________________ उग्गह 748 अभिधानराजेन्द्रः / भाग 2 उग्गह पगतः प्रव्रजितुं परिणतः / एतै स्त्रिभिः पदैः (इयरत्ति) प्रतिपक्षपदसहितैरष्टो भङ्गा लिङ्गिनो लिङ्गसहितस्य गच्छतो भवन्ति। तथाहि निर्दिष्टः संज्ञी अभ्युपगतः 1 निर्दिष्टः संज्ञी अनभ्युपगतः / / निर्दिष्टो ऽसंज्ञी अभ्युपगतः 3 निर्दिष्टो ऽसंज्ञी अनभ्युपगतः 4 अनिर्दिष्टपदेनाप्येवंचत्वारोभङ्गालभ्यन्तेएते अष्टौ भङ्गालिङ्गिनउक्ताः। अशिखाके चैवमेव प्रत्येकमष्टौ भङ्गा भवन्ति सर्वे ऽप्येते मीलिताश्चतुर्विशतिभङ्गा जायन्ते एतेषु विधिमाह। पढम विति ततिय पंच, सत्तम नवम तेरसेसु भंगेसु। विपरिणतो वि तस्सेव, होइ सेसेसु सच्छंदो।। प्रथमद्विती यतृतीयपञ्चमसप्तमनवमत्रायोदशेषु विपरिणतोऽपि यं निर्दिश्यागतोयं वा अभ्युपगतस्तस्यैवाभवति शेषेषु चतुर्थषष्ठाष्टमदशमैकादशद्वादशचतुर्दशादिषु चतुर्विशतिषु सप्तदशसु भङ्गेषु स्वच्छन्दः स्वेच्छः यः प्रतिभावी तस्यैवाभवतीत्यर्थः / इदमेव व्यक्तीकुर्वन्नाह। सव्वो लिंगी असिहो य, भावतो जस्स अब्भुवगतो सो। णिहिट्ठमण्णलिंगी, तस्सेवाणब्भुवगतो त्ति।। सर्वो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिके ऽभ्युपगतः स एव तं लभते। किमुक्तं भवति यो लिङ्गसहितोऽभ्युपगतः स निर्दिष्टोऽनिर्दिष्टो वा संज्ञी असंज्ञी वा भवतु यश्चाशिखाकः श्रावको ऽभ्युपगतः सोऽपि निर्दिष्टो वा भवतु एष सर्वोऽपि यमेवाभ्युपगतो विपरिणतोऽपि तस्यैवाभवति एतेन प्रथमतृतीयपञ्चमसप्तमनवमत्रयोदशभङ्गास्टूचिताः। तथायो लिङ्गी निर्दिष्टः संज्ञीच स यद्यप्यनभ्युपगतस्तथापि यमेव निर्दिश्यागतस्तस्यैवाभवति न पुनर्विपरिणतोऽप्यन्यस्यानेन द्वितीयो भङ्गो गृहीतः। शेषेषु तु सप्तदशस्वपि गतेषु यत्राभ्युपगतस्तत्रा विपरिणतस्तस्यैव विपरिणततस्तु स्वेच्छायां यत्र तु नाभ्युपगतस्तत्र विपरिणतोऽविपरिणतो वा यथा स्वच्छन्दमाभाव्य इति गतं कथं कल्पो ऽभिधारण इति द्वारम्। __ अथैकग्रामे इति द्वारमाह। असन्नी उपसमितो अ-पण्णो इच्छीइ अण्णहिं तस्स। दवणं च परिणए, उवसमिते जस्स वा खेत्तं / / केनचिद्धर्मकथिना कश्चिदसंज्ञी मिथ्यादृष्टिरुपशमितः प्रव्रज्याभिमुखीकृतः स यावन्नाद्यापि सम्यक्तवं प्रतिपद्यते तावत्प्रव्रजन् क्षेत्रिकस्याभवति। अथ सम्यक्तवं प्रतिपन्नस्तस्य क्षेत्रमन्यस्याचार्यस्य सत्कं ततोऽसावात्मन इच्छया आभवति यदि क्षेत्रिकस्योपविष्टतस्तत स्तस्यैव अथोपशामयत उपस्थित स्तत्रोपशमेयत् एव एतौ धौ मुक्तवा अन्यस्य नाभवति (अन्नहित्ति) अथान्य क्षेत्राद्वहिरुपशमितस्तदा तस्योपशमकस्या भवति / अथ के नापि नो कथितः परमन्यं कमप्याचार्यादिकं दृष्ट्वा स्वयमेव प्रव्रज्यायां परिणतस्ततोऽसौ क्षेत्रावहिरुपशान्त उपशामत आभवति / मूर्तिदर्शनद्वारेणोपशमनकारिण इत्यर्थः / अथ क्षेत्रान्तरुपशान्तस्ततो यस्य सत्कं क्षेत्रं तस्याभव्यः। अमुमेवार्थं सविशेषमाह। परखित्ते वसमाणो, अइक्कमंतो व ण लभति असण्णत्थिं / दहण पुथ्वसण्णी, गाहितस्साति सा लमति।। परक्षेत्रो मासकल्पे वर्षावासे वा वसन् अतिक्रामन् वा पर क्षेत्रामग्रतो गन्तुमनास्तत्रावस्थितोऽसंज्ञिनमप्रतिपन्नसम्यक्तवं स्वयमुपशमितमपि न लभते / अय कंचिन्मिथ्यादृष्टिं सम्यक्तवमादिशब्दादणुव्रतानि वा ग्राहयित्वा क्षेत्रान्तरं गतः भूयोऽप्यन्यदा। तदैव क्षेत्रभायातः स च प्रागुपशमित इदानीं पूर्व संज्ञी लभ्यते ततस्तं पूर्वसंज्ञिनं सम्यक्तवादिग्राहितंस उपशमच्छदेन लभते। किमुक्तं भवति। उपशमिक क्षेत्रिकं वा यमभिरोचयति तस्याभवति / एवं त्रयाणां वर्षाणामागतो मन्तव्यः। त्रिषु वर्षेषु पूर्णेषु सपूर्वसंज्ञी क्षेत्रिकस्यैवाभाव्यो नोपशमयतः। आहच चूर्णिकृत " तिसु वरिसेसु पुण्णेसु खेत्तियस्स वा भवति / तो उवसामितस्सत्ति' गतमेकग्रामद्वारम्।। अथातिक्रामन् द्वारमाह। मग्गंतो अण्णखित्ते, अभिधारितो उभावतो तस्स। खित्तिम्मि खित्तियस्स, वाहिं वा परिणतो तस्स।। शैक्षः कंचिदाचार्य मार्गयन्व्रजति तस्यचान्यक्षेत्रे परकीयक्षेत्राभ्यन्तरे पथि गच्छतः कश्चिद्धर्मकथी मिलितः स यद्याकर्षणहेतोस्तस्य धर्म कथयति तदा यमाचार्यमभिधारयन व्रजति तस्याभवति / अथ भावतः स्वभावादेव कथयति ततस्तस्य धर्मकथिकस्याभवति। तुशब्दो विशेषणे सचैतद्विशिनष्टि यदि क्षेत्राभ्यन्तरेस्वभावतः कथयति ततः क्षेत्रिपरिणतः प्रव्रयाभिमुखीभूतः क्षेत्रिकस्य भवति बहिस्तु परिणतस्तस्य कथयत आभाव्य इति। इदमेव व्याचष्ट।। अभिधारत्तो वचति, पुच्छित्तो साहुवचतो तस्स। परिसगतो व कहइ, कट्टण हेउं न तं लभति।। कंचिदाचार्यमभिधारयन् शैक्षो व्रजति तस्य कोऽपि साधुः पथि गच्छन् मिलितस्तेन च पुष्टोऽमुक आचार्यः कुत्रास्ते साधुराह किं तेन भवतः प्रयोजनम् / स प्राह / तस्यान्तिके प्रव्रजितुकामोऽहं परं दृष्ट्वा तस्य व्रजत एवाकर्षणहेतोः (साहत्ति) धर्म कथयति यद्वा ग्रामे वापि पर्षदन्तर्गतस्य धर्म कथयते उपस्थितस्ततो वन्दित्वा तथैव स्वाभिप्राये कथि ते स आकर्षण हेतोर्विशेषतो धर्म कथयति कथिते च यद्यसौ प्रव्रजितुमभिलषति ततो न तं शैक्षं लभते। अभिधारिता चार्यस्यैव स आभवति।। उज्जुकहए परिणतं, अंतोखित्तस्स खित्तिओ लभइ। खित्तबहिं तु परिणयं, लभउज्जुकहीण खलु माई।। अथासौ कथको धर्मकथी ऋजुकः सद्भावतः कथयति नाकर्षण हेतोः स च प्रव्रज्यायां परिणतः क्षेत्रान्तः परिणतेक्षेत्रिको लभते क्षेत्रावहिः परिणंत तु ऋजुको धर्मकथी लभते न खलु मायी मायावान्। परिणमइ अंतरा अंतरा य भावोणियत्ति तत्तो से। खित्तम्मि खित्तियस्स, वहिं तु परिणतो तस्स। अथअन्तरान्तरा तस्य भावः प्रव्रज्यायां परिणमते निवर्त्तते वा ततः क्षेत्रो परिणतः क्षेत्रिकस्याभवति बहिस्तु परिणतस्तस्य धर्मकथिकस्याभवतीति। गतमतिकामन् द्वारम् / अथ द्विधा मार्गणा शिष्य एकविधा च प्रतिच्छके इति यदुक्तं तत्र प्रतीच्छकविषयांतावदेकविधां केवलसज्ञातीय विषयां मार्गणामाह। माया पिया य भाया, भगिणी पुत्तो तहेव धुत्ताय। छप्पेते नालबद्धा, सेसेए भवंति आयरिया।। माता पिता भाता भगिनी पुत्रास्तथैव दुहिता वा पडप्येते अन्नन्तरवल्लीमधिकृत्य नालबद्धा मन्तव्याः / एते च अभिधारयन्तः प्रतीच्छक स्याभवन्ति / उपलक्षणमिदं तेन परावल्लीबद्धा अपि वक्ष्यमाणाः षोडश जना अभिधारयन्तस्तस्यै वाभवन्ति / शेषास्तु ये नालबद्धा भवन्ति तेषु आचार्या