत्तिं संपादयितुं यद्वा ग्रीष्मस्तदानीमतिक्रान्तो वर्षावास आयातः एवमादिभिः कारणैः शैक्षस्यानायुक्ते अक्षणिकतायां गृहिणः संगारं कुर्वन्ति / अथ द्वितीयपदेन संगारे प्रतीष्यमाणे आभाव्यविधिमाह। अगविट्ठोमित्ति अहं,लब्मति असढेहिं विपरिणतो वि। वोयं तप्याहिंति व, ते वियणं अंतरा गंतु / / संगारे कृते यश्च शठेग्लानादिकार्याव्यापृतैः स शैक्षो न गयेषितस्तदाऽसावगवेषितो नैकमपि वारमहममी भिर्गवेषित इति बुद्ध्या विपरिणतोऽपि लभ्यते तेषामेवाभवतीत्यर्थः / परं तेऽपि साधवस्तमन्तरा गन्तुं वा नोदयेयुरिति संकेतस्मारणपुरस्सरं शिक्षयन्ते अथ स्वयं गन्तुंन प्रभवन्ति ततः (तप्पाहिति) संदेशं तस्य प्रेषयन्ति। एवं खलु अच्छिन्ने, वेला तहेव दिवसेहिं। वेला पुण्णमपुण्णे, वाधाए होइ चउभंगो।। एवं तावदच्छिन्ने अनियते संगारे विधिरुक्तः यस्तु छिन्नः संगारस्तत्र विधिराभधीयते छिन्नो नाम क्षेत्रातः कालतश्च प्रति नियतः / क्षेत्रातो ग्रामवनखण्डादौ प्रव्रज्यादानार्थ भवद्भिः समागन्तव्यं कालतो वेलया दिवसैर्मासेश्च प्रतिनियतैस्तत्रा च वेलाया उपलक्षणत्वादिवसैश्च (पुण्णमपुण्णत्ति) पूणे अपूर्णे वा संगारे काले व्याघातो भवेत्। तत्र चेयं चतुर्भगी। कालपूर्णो निर्घातं प्राप्तः, 1 कालः पूर्णः संधातः, 2 संजातकालोऽव्याघातपूर्णपरं निर्व्याघातंता प्राप्तः, 3 कालोऽप्यपूर्णो व्याघातोऽपि जात, इति / अथवा अन्यथा चतुर्भङ्गी संयतस्यव्याघातो न गृहस्थस्य, गृहस्थस्य व्याघातो न संयतस्य / द्वयोरपि व्याधातः। द्वयोरप्यव्याघातः। तका संयतस्य व्याघाते विधिमाह। मंदहिगा ते तहियं वि पत्ते, जे तिमणा ते य सढा ण हों ति। .स लब्भतीअण्णगतो तहेव, दप्पट्ठिया जे ण उ ते लमंति।। या ग्रामादौ संकेतः कृत आसीत् तत्र स शैक्षः प्राप्तः साधवस्तु न प्राप्तास्ततो यद्येवं मन्यते मन्दार्थिनस्ते सद्विषये मन्द प्रयोजना अत एव नायाता इति बुद्ध्या विपरिणतः। तेच साधवो यदिशठप्रव्रजिकादिप्रतिबन्धयुक्ता न भवन्तिग्लानादिकार्यव्यापृता यतो याता इति भावः ततः स शैक्षोऽन्यगतोऽप्यन्यमाचार्यमभ्युपगतोऽपि तैः साधुभिर्लभ्यते। ये तु दर्पतः स्थितास्तेनैवतं लभन्ते येन प्रव्राजितस्तस्यैवासौ शिष्य इति। पंथेधम्मकहिस्सा, उवसंतो अंतरा उ अण्णस्स। अभिधारितो न तस्स उ, इयरे पुण जो उ पव्वाये।। यद्यसौ येन साधुना संकेतो दत्तस्तदभिमुखं प्रस्थितः पथिगच्छन् अन्तरा अन्यस्यधर्मकथिनः समीपे धर्ममाकार्योपशान्तः सच स्वयमभिधारयन् गच्छति तदा तस्यैवाभिधारित स्याभवति / इतरः पुनरनभिधारयिता ततो धर्मकथी प्रव्राजयति। इदमेव व्याचष्ट। पुण्णेहिं पि दिणेहिं, उवसंतो अंतरा उ अण्णस्स। अभिधारित्तो तस्स उ, इयरं पुण जो उ पच्छावे / / पूर्णैरपिशब्दादपूर्णैरपि दिवसैरन्तरा पथि वर्तमानो ऽन्यस्य सकाश उपशान्तः सन् अभिधारयति प्रव्रजामि तावदह समीषां समीपे पर पूर्वेषामेवाहं शिष्यः एवमभिधारयन्तस्यैव पूर्वाचार्यस्याभवति इतरो नाम यः पूर्वेषां विपरिणतस्तं प्रव्राजयति तस्यैव स शिष्यः / नियमप्रदर्शनार्थमिदमाह। णूणादिसमोसरणे, दटूण वित्तं तु परिणतो अण्णं / तस्सेव से ण पुरिसे, एमेव पहम्मि दव्यं ते।। न्यूनादौ समवसरणे तं पूर्वाचार्य दृष्ट्वाऽपि यद्यन्यमेव परिणतः प्रतिपन्नस्तदा तस्यैवासौ शिष्यो न पूर्वस्य एवमेव पथि व्रजतामप्यनाघातानाभाव्यविधिरवगन्तव्यः / अथ कः संयतस्य गृहस्थस्य वा व्याघातो न भवतीत्याह। गेलण्णतेणग नदी, सावयपइण्णीयवालमहिया वा। इइसमणे वाघातो,महिगा वज्जा उसेहस्स॥ ग्लानत्वं तस्य साधोरुत्पन्ना स्तेनका वा अन्तराले द्विविधा नदी वा पूर्णा स्वापदा वा व्याघ्रादयः / पथि तिष्ठन्ति प्रत्यनीको वा तं प्रतिचरन्नास्ते व्यालाः सप्पस्तेि वा पथि गच्छन्तं दशन्ति महिका वा पतितुमारब्धा य एवं श्रमणे व्याघातः संभवति शैक्षस्यापि महिकावर्जः सर्वोऽप्येष एव व्याघातो वक्तव्यः / पूर्व स्वयं विपरिणतमाश्रित्य विधिरुक्तः / अथान्येन विपरिणामितस्य विधिमाह।। विप्परिणामियभावो,ण लभते तं च णो वियाणामो। विप्परिणामियकहणा, तम्हा खलु होति कायव्वा / / विपरिणामितो विवक्षिताचार्यादुत्तारितो विपरिणामकस्यविपरिणामितभावः एवंविधः शैक्षो लभ्यते भावो यस्यस विपरिणामकस्य भवतीति भावः1 शिष्यः प्राह तमेव विपरिणमनं तावद्वयं न विजानीमः / सूरिराह। यत एवं भवतो जिज्ञासा तस्माद्वि परिणामनं विपरिणामितं तस्य कथना प्ररूपणा कर्तव्या भवति। तामेवाह। दिट्ठमदिट्ठविदेसत्थ, वि गिलाणे मंद धम्म अपसुत्ते।