________________ उग्गह 747 अभिधानराजेन्द्रः / भाग 2 उग्गह एतेहिं दिक्खितो हं,तुम्हे वि सुणासि तत्थासि।।। तुशब्दस्य विशेषणर्यतया यो वाताहृतो यशःकीयोरपि अज्ञायकः स पृष्टो भणति / अमुकदिने प्रतिपदादौ अमुष्मिन्काले मार्गशीर्षादौ मासे दीक्षितोऽहमेतैः दीक्षानन्तरं च शृणोमि। यथा स्वयमपि तत्रासीरन्निति। एमेव य जसकीतिं, जाणते जदा तदा जाणाति। तस्स वितहेव पुच्छा, पावयणिओ वा जहा जातो।। एवमेव वास्तव्यो ऽपि यो यश कीर्तिजानाति तस्यापि तथैव स्नानादौ यदा पृच्छा कृता भवति तदा जायते।यदा वा असौ प्रावचनिको बहुश्रुतो जातस्तदा स्वयमेव जानाति नाह -ममीषामाभाव्यः / एवं तावत् सचित्तविषयो विधिरुक्तः। अथाचित्तादिविषयं तमेव निर्दिशन्नाह। एमेव य अचित्ते, दुविहे उवहिम्मि मीसते चेव। पुच्छा अपुव्वमुवहिं, दुद्रूण अणुज्जु पूयाणं। एवमेते अचित्ते द्विविधे ओघोपग्रहोपधिभेदाद् द्विप्रकारे उपधौ मिश्रके चसोपधिकशैक्षै विधिमन्तव्यः / कथं पुनरसावा भाव्यो वा ज्ञायते इत्याह / अपूर्वं सारतरमुपधिं दृष्ट्वा अनृजुभूतानां तेषामन्तिके पृच्छा भवति। क्षेत्रिकैरयं कदा कुत्र वा गृहीत इत्येवं ते प्रष्टव्या इति भावः। एवं वासावासे, उदुबद्ध पंथे जत्थ वा ठाति। सव्वत्थ वा होति उग्गहो, केसिं विपदीवदिटुंतो।। एवं वर्षावासे ऋतुबद्धेवामासद्वयं दिवसपञ्चकं पूर्वावग्रह इति। पथिवा व्रजतो यत्रा क्वापि आचार्यस्तिष्ठति ता सर्वतः सक्रोशं योजनमवग्रहो भवति तत्राप्येवमेव सचित्तादीना माभाव्यानानाभाव्य विधिरवसातव्यः / केषांचिदाचार्याणामयमऽभिप्रायः मार्ग गच्छतां पृष्ठतो नास्त्यवग्रहः।। अयं वा नादेशः कुत इत्याह प्रदीपदृष्टान्तोऽत्रा भवति। यथाहि प्रदीपः सर्वतः प्रकाशयति नैकामपि दिशं प्रकाशशून्यां करोति एवमवग्रहोऽपि सर्वतो भवतिनकुत्रचिन्न भवत्यपीति। एवंतावत् क्षेत्र सचित्तादिविषयो विधिरुक्तः। ___ अधाक्षेत्रे तमेव निर्दिशति। अक्खित्ते वसधीए, जाणविए वि एमेव / उज्जुगमणुज्जुगे या, सो चेव गमो हवइ तत्थ।। अक्षेत्रो इह कालादियुक्ते, नगरादौ सक्रोशं योजनमवग्रहो भवति किं तु तत्र यस्यां वसतौ यः पूर्वस्थितस्तस्यां सचित्तादिकं यदुपतिष्ठते तत्तस्याभवति न पश्चादागतानां तत्रापि य एव क्षेत्र गम उक्तः स एव सर्वोऽपि ज्ञापके ज्ञापिते च ऋजुके अनृजुके च वक्तव्य इति / अथ कथं कल्पोऽभिधारणीय इति निर्वचन्नाह। अणिदिट्ठसण्ण सण्णि, गहितागहिए य सच्छंदो। णिहिट्ठलिंगसहितो,सण्णी तस्सेव णस्सस्स।। अभिधारणं प्रव्रज्यार्थभाचार्यादेर्मनसा संकल्पनम् तच द्विधा अनिर्दिष्टं निर्दिष्ट च अनिर्दिष्ट नामधारयन् कमप्याचार्य विशेषतो न निर्दिशति सच अभिधारको द्विधा संज्ञी असंज्ञी चपुनरैकेको द्विधा गृहीतलिङ्गोऽगृहीतलिङ्गश्च एष सर्वोऽप्योघतः सामान्येनाचार्यविशेषनिर्दिश्य प्रव्रजन स्वच्छन्द आभाव्यो भवति यस्यान्तिके प्रव्रजति तस्यैवासौ शिष्य इत्यर्थः / निर्दिष्ट पुनरभिधारणं तदुच्यते यत्रामुकस्याचार्यस्य समीपे प्रवजिप्यामीति निर्देशं करोति एषोऽपि द्विधा संज्ञी असंज्ञी च / भूय | एकैको द्विधा लिङ्गसहितो लिङ्गरहितश्च / तत्र लिङ्गरहितश्च / तत्रा लिङ्ग सहितः संज्ञी यमाचार्यमभिचार्य गच्छति / विपरिणतोऽपि तस्यैवासौ भवति नान्यस्य। निद्दिद्वेव असण्णी, गहियागहिए य अगहिए सण्णी। तस्सेव अविपरिणतेवि, परिणते जस्स इच्छाया।। असंज्ञी नाम गृहीतलिङ्गोऽगृहीतलिङ्गौवा भवतु यस्तु संज्ञी श्रावकः सोऽगृहीतलिङ्ग एते त्रयोऽप्यपरिणते भावे यं निर्दिष्टमाचार्यमभिधार्य गच्छन्ति तस्यैव भवन्ति / अथ तं प्रति भावो विपरिणतस्ततो यस्य सकाशे तेषां प्रव्रजितुमिच्छा तस्यैव ते शिष्याः।। अथ किंकारणं लिङ्गसहितो व्रजतीत्याह।। वारियसमुदाणहा, तेण व गिहभन्ति धम्मसवा वा। एएहि लिंगसहितो, सण्णी व सिया असण्णीव।। वारिको हरिकस्तद्विषया शङ्का मा भूदिति बुद्ध्या लिङ्ग गृहीत्वा व्रजति तथा समुदानं भैक्षं तदर्थ लिङ्गं गृह्णाति गृहीतलिङ्गों हि सुखेनैव भिक्षामानोति। स्वभावापान्तराले गृहिभ्रान्त्या धर्मश्रद्धालवो वा तिष्ठन्ति एतैः कारणैः संज्ञी वा असंज्ञी साधुसमाचारीनिपुणो लिङ्गसहितः स्यादिति / इह यो निर्दिशन प्रव्रजति एकमनेकान् वा निर्दिशेत तत्र योऽनेकान् निर्दिशति स एवं संकल्पयति यो मे प्रतिभाषिष्यते तस्य सकाशे प्रव्रजिष्यामि। तद्विषयं विधिमाह। णेगा उदिस्स गतो, लिंगेणं फालितो तु एक्केणं / दटुं च अचक्खुस्स, णिट्ठिणं गतो तस्स।। अनेकानाचार्यानुद्दिश्य लिङ्गेन सहितानां बहूनां निर्दिष्टानामन्तिके गतस्ता चैकेनास्फालितः सादरमाभाषितो यदि तमभ्युपगतस्तदा तस्यैवासौ शिष्यः। अथाभाषितोऽपि तमचक्षुप्यमनिर्दिष्ट दृष्ट्वा निर्दिष्टमेव कमप्यन्यमुपगतस्तदा तस्या भवति। इदमेव सविशेषमाह। निहिट्ठमनिद्दिटुं, अब्भुवगयलिंगिनो लभइ अण्णो। लिंगी व अलिंगी वा, सच्छंदेणय अणि हिट्ठो।। निर्दिष्टमनिर्दिष्ट वा आचार्यमभिधार्य गच्छन् लिङ्गी लिङ्गसहितः शैक्षो यमाचार्यमभ्युपगतस्तस्यैवाभयति नैवान्यस्तं लभते / यस्त्वनिर्दिष्टो नाद्यापि कमप्यभ्युपगतः स लिङ्गी वा भवतु अलिङ्गी वा स्च्छन्देन यमभिलषति तस्याभवति। एमेव असिह सण्णी, णिदिट्ठस्सुवगतोण अण्णस्स। अब्भुवगतो विससिहो, जस्सिच्छति दो असण्णीव।। लिङ्गसहितः संज्ञी निर्दिष्टानांबहूनांमध्ये यमेवाभ्युगतस्तस्यैवाभवति एवमेव शिखाकोऽपि संज्ञी बहून् निर्दिश्यागतो वा यस्यैव निर्दिष्टस्यान्तिके उपगतः प्रव्रजितुं परिणतस्तस्यैवासौ शिष्यो भवति नान्यस्य यस्तुं सशिखाकः संज्ञी सकप्यभ्युपगतोऽपि यदि पश्चाद्विपरितस्तदा यस्यान्तिके प्रव्रजितुमिच्छति तस्याभवति (दोहअसन्नत्ति) द्वौ वा शिखाकसशिखाकलक्षणौ यौ असंज्ञिनौ तावपि पूर्वं कंचनाभ्युपगतौ पश्चाद्विपरिणतौ स्वच्छन्देन यदुपकण्ठे प्रव्रजतस्तस्या भाव्यौ / अस्यैवार्थस्य सुखावबोधाय भङ्गकानाह। निहिस्सससन्नि, अब्भुवगतेतरअट्ठ लिंगिणो भंगा। एवमसिहे विससिहे वि, अट्ठ सव्वे चउव्वीसं / / कमप्याचार्य निर्दिश्य गच्छत्त निर्दिष्टः सज्ञी श्रायक: अभ्य