________________ उग्गह 746 अभिधानराजेन्द्रः। भाग 2 उग्गह मचू अकल्लुणाहियओ, न हुदीसति आवयंतो वि।।। यदा दीक्षाग्रहणादिकार्य कल्ये द्वितीयदिने नरेण कर्त्तव्यं तदद्यैव कर्तु वरं प्रशस्यं यतो मृत्युरकरुणहृदयः स्वभावादेव कठोराशयस्तथा कथमप्यापतितायथा आपतन्नपिनदृश्यतेउक्तं "स्वकार्यमथ कुर्चीतपूर्वाल्हे, यत्पराह्निकम् / को हितद्वेत्ति कस्याद्य, मृत्युसेना पतिष्यति।" तथा। तुरहा धम्म काउं, मा हुपमायं खणं पि कुय्वीथ / बहुविग्यो हुत्तोमा, अवरणं पडिच्छावि।। भव्यास्त्वरध्वं धर्म कर्तुं मा क्षणमपि प्रमादं कुरुध्वं कुत इत्याह।। बहवश्चलविषविश्वविकाशमुपघातग्रिदाहादिभेदादने के विघा जीवितान्तरायाः। यस्मादसौ बहुविघ्नो हुशब्दो यस्मादर्थे अपिशब्दस्य वानुक्तस्यापि गम्यमानत्वात् / यस्मान्मुहूर्तोऽपि बहुविघ्नः आस्तां प्रहरदिवसादिरतो महाभाग मा प्रव्रज्याग्रहणे अपराह्नमपि प्रतीक्षिष्ठाः। एवमेव कृत्वा चतुर्भिर्नवकैस्तथैव प्रेषणीयम् / गतं पुणो दाइंति द्वारम्। अथ यावज्जीवपराजितद्वारमाह।। बहुसो उवट्ठियस्सा, विग्धा उद्धिति जज्जियति भोमि। अणुसासणपचवणा, णवगा य भावसमुमुयरे / / क्षेत्रिकाणां गमनवृत्तान्तं ज्ञात्वा कोऽपि शैक्षो ब्रूयाद्बहुशोऽनेकशः प्रव्रज्याग्रहणोपायस्थितोऽहं वारंवारं विधानवनवा उत्तिष्ठन्ति अतो यदयं जावज्जीवमहं तैर्विधैर्जितोऽस्मि यदेते साधवो विहृतवन्तः अतः परं तेषु समागतेषु प्रव्रजिप्यामि। एवं ब्रुवाणस्यानुशासनं कर्त्तव्यम्। भद्र! साप्रतं तव चारित्रावारकाणामनुदयो वर्तते अतो मा प्रमादीः को जानाति भूयोऽपि तेषामुदयो भवेत् / आवश्यकादिनिहितश्च कूर्मवर्मदृष्टान्तस्तत्पुरतः प्ररूपणीयः / एवमनुशिष्य प्रस्थापनं कर्तव्यं तत्र च तथैव मुण्डितेन तयोः प्रत्येकं चत्वारो नवका भवन्ति / एवं प्रथमद्वितीयदिवसयोरव्याहतादीनां कल्पो विधीयते। अथ ज्ञापिते कथं कल्पो वास्तव्ये वाताहतेऽपि वेति द्वारमाह। वाताहते विणवगा, ता हव जाणाविए अइयरे य। एमेवय वत्थव्वे, णवगाण गमो अजाणते।। वाताहृतो द्विधा ज्ञापित इतरश्च / यः क्षेत्रिकाणां यशःकीर्तिमपि न जानाति स आगन्तुकसाधुभिस्त्वमस्माकं न भवसि ये गतास्तेषामेवाभवसीति सद्भावावगमं कारितो ज्ञापित उच्यते / इतरो नाम यशःकीर्तिज्ञस्तत्र ज्ञापिते इतरस्मिन् वाताहृते प्रव्रजितुमायाते तथैव चत्वारो नवका भवन्ति / वास्तव्वोऽपि शैक्षोऽयं क्षेत्रिकाणां यशः / कीर्तिमपि न जानाति तत्रापि नवकानां गम एवमेव मन्तव्यः / अथ वास्तव्यो वाताहतो वा यः कीर्तिमपि न जानाति स कीदृशो भवेदुच्यते। वत्थव्वे वायाहड, सेवगपरतिस्थिवणियएएय। सव्वे ते उजुगाअ-प्पिणाइलेलाइ वा जत्थ।। वास्तव्योवा वाताहृतो वायो राजकुलसेवको यो वा परतीर्थिको यश्च पणिक् एते असन्निहितत्वेन यशःकीर्तिमपि गुरूणां न जानीयुः परं प्रथमद्वितीयदिवसयोः प्रव्रजितुमायातास्तेऽपि क्षेत्रिकाणामाभाव्याः / अथ ऋजुअनृजुद्वारचिन्ता क्रियते।यआचार्य ऋजुर्भवतिस सर्वानप्येतान क्षेत्रित्रकाणामर्पयति। यत्रा वा क्षेत्रिका भवन्ति तत्रसंघाटकादिभिः प्रकारैः प्रेषयित्वा तौ सह मीलयति। माइल्ले वारसगं, जाणगजाणं वि एय चत्तारि। पच्छवे वायहडे,ण लमति चउरो अणुग्घाया।। यस्तु मायावी अनृजुः सन्प्रेषयति तत्रच प्रकाराणां द्वादशकं भवति। तानेवाग्रे वक्ष्यति / तथा ज्ञापके ज्ञापिते च समुदिताश्चत्वारः प्रकारा भवन्ति / तद्यथा ज्ञापकं प्रथमदिववसे न प्रेषयति। 1 द्वितीये तमेव न प्रेषयति। एवं ज्ञापितस्यापि द्वौ प्रकारौ एतैर्वक्ष्यमाणैश्च प्रकारैर्वास्तव्यं वाताहृतं वा अप्रेषयतश्चत्वारोऽनुद्घातामासाः नच तान् शिक्षान् लभते कुलस्थविरादिभिवेलात्क्षेत्रिकाणां दाप्यते इत्यर्थः / / अथाव प्रायश्चित्तवृद्धिमाह सत्तरतं तवो होति, ततो च्छेदो पहावई। छेदेण छिण्णपरियाण, ततो मूलं ततो दुर्ग।। प्रागिव द्रष्टव्यम् प्रकारद्वादशकमाह। तरुणे मज्झिमथेरे, तद्दिणवितिए य छक्कगं इक्कं / एमेव परग्गामे, छक्कं एमेव इत्थीसु।।। पुरिसित्ति गाण एते, दो वारसगा उ मुंडिण होति। एमेव व ससिहम्मिय, जाणगजाणविए भयणे।। तरुणमध्यमस्थविरान्प्रत्येकं तद्दिवसे द्वितीयदिनो वा प्रेषयत् एकं प्रकारषट्कं भवति एतश्च स्वग्रामविषयं परग्राम एवमेव प्रकाराषट्कं सर्वेऽप्येते द्वादश प्रकाराः पुरुषेषु भणिता एवमेव च स्त्रीस्वपि प्रकारद्वादशकं भवति। एते द्वे द्वादशके पुरुषस्त्रीणां मुण्डितविषये भवतः / एवमेव च शैक्षकेऽपि शैक्षद्वादशद्वयं तदेवं ज्ञापिते च प्रत्येकं (भयणत्ति) भङ्गक विकल्पास्तेषां चत्वारिद्वादशकानि भवन्ति / अथवा।। अव्वाहायपुणोघात,जावजीवपराजिया। तद्दिणेपेसणीया-सग्गामे पकारवारसहा।। अव्याघातपुनरागत प्रव्रजितयावजी पराजिताश्चेति त्रयः शैक्षाः। एतान् तदिने वा प्रेषयन् प्रकारषट्कम् / एतश्च स्वग्रामे इतरस्मिन् वा परग्रामे भवतीति कृत्वा द्वाभ्यां गुणितं द्वादशधा भवति / अथ ऋजु अनृजुलक्षणमाह। जाणंतमजाणते,णाइवायसेवाअमाइल्लो। सो चेव उजुओ खलु, अणुजुओ जाणअप्पेति।। जानतोऽजानतो वा शैक्षान् योऽमायावी सक्षेत्रिकाणां समीपे स्वयं याति परहस्तेन वा प्रेषयति स एवं ऋजुक उच्यते। अनृजुस्त्वसौ अभिधीयते यो न समर्पयति न वा प्रेषयति / अथैते वास्तव्यवाताहृता जानन्तोऽजानन्तो वा अनृजुभिः प्रव्राजितास्ते स्वयं पश्चात्परिज्ञायन्ते। उच्यते ततोऽनुयानादिषु यत्रा मिलितास्तत्र क्षेत्रिकैः कश्चिदनृजुः प्रव्रजितो वाताहृतः पुष्टः कथं भवान्प्रव्रजितः स भणति। तुज्झे विय नीसाए, अहमागतो दिक्खिणो बलेहिं। अम्हे किं न पवइया, पुट्ठावणते परिकहेसुं। युष्माकमेव निश्रया अहमागतः। अमीभिः स्ववलाद्दीक्षितःमया भृशममी पृष्टास्तत एभिराख्यातं वयं किं प्रवर्जिता न भवामो यदेव तान् मार्गयसि / यद्वान पृष्टाः सन्तः किमपि व्याख्यातवन्तः। एवं रूपशब्दे यशः कीर्तिज्ञो वक्ति। यस्तुकीर्तिमपि न जानाति स ब्रूयात। वायाहडो तु पुट्ठो, भणाइ अमुगदिण अमुगकालम्मि।